________________
८०६
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
अमाव्ययात् क्यन् च ॥ २॥ [सि० ३।४।२३] मान्ताव्ययवर्जाद्वितीयान्तादिच्छायां क्यन् काम्यश्च वा स्यात् ॥२॥ 'अमा' क्यन् काम्यश्चेति सूत्रे चकारग्रहणं काम्यार्थम् । अन्यथा मान्ताव्यययोः सावकाशः स क्यना बाध्येत । मान्ताव्ययवर्जनं किम् ? इदमिच्छति खरिच्छति इत्यादौ क्यन् न भवति किन्तु ५वाक्यमेव । काम्यो वा भवति । गोशब्दसन्ध्यक्षरवर्जस्वरनान्तेभ्य एव क्यनमिच्छन्त्यन्ये । गव्यति पुत्रीयति राजीयति । अन्यत्र न भवति । यमिच्छति किमिच्छति । नकारः क्यनीत्यत्र विशेषणार्थः । ककारः क्यग्रहणे सामान्यग्रहणार्थः । वा स्यादिति पक्षे वाक्यमपि भवति ॥ २ ॥ अत्रोपयोगिसूत्रम्
क्यनि ॥ ३॥ [सि० ४१३३११२] १० अवर्णान्तस्य क्यनि ई: स्यात् । पुत्रमिच्छति पुत्रीयति ४ । अपुत्रीयीत् अपुत्रीयिष्टाम् ५ । पुत्रीयामास ६। पुत्रीयिता ८ । पुत्रीयिष्यति ९॥३॥
'क्यनि' ई. स्यादिति । 'दीर्घश्वियङ्यक्येषु च (४।३।१०८) इति सूत्रस्यापवादोऽयम् । पुत्रीयतीत्यादि स्पष्टम् । एवं मालीयति खट्वीयति । 'दीर्घश्वि०' इति दीर्घे निधीयति दधीयति अग्नीयति
ओषधीयति पटूयति । वस्तूयति 'ऋतो रीः' (४।३।१०९) दात्रीयति मात्रीयति पित्रीयति भ्रात्रीयति १५ स्वस्रीयति यति गव्यति नाव्यति । 'य्यक्ये' (१।२।२५) इति ओदौतोरवावी । गार्यमिच्छति गार्गीयति । 'आपत्यस्य क्यच्योः ' (२।४।९१) व्यञ्जनात्परस्यापत्यस्य यस्य क्यच्यौ च लुक् स्यात् । क्य इति सामान्येन निर्देशात् क्योऽपि ग्रहणम् । आपत्यस्येति किम् ? संकाशेन निर्वृत्तं सावाश्यम् तदिच्छति सावाश्यीयति । व्यञ्जनादित्येव कारिकेयीयति एवं वात्सीयति । विद्वांसमिच्छति विद्वस्यति । राजीयति अत्र 'नं क्ये' ( २२) नान्तं नाम क्ये परे पदं स्यात् । अत्रापि १. सामान्यग्रहणम् । ततश्च असत्पर इत्यधिकारस्य 'रात्सः' (२।११९०) इति सूत्रावधिकत्वान्नानो नोऽनह्नः' (२।१।९१) इति सूत्रेनागतत्वादनेन विहिताया नलुकः क्यविधौ असत्त्वात् क्यनि ईकारः । एवं शमीयति । पथीयति । अर्हयति । अत्र 'रो लुप्यरि' (२।११७५) इति रः । 'नामसिद्' इत्यत्र अयिति प्रतिषेधेन पदान्ताभावात्क्रमेण उत्वगत्वकत्वाद्यभावे दिवमिच्छति दिव्यति ।
दृश्यति । वाध्यति । समिध्यति । गोदुह्यति । योषित्यति । महत्यति । तद्यति । यद्यति । एतद्यति । २५ अदस्यति । भवत्यति । त्वद्यति । मद्यति । युष्मद्यति । अस्मद्यति । चतुर इच्छति चतुर्यति । अन
डुमति । गीर्यति धूर्यति, भ्वादेरिति दीर्घः, नेत्यन्ये गिर्यति । धुर्यति । एवं क्यङि अपि पुंस्यति सर्विष्यति अर्चिष्यति धनुष्यति । प्रतिनियतकर्मसम्बधे हि कर्मान्तरायोगादकर्मत्वम् । तेन भावे आत्मनेपदम् । पुत्रीयते । समिध्याते । समिध्यते । अत्र क्यो वा (४।३।९१) धातोय॑ञ्जनात्परस्य क्यस्याशिति प्रत्यये परे वा लुक् स्यात् । अत्रापि क्यन्क्यङोर्ग्रहणम् , क्यक्षस्तुनियतविषयत्वाब्यञ्जनात् ३० प्राप्तिरेव नास्ति । एवमग्रेऽप्यशिति ज्ञेयम् । अशितीति किम् ? समिध्यति १ समिध्येत् २ समिध्यतु ३
असमिध्यत् । केचित्तु यकोपि लुग्विकल्पमिच्छति । भिषजिता भिषज्यिता । तन्मतसंग्रहार्थं ककारे
णोपलक्षितो यू क्य् इति व्याख्येयम् । अन्यस्त्वाह शिष्य इवाचरिता शिषिता शिष्यितेति यद्यस्ति ३३ प्रयोगस्तदा कृतूक्यपोऽपि ग्रहणं क्य इति व्यञ्जनात्षष्ठी अतो लुगि कृते लुगर्था । अन्यथा हि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org