________________
७९२
महामहोपाध्याय श्री विनय विजयगणिविरचिते खोपज्ञहैमलघु
(
*********
अथ यप्रक्रिया ।
Jain Education International
...
अथ यङन्तप्रक्रियां निरूपयितुमाह । सूत्रम्
व्यञ्जनादेरेकखराशाभीक्ष्ण्ये यङ् वा ॥ १ ॥ [ सि० ३२४५९]
अमुख्य क्रियाणामधिश्रयणादीनां क्रियान्तराव्यवधानेन साकल्येन सम्पत्तिः फलातिरेको वा ५ भृशत्वम्, मुख्यक्रियायाः पाकादेः क्रियान्तराव्यवधानेनावृत्तिराभीक्ष्ण्यम् । तद्विशिष्टार्थवृत्ते - र्व्यञ्जनादेरेकस्वराद्धातोर्यङ् वा स्यात् । ङकार आत्मनेपदार्थः । सम्यङचेति द्वित्वे ॥ १ ॥ 'व्यञ्ज० ' स्पष्टम् । धातोरित्येव । तेन सोपसर्गान्न भवति । भृशं प्रात्ति । व्यञ्जनादेरिति किम् ? भृशमीक्षते । एकस्वरादिति किम् ? भृशं चकास्ति । केचिज्जागर्त्तेरिच्छन्ति जाजाप्रीयते । सर्वस्माद्धातोरायादिप्रत्ययरहितात्केचिदिच्छन्ति । अवाव्यते दादरिद्र्यते । भृशाभीक्ष्ण्य इति किम् ? पचति । वेति १० किम् ? पक्षे वाक्यम् । लुनीहि लुनीहीत्येवायं लुनातीत्यादि च यथा स्यात् ॥ १ ॥ अथोपयोगिसूत्रम् आगुणावन्यादेः ॥ २ ॥ [ सि० ४|१|४८ ]
यङन्तस्य द्वित्वे पूर्वस्य न्याद्यागमवर्जस्य आगुणौ स्याताम् । भृशं पुनः पुनर्वा पचतीति पापच्यते ४ ॥ २ ॥
'आगु०' यङन्तस्येत्यादि । अयं भावः । धातोर्यङन्तस्य द्वित्वे सति पूर्वस्य न्यायागमवर्जस्येति १५ नीमुरीरिरं तवर्जितस्याकारो गुणञ्चासन्नौ भवतः । अटाट्यते वेवीयते लोलूयते । हां जेहीयते । पापचीति बेभिदीति लोलवीति । नैतावाकारगुणौ यङ्निमित्ताविति यङ्लुप्यऽपि भवतः । अन्यादेरिति किम् ? वनीवच्यते यंयम्यते नरीनृत्यते नरिना नर्नर्त्ति । ननु चात्रापवादत्वान्न्यायादय एव बाधका भविष्यन्ति किं न्यादिवर्जनेन । सत्यम् । “द्वित्वे सति पूर्वस्य विकारेषु वाधको न बाधक" इति ज्ञापनार्थम् । तेनाचीकरदित्यत्र 'लघोर्दीर्घोऽस्वरादेः' ( ४|१|६४ ) इति सन्वत्कार्य २० न बाध्यते । पापच्यते इति । अथाभीक्ष्ण्ययङन्तस्याभीक्ष्ण्ये द्वित्वं कस्मान्न भवति । उक्तार्थत्वात् । यदा तु भृशार्थयङन्तादाभीक्ष्ण्यविवक्षा तदा भवत्येव । पापच्यते पापच्यते इति । यदा त्वाभीक्ष्ण्ययङन्ताद्भृशार्थविवक्षा तदा न द्वित्वम्-शब्दशक्तिस्वाभाव्यात्तस्यार्थस्य यदैव प्रतिपादितत्वात् । किंच भृशत्वं गुणक्रियाणां साकल्येन संपत्तिः, आभीक्ष्ण्यं प्रधानक्रियाया आवृत्तिरतः प्रधानक्रियायां गुणक्रिया न्यग्भूतेति । तथा भृशार्थयङन्ताभीक्ष्ण्ये आभीक्ष्ण्ययङन्ताद्वा भृशार्थे विवक्षिते यदा २५ पञ्चमी केवला, तदा सा केवला तदर्थद्योतनेऽसमर्थेति तदर्थद्योतने द्विर्वचनमपेक्षते पापच्यस्व पापच्यस्वेति || २ || अद्यतन्यादौ सूत्रम्
अतः ॥ ३ ॥ [ सि० ४।३।८२ ]
अकारान्ताद्धातोर्विहितेऽशिति प्रत्यये तस्यैव धातोर्लुगन्तादेशः स्यात् ॥ ३ ॥
'अतः०' स्पष्टम् । उदाहरणानि, कथयति कुषुभ्यति मगध्यति कुषुभमगधौ कण्डूयादावकारान्तौ स्तः । चैकीर्षितः प्रचिकीर्ष्या । समिध्यिष्यति दृषधिष्यते । अत इति विहितविशेषणादिह ३१ न भवति । गतः ( गतवान् ) । अत इति किम् ? याता वाता । अशितीत्येव । चिकीर्षेत्
For Personal & Private Use Only
www.jainelibrary.org