________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुद्वित्वे 'आगुणावन्यादे' (४।१।८) इति गुणे वेवीयते वेवयीति । सेसिम्यते सेसिमीति । यङ्लुपि नेच्छन्त्यन्ये । वाव्याति संस्यंति । 'चायः' 'चायग् पूजानिशामनयोः' एतस्य यडि की इत्ययमादेशो भवति । चेकीयते । दीर्घनिर्देशो यङ्लुबर्थः । चेकीतः । वावश्यते इति 'वशक् कान्तौ' भृशं पुनःपुनर्वा वष्टीति यङ् । बोभूयते इत्यादि स्पष्टम् ॥ १७ ॥ --*इति यङन्तप्रक्रिया ।
१ अथ यङ्लुबन्तप्रक्रिया ।।
बहुलं लुप् ॥ १॥ [सि० ३।४।१४] यङो लुप् बहुलं स्यात् ।
क्वचित्प्रवृत्तिः क्वचिदप्रवृत्तिः क्वचिद्विभाषा कचिदन्यदेव ।
विधेर्विधानं बहुधा समीक्ष्य चतुर्विधं बाहुलकं वदन्ति ॥१॥ १० यलुगन्तं परस्मैपदेऽदादिवबोध्यम् । 'यङ् तुरुस्तो' (४॥३६४) इति वा ईडागमे बोभवीति बोभोति बोभूतः बोभुवति । बोभोषि । इत्यादि १ । बोभूयात् २ । बोभवीतु-बोभोतु बोभूतात् । ङित्त्वेन वित्त्वस्य वाधनान गुणः । बोभूहि ३ बोभूतात् ३ । अबोभवीत् अबोभोत् अबोभूताम् अबोभवुः ४ । पिवैतिदेति सिलुपि ।
तिवा शवानुबन्धेन निर्दिष्टं यद्गणेन च । एकखरनिमित्तं च पश्चैतानि न यङ्लुपि ॥१॥ १५ इति भवतेः सिज्लुपीति गुणनिषेधाभावे अबोभोत् अबोभोताम् अबोभूवन् ५। बोभवाञ्चकार ६ । बोभूयात् बोभूयास्ताम् ७।॥१॥
अथ यङ्लुबन्तप्रक्रियां निरूपयितुमाह । 'बहुलं.' बोभोतीति । एवं रोरवीति रोरोति । लालपीति लालप्ति । चङ्गमीति चंक्रन्ति । जञ्जपीति जञ्जप्ति । बहुलग्रहणं प्रयोगानुसरणार्थम् । तेन क्वचिन्न __ भवति । लोलूया पोपूया । अत्रायं विशेषः । अचि (३।४।१५) अचि प्रत्यये यङो लुप् भवति । २० लोलुवः पोपुवः सनीखंसः दनीध्वंसः वेव्यः नेन्यः। नित्यार्थ वचनम् । 'नोतः' (३।४।१६) उकारान्ताद्विहितस्य योऽचि परे लुप् न भवति । योयूपः । रोरूपः ॥ १॥ किञ्च
न वृद्धिश्चाविति किल्लोपे ॥ २॥[सि० ४।३।११] अविति प्रत्यये यः कितो ङितश्च लोपस्तसिन् सति गुणो वृद्धिश्च न स्यात् । बेभिदिता मरीमृजिता जङ्गमीति जङ्गन्ति । यमिरमिनमिगमीति म्लुपि जङ्गतः गमहनेत्युपान्त्यलुकि २५जङ्गमति ॥२॥
'न वृ०' अवितीत्यादि स्पष्टम् । ङित्प्रत्ययलोपे। यथा यङ्लोपे देद्यः । दासंज्ञायाम् दीक्च् इत्यस्य च यडि देदीयते इति वाक्ये 'अचि' (३।४।१५) अचीति सस्वरस्यैव यङो लुप् । अन्यथा स्वरस्येति अलोपस्य स्थानित्वे गुणप्राप्तिन स्यात् । एवं वेव्यः नेन्यः लोलुवः पोपुवः । मरीमृजः अत्र ऋतः स्वरे वा इति प्राप्ताया वृद्धरनेन निषेधे गुणप्राप्तिः साप्यनेन निषिध्यते । कितीति किम् ? रागी ३० रागः । अत्र नलोपे वृद्धिप्रतिषेधो मा भूत् । केचित्तु दधीवाचरतीति विप् लोपे अप्रत्यये णिगि च दध्या दध्ययति इत्यत्रापि गुणवृद्ध्योः प्रतिषेधमिच्छन्ति, तन्मतसंग्रहार्थम् किल्लोपे सति अविति प्रत्यये
परे गुणवृद्धी न भवत इति व्याख्येयम् । खमते अविति प्रत्यये परे निषेधः । विति तु दधयति रोर३३वीति बोभवीतीत्यादौ गुणो न भवति । खमते दधयनं दधया । परमते ध्ययनं दध्या । णिगि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org