________________
प्रक्रियावृत्तिरूपे श्रीहै मप्रकाशे नामधातुप्रक्रिया
HXXXXXXXXXXCOND
अथ नामधातुप्रक्रिया |
HXXXXXXXXXXX
काम्यक्यन् णिज् युतान्तानि क्विप्क्यङन्तानि यानि च । तानि नामानि धातुत्वं यान्ति ते नामधातवः ॥ १ ॥
Jain Education International
अथ नामधातुप्रक्रियां निरूपयतुमाह । काम्येति प्रक्रिया स्पष्टा । काम्यादीन् प्रत्ययानाह । सूत्रम्
44
द्वितीयायाः काम्यः ॥ १ ॥ [ सि० ३ | ४|२२ ]
द्वितीयान्तादिच्छायां काम्यो वा स्यात् । इदमिच्छति इदंकाम्यति ४ । ऐदंकाम्यीत् ५ । इदकायाञ्चकार ६ । इदंकाम्यात् ७ । इदंकाम्यिता ८ । इदंकाम्यिष्यति ९ । ऐदंकाम्यिष्यत् १० ॥ १ ॥
८०५
1
'द्विती०' इच्छायामित्यादि सर्वं स्पष्टम् । ऐदंकाम्यिष्यत् इति । अत्र 'योऽशिति' ( ४।३।८० ) इति यस्य न लुक् । धातोर्व्यञ्जनात्परस्य योऽभावात् अत इत्यकारस्य लोपस्तु स्यादेव | समुदाय - १० धातोरदन्तत्वात् । एवं पुत्रमिच्छति पुत्रकाम्यति, स्त्रीकाम्यति वस्तुकाम्यति । 'चजः कगम् ' ( २ |१| ८६ ) इति कत्वे वाकाम्यति । 'नामसिद ० ' ( १|१|२१ ) इति पदत्वम् । अनडुत्काम्यति । अत्र 'संसध्वंस ० ' (२।१।६८ ) इति हो द: । 'उ: पदान्ते० ' (२।१।११८) इति व उत्वे द्युकाम्यति । श्रेयस्काम्यति । तेजस्काम्यति । अत्रे 'रोः काम्ये' ( २।३।७ ) सः । हविष्काम्यति । धनुष्काम्यति । 'नामिनस्तयो षः ' (२।३।८ ) अव्ययस्य वर्जनात्सषयोरभावे अधः काम्यति । बहिः काम्यति । १५ रोरभावे रेफस्य न सौ वाः काम्यति गीः काम्यति धूः काम्यति राजकाम्यति । गुणिकाम्यति । एतत्काम्यति । अदस्काम्यति इदंकाम्यति । किंकाम्यति । भवत्काम्यति । त्वत्काम्यति । मकाम्यति । ‘त्वमौ प्रत्ययोत्तर ० ' (२।१।११ ) इति मान्तयोस्त्वमौ युवां युष्मान्वा इच्छति युष्मत्काम्यति । अस्मत्काम्यति । स्वःकाम्यति । स्वस्तिकाम्यति । 'सर्वादयोऽस्यादौ' ( ३।२।६१ ) इति पुंवद्भावे सर्वामिच्छति सर्वकाम्यति । भवत्काम्यति । एककाम्यति । एवं क्यन्प्रत्ययेऽपि पुंवत्त्वं ज्ञेयम् । २० तथा ककारमियेष काम्याचकार । अत्र काम्यस्यादन्तत्वादाम् सिद्धः । अन्यथा अनेकस्वरत्वाभावान्न सिद्ध्यति । णिगि पुत्रकाम्ययति । ङे अन्यस्येति प्रथमादारभ्य यथेच्छं द्वित्वे अपुपुत्रकाम्यत् । अपुतत्रकाम्यत् । सस्वरस्य काम्यस्य फलं समानलोपान सन्वद्भावः । शतरि पुत्रकाम्यत् । पुत्रकाम्यिता । पुत्रकाम्यतुम् । पुत्रकाम्यितः । विकल्पपक्षे तु सर्वत्र वाक्यं सिद्ध्यति । काम्येनैव कर्मण उक्तत्वाद्भावकर्त्रीरेव प्रयोगः । भावे एव आत्मनेपदं च । पुत्रकाम्यतेऽनेन पुत्रकाम्य- २५ त्यसौ । द्वितीयाया इति किम् ? इष्यते पुत्रः । भ्रातुः पुत्रमिच्छति आत्मनः पुत्रमिच्छति महान्तं पुत्रमिच्छति स्थूलं दर्शनीयमित्यादिषु तु सापेक्षत्वान्न भवति । नह्यन्यमपेक्ष्यमाणोऽन्येन सहैकार्थीभावमनुभवितुं शक्नोति । भ्रातुः पुत्रकाम्यतीत्यादि तु समर्थत्वाद्भवति । अघमिच्छति दुःखमिच्छति इत्यादिषु अपि नहि कोप्यात्मनोऽघादीच्छतीति परस्येत्यपेक्षितत्वात्सापेक्षत्वम् । कथं तर्हिपुत्रकाम्यतीत्यत्र स्वात्मीयता गम्यते ? अन्यस्याश्रुतत्वादिच्छायाश्चात्मविषयत्वात् ॥ १ ॥ इति काम्यः ॥
1
अथ क्यन् उच्यते । सूत्रम्
For Personal & Private Use Only
३१
www.jainelibrary.org