________________
७९५
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे यङन्तप्रक्रिया 'चर' एषामिति । 'चर भक्षणे च' 'फल निष्पत्तो' 'दल त्रिफला विशरणे' इत्येतेषाम् ॥ ९ ॥ म्वागमे उपयोगिसूत्रम्
तिचोपान्त्यातोऽनोदुः॥१०॥ [सि० ४।११५४ ] चरफलां यङि तादौ च प्रत्यये उपान्त्यस्यात उ: स्यात् , अनोदिति तस्य गुणो न स्यात् । चश्चर्यते, पम्फुल्यते ॥१०॥
'तिचो०' चर्यते च रीति । पम्फुल्यते-पम्फुलीति । तादौ च प्रत्यये इति चूर्तिः ब्रह्मचूर्तिः । प्रफुल्लिः प्रफुल्ल इति बिफला इत्यस्य पैदा फलतिस्मेति क्तस्तदा 'आदितः' (४।४।७१) इति नित्यमिडभावः । यदा तु फलितुमारब्ध इति तदा 'नवा भावारम्भे' इति वेट् । 'फल निष्पत्तौ' इत्यस्य तु नित्यमित् । अत इति किम् ? घरन्तं प्रयुक्रे णिग् वृद्धिः चारयतीति किप् णेरनिटि' (४।३।८३) इति णिग् लोपः । चारिवाचरति कर्तुः किप् । गर्हितं चारति चञ्चार्यते । एवं १० गर्हितं फलति पम्फाल्यते । अत्रैकदेशविकृतस्यानन्यत्वात्प्राप्नोति, परमत इत्युक्तेराकारस्योत्वं न स्यात् । अनोदिति किम् ? चञ्चूर्तिः पम्फुल्लिः । अत्र गुणो न स्यात् । 'जप मानसे च' गर्हितं जपति ॥ १० ॥ अनोपयोगि सूत्रम्
जपजभदशदहभञ्जपशः ॥ ११॥ [सि० ४।११५२] एषां षण्णां यडि द्वित्वे पूर्वस्य मुरन्तः स्यात् । जाप्यते जञ्जभ्यते दंदश्यते दंदह्यते बम्भ-१५ ज्यते पंपश्यते । 'सिचो यङि' (२।३।६०) षत्वं न स्यात् । सेसिच्यते ॥११॥
'जप०' स्पष्टम् । यभं जभ मैथुने' । आद्योऽन्तस्थादितिीयश्चवर्गादिः । 'जभः स्वरे' (४।४।१००) इति नोऽन्तागमे गर्हितं जम्भति जञ्जभ्यते जञ्जभीति । आगमशासनमनित्यमिति । 'जभः स्वर' इति नागमाभावः 'दंशं दशने' गर्हितं दशति दंदश्यते दंदशीति । दशिति लुप्तनकारनिर्देशो यो लुपि दंशेर्नलोपो भवतीति ज्ञापनार्थः । अन्यथान्तरङ्गानपीति न्यायात् प्रथममेव २० यङो लुपि उित्प्रत्ययाभावात् नलोपो न स्यात् तच्च 'गृलुप०' (पृष्ठ ७९४ ) इति सूत्रे ज्ञापितम् । परं द्विर्बद्धं सुबद्धं भवतीति न्यायादत्रापि तं ज्ञापितं गर्हितं दहति दंदह्यते दंदहीति । 'भञ्जौप् आमर्दने'। अत्र गर्खे यङ् नास्ति । भृशं पुनःपुनर्वा भनक्ति बम्भज्यते । 'पशिः ' सौत्रो धातुः भृशं पुनःपुनर्वा पशति पम्पश्यते । अत्र विशेषसूत्रम् । 'सिचो' षत्वं न स्यादिति । अयमर्थः सिञ्चतेर्धातोर्यङि परे षो न भवति सेसिच्यते इति एवं अभिसेसिच्यते । परत्वा-२५ दुपसर्गलक्षणमपि षत्वं बाध्यते । यङीति किम् । अभिषिषिक्षति । उकारः किम् ? अभिषिच्यते ॥ ११ ॥ केषाश्चित् यडो निषेधमाह । सूत्रम्
न गृणाशुभरुचः ॥ १२॥ [सि० ३।४।१३] एभ्यस्त्रिभ्यो यङ् न स्यात् । निन्धं गृणाति । भृशं शोभते । भृशं रोचते ॥ १२ ॥ 'न गृ०' एभ्य इति । गृश् शब्दे' 'शुभि दीप्तौँ' 'रुचि अभिप्रीत्यां च' । एभ्यो भृशा-३० भीक्ष्ण्यादौ यङ् न भवतीति वाक्यमेव भवति ॥ १२ ॥ केषाञ्चिद्यङि विशेषमाह
ईय॑ञ्जनेऽयपि ॥ १३ ॥ [सि० ४।३।९७]
३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org