________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे यङ्लुबन्तप्रक्रिया
७९९
1
1
[ दध्ययतीत्यत्र ] स्वमते दधयन्तं प्रयुङ्क्ते दधययति । परमते ( Sपि ) दधयन्तं प्रयुङ्क्ते दध्ययति । किल्लोपे इत्यत्र लग्लोपोऽदर्शनमात्रं गृह्यते न तु लुगूलुपौ, तग्रहणे दध्येत्यादौ गुणप्रतिषेधो न स्यात् । अत्र हि क्किपो लुग् लुप् वा न, किन्त्वप्रयोगीदित्यदर्शनमात्रमेव । जङ्गन्तीति । 'गमिषद्यमश्छः ' (४/२/१०६ ) इति सूत्रे 'जाज्ञाजनोऽत्यादौ' (४/२/१०४ ) इत्यस्मात्सूत्रादित्यादावित्यनुवर्त्तते । ततो यत्रानन्तरस्तिवादिस्तत्र मकारस्य छो न भवति । एवं जङ्गमीषि जांसि जङ्गथ: । 'समो ५ गमृच्छि०' ( ३।३।८४ ) इत्यत्र प्रकृतिग्रहणात् यङ्लुप्यप्यात्मनेपदमेव । संजंगते संजग्माते संजग्मते । हौ जङ्गहि | अद्यतन्यां तृ दिद्युतादीत्यत्र तृदनुबन्धनिर्देशात् नाङ् । अजङ्गमीत् अजङ्गमिष्टां अजङ्गमिषुः । कर्मोक्तौ अजङ्गामि अजङ्गमि । 'गमो वा' ( ४|३|३७ ) इति 'सिजाशिषावात्मने' ( ४ | ३ | ३५ ) वा किन्त्वे ' यमिरमि० ' ( ४/२/५५ ) इत्यन्तलोपे अजङ्गसातां अजङ्गंसाताम् । आत्मनेपदेनेट् । 'गमोऽनात्मने ' ( ४|४|५१ ) इत्यत्र प्रकृतेर्ग्रहणात् जङ्गमानकार इत्यादि । शतरि १० जङ्गम् । अत् इति स्थिते ' गमहन ० ' ( ४ | २|४४ ) इत्युपान्त्यलोपे गमिष० इति मछत्वे 'अघोषे० ' ( १।३।५० ) इति गस्य कत्त्वे जंक् छत् इति रूपं भवति । यमूं यंयमीति ययन्ति यतः । हौ यहि गमिवत् । शतरि यंयच्छत् क्रमू चङ्क्रमीति चङ्कति । 'अहन् पञ्चमस्य ० ' ( ४|१|१०७ ) इति दीर्घे च क्रान्तः । चङ्क्रामति । अद्यतन्यां अचङ्क्रमीति । चङ्गमामास । 'चमू छमू जमू झमू अदने ' । आचंचमीति आचंचंति आचंचान्तः आचंचमति । चंचमीषि चचंसि । ' शिड्हे ० ' ( १ | ३ | ४० ) १५ इत्यनुस्वारः । चंचान्थः चंचान्थ । चंचमीति । चंचन्मि चंचन्मः ॥ २ ॥
मो नो स्वोश्च ॥ ३ ॥ [ सि० २|१|६७ ]
मन्तस्य धातोरन्तस्य पदान्तस्थस्य स्वोश्च परयोर्नः स्यात् । जङ्गन्मि जङ्गन्वः जङ्गमः । चङ्खनीति चलन्तीत्यादि ॥ ३ ॥
'मो नो वोश्वे 'ति सस्य नः । हौ दीर्घे 'शिड्हेऽनुस्वारः' ( १।३।४० ) इत्यनुस्वारे च आचं - २० चाहि । अद्यतन्यां 'न वि० ' ( ४।३।४९ ) इति वृद्धिनिषेधे अचंचमीत् । शेषं प्राग्वत् । एवं छमूप्रभृतयः । चङ्खनीति इत्यादि ॥ ३ ॥ सूत्रम् ।
आः खनिसनिजनः ॥ ४ ॥ [ सि० ४ २ ६० ]
एषां धुडादौ क्वित्याः स्यात् । चङ्खातः चङ्खनति ॥ ४॥
'आः ख ० ' एषामिति । 'खनूग् अवदारणे' । खातः २ खात्वा खातिः । सन 'षणूयी दाने' २५ 'वन षण भक्तौ' वा, सातः २ सात्वा सातिः । 'जनैचि प्रादुर्भावे' जातः २ जातिः जात्वा । क्लितीत्येव चङ्खतिः संसंतिः जंजंति: । इकिस्तिव् स्वरूपार्थे इत्यक्ङित्तिव् 'ये नवा' (४/२/६१ ) खनादीनां येति वा स्यात् । खायते खन्यते । चाखायते चङ्खन्यते । प्रखाय प्रखन्य । सायते सन्यते । सासायते संसन्यते प्रसाय । सनतेः प्रसन्य, सनोतेस्तनादित्वाद्यपीति नलुकि प्रसत्य । जायते जन्यते । जाजायते जंजन्यते । प्रजाय प्रजन्य । श्ये तु 'जाज्ञाजनोऽत्यादौ' (४/२/१०४ ) इति ३० नित्यं जा आदेशः जायते । य इत्यकारान्तनिर्देशादिह न भवति । खन्यात् सन्यात्, अन्यथा यीति क्रियेत । केचिदत्रापीच्छन्ति खायात् सायात् । कितीत्येव । सन्यं जन्यम् । यङ्लुपि संसनीति संसंति संसातः संसनति । जंजनीति जंजन्ति । अनेन नस्य आत्वे जंजातः । 'गमहन०' इत्यलुकि जति जञ्जन्तीति वाक्ये शतरि 'जाज्ञा ० ' ( ४ |२| १०४ ) इति जादेशे श्रश्चात (४/२/९६ ) इत्यलुकि ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org