________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे यान्तप्रक्रिया लोलूयेत् । चिकीय॑ते । चिकीर्ष्यादित्यादौ लोपविधेर्बलीयस्त्वा'दीर्घश्वी'त्यादिना दी| न स्यात् । विषयविज्ञानाद्वा प्रागेव लोपः । एतेन लोपाखरादेश इत्याशङ्का निरस्ता । अस्य फलं तु अस्य अकारलोपस्य स्थानिवद्भावेन अदृषदि अपापचि इत्यादौ न वृद्धिः । सस्वरयकारलोपे तु स्थानित्वं न स्यात् समुदायलोपात् , नापि 'न वृद्धिश्चेति वृद्धिनिषेधः, तत्र नामिन इत्यधिकारात् । तथा अवध्वंसते विच अवध्वंसमिच्छति क्यन् ततः क्तप्रत्यये अवध्वंसित इत्यत्राकारस्य स्थानित्वात 'नो५ व्यञ्जनस्या०' (४।२।४५) इति नलुग् न । सखरस्य क्यनो लोपे स्वरव्यञ्जनसमुदायविधित्वात् खरस्य परे इति स्थानित्वाभावान्नस्य लुक् स्यादेव ॥ ३ ॥ पापच्य इत्यस्य अद्यतन्यास्ते सिजागमे इडागमे सूत्रम्
योऽशिति ॥४॥[सि० ४३३३८०] धातोर्व्यञ्जनात्परस्य योऽशिति प्रत्यये लुक् स्यात् । अपापचिष्ट ५। पापचाञ्चके ६ । पापचि-१० षीष्ट ७ । पापचिता ८ । पापचिष्यते ९ । अपापचिष्यत १०॥४॥
'यो' व्यञ्जनात्परस्येति । व्यञ्जनान्ताद्धातोः परस्य यकारस्याशिति प्रत्यये परे लुक् स्यात् । यथा जङ्गमिता बेभेदिता बेभिदाञ्चके बेभेदिषीष्ट । क्ये बेभिद्यते । सोसूचिता सोसूत्रिता मोमूत्रिता शाशयिता । कुषुभिता मगधकः। सूच्यादीनां णिज्लोपे शयादेशेऽस्य लोपे च व्यसनान्तता । अन्ये तु लाक्षणिकव्यञ्जनान्तेभ्यो यलोपं नेच्छन्ति सोसूच्यिता शाशय्यिता कुषुभ्यिता, तन्मत-१५ सङ्ग्रहार्थं व्यञ्जनान्ताद्धातोर्विहितस्येति विशेषणं कार्यम् । धातोरित्येव-ईयिता मव्यिता । व्यञ्जनादित्येव । लोलूयिता कण्डूयिता । अशितीति किम् ? बेभिद्यते चेच्छिद्यते । एवं चात इत्यकारलोपेऽनेन यकारलोपे अपापचिष्टेति सिद्धम् । एवं अपापचिषाताम् अपापचिषत ५ पापचाश्चक्रे ६ पापचिषीष्ट ७ पापचिष्यते ९ अपापचिष्यत १० । पापच्यमानः पापचिष्यमाणः। भावकर्मणोः पापचिष्यमाणं पापच्यमानं पापचाञ्चक्राणः बभूवान् आसिवान् । भावकर्मणोः पापचाश्चक्राणं २० बभूवानं आसानं । पापचित्वा पापचितुम् पापचितः २ । एवं सर्वे व्यञ्जनान्ता यङि ज्ञेयास्तत्र इदुदुपान्त्यानामद्यतन्यादौ यङो लुकि उपान्त्यगुणो न कार्यों यङोऽल्लुकः स्थानित्वेनाप्राप्तेः । 'यथा जिमू अदने' । अजेजिमिष्ट । मुदि अमोमुदिष्ट । वृषू अवरिषीष्ट । एवं वृधू वरीवृध्यते ४ । अवरिवृधिष्ट ५ । वृतू, वरीवृत्यते ४ । अवरीवृतिष्ट ५ ॥ ४ ॥ अत्र विशेषमाह
अट्यर्तिसूत्रिमूत्रिसूच्यशृर्णोः ॥५॥[सि० ३।४।१०] ___ एभ्यः सप्तभ्यो भृशाभीक्ष्ण्ये यङ् वा स्यात् । खरादेर्द्वितीय इति व्यस्य द्वित्वे, व्यञ्जनस्यानादे गिति पूर्वस्य लुकि, आत्वे च, अटाट्यते । क्ययङाशीर्ये इति गुणे अयिर इत्यत्र यवर्जनायेपरे रो द्वित्वं सादेव । अरायते सोसूच्यते मोमूत्र्यते सोसूच्यते अशाश्यते प्रोर्णोनूयते । दीर्घश्वीति दी, तोष्ट्रयते ॥५॥
'अव्य.' भृशं पुनःपुनर्वा अटति अटाट्यते । एवमियति ऋच्छति वा अरार्यते । 'सूत्रण ३० विमोचने' 'मूत्रण प्रस्रवणे' 'सूचण् पैशून्ये' 'अशौटि व्याप्तौ' । 'अशर भोजने वा' । अश्नुते अनाति वा अशाश्यते । 'ऊर्गुग्क् प्रोर्णोनूयते । अट्यर्त्यशामव्यञ्जनादित्वात्सूत्रिमूत्रिसूचीनामनेकस्वरत्वादोंतेरव्यञ्जनाद्यनेकस्वरत्वात्पूर्वेणाप्राप्ते च वचनम् । 'सं गतौ' इत्यस्य यङि सेस्रीयते । 'टुंग्क् स्तुतौ' । भृशं पुनःपुनर्वा स्तौति तोष्ट्रयते ॥ ५॥ अर्थविशेषे यङमाह
है. प्रका० उत्त० १००
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org