________________
७९६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलधु
गापास्थासादामाहाकां यावर्जकृित्यशिति व्यञ्जनादावीः स्यात् । जेगीयते पेपीयते इत्यादि । 'घामोर्यङि' (४३९८) ई: स्यात् । जेघीयते देध्मीयते । 'त' तेतीर्यते । 'हनोनीर्वधे' (४।३।९९)। जेनीयते । वध इति किम् १ गतौ जङ्घन्यते ॥ १३ ॥
ईय' मैं गाङ् वा गीयते जेगीयते । गाङो नेच्छन्त्यन्ये । 'गापास्थासादामाहाकः' ५(४।३।९६) इति पूर्वसूत्रे मास्थोर्मध्ये पाठाद्भौवादिकयोः मैं पा इत्येतयोर्ग्रहणमुक्तमत्रापि तथैव ज्ञेयम् । तत एव गापादिधातूनामनुवृत्तेः पीयते पेपीयते । अत्र प्राक्त स्वरे इत्यधिकारात् प्रागनेन इः पश्चाहत्वम् । यो व्यञ्जनादित्वात् । स्था स्थीयते तेष्ठीयते । सो सीयते सोषीयते । सैं सीयते सेसीयते । अषोपदेशत्वान्न षत्वम् । दासंज्ञ, दीयते देदीयते । धीयते देधीयते स्तनम् । मा इति मामाङ्मेडां त्रयाणां ग्रहणम् । मीयते मेमीयते । मातेनेच्छन्त्यन्ये । मायते मामायते । १०एवं 'गापास्थासादामा०' इति सूत्रेऽपि मायात् । हांक, हीयते जेहीयते। हाङो न स्यात्
हाक इति भणनात् । हायते जाहायते । व्यञ्जन इति किम् ? तस्थतुः। अशितीत्येव माहि । कितीत्येव गाता दाता। अयपीति किम् ? प्रगाय प्रपाय प्रस्थाय अवसाय प्रदाय प्रधाय प्रमाय प्रहाय । कथं 'निपीय यस्य क्षितिरक्षिणः कथा' इति नैषधीये? 'पीच् पाने' इत्यस्य
रूपम् । स्वरादावन्तलोपविधानात् व्यञ्जादौ लब्धे व्यञ्जनग्रहणं साक्षाद् व्यञ्जनप्रतिपत्त्यर्थम् । १५तेन किप्लुकि स्थानिवद्भावेनापि न भवति । शंस्थाः पुमान् । शं सुखं तत्र तिष्ठतीति 'शमो नाम्न्यः' (५।१।१३४) इत्यप्रत्ययापवादे 'स्थापास्नानः कः' (५।१।१४२) इति के प्राप्तेऽसरूपत्वात् किम् । शंस्थाशब्दादन्यत्र लुप्तव्यञ्जनेऽपीच्छन्त्येके, तथा च जयकुमारः पा पाने इत्यस्य किपि पीरित्याह । 'घ्राध्मो०' यङीति किम् ? घ्रायते ध्मायते । यङ्लुपि जाघ्रीतः दाध्मीतः। अन्ये तु यङ्
लुप्यपि इच्छन्ति । जेघीतः देध्मीतः। तृ इति भृशं पुनः पुनर्वा तरति यङि इरादेशे २० तेतीर्यते ४ । अद्यतन्यां तेतीर्यत इति स्थिते सिचि इटि 'अतः' (४।३।८२) इति योऽल्लोपे'
योऽशिति (४॥३८०) इति यलोपे अतेतीरिष्ट अतेतीरिषातां अतेतीरिषत ५। तेतीरांचके ६ तेतीरिषीष्ट ७ तेतीरिता ८ तेतीरिष्यते ९ अतेतीरिष्यत १० । तेतीरित्वा अवतेतीर्यते तेतीरितः तेतीरितुम् तेतीर्यमाणः एवं कृगशप्रभृतयो दीर्घऋकारान्ता ज्ञेयाः । किन्तु पृमप्रभृतीनां किति
परे 'ओष्ठ्यादुर्' (४।४।११७) इति पोपूर्यते मोमूर्यते ४ । अद्यतन्यां अपोपूरिष्ट इत्यादि २५ सर्व प्राग्वज्ज्ञेयम् । 'हनो०' केचिदिमं विकल्पेनाहुः । त्वं तु राजन् चटकमपि न जङ्घन्यसे' । दीर्घनिर्देशाद्यङ्लुप्यपि जेन्नीतः नेच्छन्त्यन्ये । जङ्घातः इति भवति ॥ १३ ॥
किति यि शय् ॥ १४ ॥ [सि० ४।३।१०५] शीङः विति यादौ शय् स्यात् । शाशय्यते ॥ १४ ॥
"किति०' यादौ इति यकारादौ क्विति प्रत्यये शीङः शय् इत्यादेशः स्यात् । शय्यते शाशय्यते ३० संशय्यते संशय्य शय्या । यीति किम् ? शिश्यानः । किति इति किम् ? शेयम् । यङ् लुपि न भवति संशेशीय ॥१४॥
ऋतो रीः॥१५॥[सि० ४।३।१०९] च्चिययक्येषु परेषु ऋदन्तस्य ऋतो री: स्यात् । चेक्रीयते ॥१५॥ ३४ 'ऋतो.' ऋदन्तस्येति धातोरधातोर्वा ऋदन्तस्य श्रुतत्वात् ; ऋतः स्थाने रीरित्ययमादेशो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org