________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे यङन्तप्रक्रिया
७९७ भवति वियङ्यक्येष्विति । क्रमेणोदाहरणानि पित्रीकरोति पित्रीभवति पित्री स्यात् ; चेक्रीयते इति । एवं जेहीयते । क्य इति क्यन्क्यकोहणम् । पित्रीयति मात्रीयति पित्रीयते मात्रीयते । ऋत इति किम् ? चेकीर्यते निजेगिल्यते ।। १५ ॥
ऋमतां रीः॥ १६ ॥ [ सि० ४।११५५] ऋमतां यङन्तानां द्वित्वे पूर्वस्य रीरन्तः स्यात् । 'नृतेर्यङि' (२।३९५) नो ण न स्यात् ५ नरीनृत्यते परीपृच्छयते । क्ययङाशीर्ये इति गुणे ततो द्वित्वे सामर्यते । वा परोक्षायडीति स्वृद्विकल्पे शोशूयते शेश्वीयते ॥ १६ ॥
'ऋम०' ऋकारवतां धातूनां यङन्तानां द्वित्वे सति पूर्वस्य रीरन्तो भवति । भृशं पुन:पुनर्वा नृत्यतीति यङि 'रघुवर्णान्नोण.' इति णत्वे प्राप्ते सूत्रम् 'नृते.' (२।३।९५) स्पष्टम् । यङीति किम् ? हरिरिव नृत्यतीति हरिणी नाम कश्चित् । 'पूर्वपदस्थानाम्यगः' (२।३।६४ ) १० इति णत्वम् । एवं दृशृं, दरीदृश्यते । वृतूङ् वरीवृत्यते । वृधूङ् वरीवृध्यते । गृधूच-जरीगृध्यते । कृपौङ् चलीकृप्यते इति द्वित्वात् प्रागेव निरपेक्षत्वेन 'ऋरटलं.' (२।३।९९) इत्यस्य प्रवृत्तौ ततो द्वित्वे ऋकारापदिष्टमिति न्यायेन लुकारस्याप्यत् । 'धृज गतौ' दरीधृज्यते । इकारोपान्त्योऽयमिति केचित् । तन्मते भृशं ध्रिजति देध्रिज्यते । प्रच्छंत् परीपृच्छयते, ओव्रश्चौत् वरीवृश्यते । ग्रहीश् जरीगृह्यते । 'गृह्णोऽपरोक्षायाम् दीर्घः' (४।४।३४) इति सूत्रे विहितविशेषणाद्यङन्तस्य इटो न दीर्घः । १५ अद्यतन्यां ते सिचि इटि दीर्घाभावे अजरीगृहिष्ट अजरिगृहिषाताम् । एवं जरीगृहीता जरीगृहीतुम् जरीगृहीतव्यम् । प्रच्छिनश्चिग्रहीणां वृति ऋकारे कृते ऋमत्त्वम् । ऋमतामिति किम् ? चेक्रीयते जेहीयते । कृगहृगोरीभावे कृते द्वित्वमिति ऋमत्त्वं नास्ति । बहुवचनं लाक्षणिकपरिग्रहार्थम् । सास्मयते । शोशूयते इत्यादि स्पष्टम् ॥ १६ ॥ वञ्चलंसध्वंसभ्रंशकसपतपदस्कन्दोऽन्तो नीः ॥ १७ ॥ [सि० ४।१।५०] २०
एषामष्टानां यङि द्वित्वे पूर्वस्य नीरन्तः स्यात् । नो व्यञ्जनस्येति नलुपि वनीवच्यते सनीस्रस्यते इत्यादि । व्यस्यमोर्यङि (४।११८५) वृत् स्यात् । वेवीयते सेसिम्यते । 'चायः कीः' (४।१।८६) यङि । चेकीयते । 'वशेरयडी' (४।१।८३) इति यवृन्निषेधात् वावश्यते बोभूयते ।। अबोभूयिष्ट ५ । बोभूयांचक्रे ६। ॥ १७॥
*(इति यङन्तप्रक्रिया ।* 'वञ्च०' एषामिति वञ्च चञ्च इत्यादिष्वेकादशसु गत्यर्थेषु भ्वादिधातुषु प्रथमो वञ्चू इति धातुः। 'भ्रशूङ स्रंसूङ अवलंसने 'ध्वंसूङ गतौ' च 'कस गतौ' 'पल पथे गतौ' 'पदिंच गतौ' 'स्कन्दू गतिशोषणयोः' । कुटिलं वञ्चति, भृशं पुनःपुनर्वा स्रंसते, कुटिलं ध्वंसते, भृशं पुनःपुनर्वा भ्रंशते, कुटिलं कसति, कुटिलं पतति, कुटिलं पद्यते, कुटिलं स्कन्दति, एवं गत्यर्थानां कुटिले संस्भ्रंशोभृशाभीक्ष्ण्ये यङ् । ततोऽनेन न्यायेन न्यागमे 'नो व्यञ्जनस्य०' (४।२।४५) इति यथा-३० सम्भवं नलोपे वनीवच्यते वनीवश्चीति, सनीस्रस्यते सनीस्रंसीति, दनीध्वस्यते दनीध्वंसीति, बनीभ्रश्यते बनीभ्रंशीति, चनीकस्यते चनीकसीति, पनीपत्यते पनीपतीति, पनीपद्यते पनीपदीति, चनीस्कद्यते चनीस्कन्दीति । दीर्घविधानात् नी इत्यस्य ह्रस्वो न भवति । 'व्ये स्य०' व्ये संवरणे 'स्यमू शब्दे' अनयोः सस्वरान्तस्या यडि य्वृद्भवति । भृशं पुनःपुनर्वा व्ययति स्यमति अनेन य्वृति ३४
२५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org