________________
८०४
महामहोपाध्याय श्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
पारपद्धति पारपार्द्ध । ह्यस्तन्यां दिवि अपास्पर्द्धात् दिवो लुकि अपास्प २ । सिचि अपास्पद्धः । सिचो लुकि धस्य वा रुत्वे अपास्पाः अपास्प २ । पूङ् पोपोति पोपवीति पोपूतः । अत्यादेरित्य - धिकारात् प्वादेरिति न ह्रस्वः । प्रच्छंत् 'लुप्यय्वृल्लेनद्' ( ७|४|११२ ) इत्यत्र वृद्वर्जनात् यङ्लुप्यपि य्कृति परिपृच्छीति ३ । वृति द्वित्वे 'स्वरेभ्यः' ( १।३।३० ) इति छस्य द्वित्वे 'अनुनासिके ५च० ' ( ४|१|१०८ ) इति छद्वयस्यापि शत्वे उपान्त्यगुणे 'यज ० ' (२।१।८७ ) इति षत्वे परी - प ि३ परीपृष्टः ३ । परीपृच्छति ३ । परीपृच्छीषि ३ । परीपक्ष ३ । न वृदित्यन्ये । पाष्टि पाच्छीति । पाक्षि पप्रच्छीषि पाप्रष्टः पाप्रष्ट । पाप्रश्मि पाप्रच्छुः पाप्रश्मः । मस्जोंत् । माज्य मामीति मामति । 'नो व्यञ्जनस्य ० ' ( ४।२।४५ ) इति नलुकि मामक्तः मामज्जति । 'हय हर्य क्लान्तौ च' चागतौ । जाहयीति जाहति । 'वोः ध्वय् व्यञ्जने लुक्' ( ४|४|१२१ ) इति यलुक् १० जाहतः जाहयति । जाहसि । यलुकि 'मव्यस्याः' (४|४|११३ ) इत्यात्वे जाहामि जाहाव: जाहामः । 'हर्य गतिकान्त्यो 'रिति कौमुद्याम् । जाहर्य्यति । हौ जाहर्हि अजाहः अजाहत्तां अजाहर्युः । 'मुर्वै मव बन्धने' मव्यविश्रिविज्वरित्वरे रुपान्त्येन (४।१।१०९) मव्यादीनामनुनासिकादौ कौ धुडादौ च प्रत्यये वकारस्योपान्त्येन सह ऊद्भवति । मव, मोमा मूः मुवौ मुवः । मूतिः । 'अव रक्षणादिषु' औणादिको मन् ओम् । ऊः उवौ । ऊतिः । श्रिवू गतिशोषणयो:' श्रिवू श्रोमा । श्रूः श्रुवौ । श्रुतः । १५ श्रुतिः । ‘ज्वर रोगे' । ज्वर जूर्मा । जूः जुरौ जुरः । जूर्त्तिः । 'ञित्वरिष् संभ्रमे । त्वर तूर्मा । तूः तूरौ । तूर्णः २ । तूर्त्तिः । ज्वरत्वरेरुपान्त्यो वकारात्परः श्रिव्यविमवां तु पूर्वः । एवं चानेनोटादेशे तस्य 'नामिनो गुणोऽक्किति' ( ४|३|१ ) इति गुणे मामोति मामवीति मामूतः मामवति । मामोषि । मामोमि मामावः मामूवः । मामोतु मामृतात् । मामूहि २ । मामवानि । अमामोत् ।
1
अमामोः । अमामवम् । अभामाव अमामूम । अवः स्वरादित्वात् यङ् नास्ति । श्रिवः शेश्रोति शेश्रि२० वीति शेश्रूतः शेश्रिवति । एवं जाजूर्त्ति जाजूर्त्तः । तातूर्त्ति तातूर्त्तः । 'राल्लुक' ( ४|१|११० ) रेफात्परयोर्धातोश्छकारवकारयोरनुनासिकादौ कौ धुडादौ च प्रत्यये लुक् स्यात् । शूटोऽपवादः । 'मुर्च्छा मोहसमुच्छ्राययो:' । मोर्मा मूः मुरौ । मूर्त्तः २ । यङ्लुपि मोमोर्त्ति मोमूर्च्छति मोमूर्त्तः मोमूर्च्छति । 'हुच्छ कौटिल्ये' । होर्मा । हू: हुरौ । जोहोर्त्ति जोहूर्च्छति जाहूर्त: । 'उवै मुवै थु दुर्वै धुर्वै इत्यादयो हिंसायाम् । तार्मा । धार्मा । तूः तुरौ । धूः धुरौ । तूर्णः घूर्णः । यङ्लुपि २५ तोतोर्त्तितोतूर्त्तः तोतूर्वति । तोथोर्त्ति । दोदोर्त्ति । दोधोर्त्ति । यङि विवक्षिते 'अजेर्वी' वेवीयते । अस्य यङ्लुग् नास्ति । लुकापहारे विषयत्वासम्भवेन वीभावस्याप्रवृत्तेः ।
३०
३२
'यङ्लुबन्तप्रक्रियेयं दिङ्मात्रेणेति दर्शिता । वैयाकरणरूपेभ्यो विशेषः शेष उद्यताम् ।
1
इति यङ्लुबन्तप्रक्रिया |
Jain Education International
यां शिष्योद्भुतकीर्त्तिकीर्त्तिविजय श्रीवाचकाहर्म्मणे राजश्रीतनयो व्यधत्त विनयः श्रीतेजपालात्मजः । तस्यां शासितसाधुशब्दसरणौ स्वोपज्ञसत्प्रक्रियावृत्तौ णिप्रमुखस्फुटार्थघटनायुक्प्रत्ययप्रक्रिया ॥ १ ॥
For Personal & Private Use Only
www.jainelibrary.org