________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
गत्यर्थास्कुटिले ॥ ६ ॥ [ सि० ३|४|११ ] व्यञ्जनादेरेकस्वराद्गत्यर्थात् कुटिल एवार्थे वर्त्तमानाद्धातोर्यङ् स्यात् ॥ ६ ॥
1
'गत्य ० ' कुटिल एवार्थे इति नतु भृशामीक्ष्ण्ये । तत्र कौण्डिन्यन्यायेन भृशाभीक्ष्ण्ययोर्निषेधार्थ कुटिले इति धात्वर्थविशेषणम् । तक्रं देयमस्मै तक्रदेयः । तदेयः कौण्डिन्यः तत्रकौण्डिन्यः, ५ ' मयूरे 'ति देयशब्दलोपः । अयं भावः – विशेषविधिनिषेधौ शेषनिषेधानुज्ञाफलकौ । यथा ब्राह्मणेभ्यो दधि देयम् तकं कौण्डिन्यस्येति विशेषविधिना कौण्डिन्यस्य दधिदाननिषेधस्तथा कुटिले इति विशेषविधिनैषां भृशाभीक्ष्ण्यनिषेधः प्रतीयते इति । कुटिल इति किम् ? भृशमभीक्ष्ण्यं वा क्रामति । धात्वर्थविशेषणं किम् ? साधने कुटिले मा भूत् । कुटिलं पन्थानं गच्छति । भृशाभीक्ष्ण्ये कुटिलयुक्त एव यङ् न केवल इत्यन्ये । एवमुत्तरत्रापि । कथं जङ्गम इत्यत्र कुटिलार्थाभावे १० यङ् प्रत्ययः इत्यत्रोच्यते । नायं यङ्प्रत्ययः किन्तु रूढिशब्दोऽयं लक्षणया स्थावरप्रतिपक्षमात्रे वर्त्तते । यन्मुख्यं प्रवृत्तिनिमित्तं शब्दस्य तत्प्रत्यासत्त्या तदुपलक्षितं धर्मान्तरमुपादाय प्रवृत्तिर्लक्षणा । (तया ?) गमेर्जम् च वा (१३) गमे (रः) प्रत्ययो भवति, सरूपे द्वे भवतः, पूर्वस्य जमित्यादेशो वा भवति । गच्छति पादविहरणं करोतीति जङ्गमश्वरः । गच्छत्यमाध्यस्थ्यं गङ्गमश्चपल इति जङ्गमस्य सिद्धिः ॥ ६ ॥ अत्रोपयोगिसूत्रम् ।
७९४
१५
मुरतोऽनुनासिकस्य ॥ ७ ॥ [ सि० ४।१।५१ ]
आत्परो योऽनुनासिकस्तदन्तस्य यङि द्वित्वे पूर्वस्य मुरन्तः स्यात् । चङ्क्रम्यते । 'तौ मुमो 'रित्यनुखारः ॥ ७ ॥
'मुर०' स्पष्टम् । यथा बम्भण्यते बम्भणीति । तन्तन्यते तन्तनीति । जङ्गम्यते जङ्गमीति । यलवानामनुनासिकत्वे 'तयि णयि रक्षणे च' । तंतय्यते तंतयः । चञ्चल्यते चञ्चल: । 'मुर्वै मव बन्धने' २० मंमव्यते । अनुनासिकत्वे तातंयते तातयः । चाचल्यते चाचलः । मामव्यते ( मामवः ) । अत इति किम् ? 'तिम आर्द्रभावे' तेतिम्यते । 'घुणि भ्रमणे' जोघुण्यते । 'भ्रामि क्रोवे' बाभ्रम्यते । अनुनासिकस्येति किम् ? पापच्यते । प्रकृते चङ्क्रम्यते इति सिद्धम् ॥ ७ ॥ पुनरप्यरर्थान्तरे यङमाह -
गृलुपसद चरजपजभदशदहो गलें ॥ ८ ॥ [ सि० ३।४।१२ ]
२५ गर्ह्यर्थेभ्य एभ्योऽष्टाभ्यो यङ् स्यात् । ऋतां कितीतीरादेशे 'ग्रो यङि' (२|३|१०१ ) रोल् स्यात् । निजेगिल्यते । लोलुप्यते । सासद्यते ॥ ८ ॥
1
'गृलु०' गर्ह्यार्थेभ्य इति । गर्ह्य एवार्थे वर्त्तमानेभ्यो गृप्रभृतिभ्योऽष्टभ्यो धातुभ्यो यङ् भवति, न भृशादिषु । निपूर्वः 'गुत् निगरणे' | गर्हितं निगिरति । अत्रोपयोगिसूत्रम् 'ग्रो० ' स्पष्टम् । निजेगिल्यते इति । गृणातेस्तु यडेव नास्ति केचित्तु तस्यापीच्छन्ति लत्वं तु नेच्छन्ति । ३० यङीति किम् ? जेगीर्यते । 'लप्लंती छेदने' 'युप रुप लुपच् मोहने' इति वा गर्हितं लुम्पति लुप्यति वा लोलुप्यते । 'षद्' गर्हितं सीदति सासद्यते ॥ ८ ॥ गर्हितं चरति; अत्रोपयोगि सूत्रम् चरफलाम् ॥ ९ ॥ [ सि० ४|१| ५३ ]
३३ एषां यङि द्वित्वे पूर्वस्य सुरन्तः स्यात् ॥ ९ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org