________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे सन्प्रक्रिया
दीडः सनि वा ॥ २७॥ [सि० ४।२६] आ स्यात् (वा) । दिदासते दिदीषते । 'अव्याप्यस्य मुचेर्मोग् वा' (४।१।१९) न च द्विः । मोक्षति-मुमुक्षति । सकर्मणस्तु मुमुक्षति वत्सम् ॥ २७ ॥ __ 'दीङ' 'दीच् क्षये' दातुमिच्छति दिदासते, पक्षे दिदीषते । उपदिदासते-उपदिदीषते । 'अव्या' मोक्षति-मुमुक्षतीति । एवं मोक्षते मुमुक्षते वत्सः। मुमुक्षति वत्सं चैत्रः स एवं५ विवक्षति नाहं मुमुक्षामि स्वयमेव वत्सो मुमुक्षते । भूषार्थेति क्याभावः ॥ २७ ।।
- अथ सन्प्रक्रमादर्थान्तरविहितमपि सनमाह ९५
गुप्तिजोर्गर्दाक्षान्तौ सन् ॥ २८ ॥ [ सि० ३।४।५] गुपो गर्दायां तिजः क्षान्तौ च वर्तमानात्स्वार्थे सन् सात् । जुगुप्सते तितिक्षते ॥ २८॥ "गुप्ति०' गुप इति । 'गुपि गोपनकुत्सनयोः' । तिज इति 'तिजि क्षमानिशानयोः' ।१० जुगुप्सते गर्हते इत्यर्थः । तितिक्षते सहते इत्यर्थः । गर्दाक्षान्ताविति किम् ? गोपनं गोपायति । तेजनं तेजयति । अनयोरर्थान्तरेऽपि त्यादयो नाभिधीयन्ते इत्यत्यादिना प्रत्युदाहृतम् । त्यादिसमानार्थत्वा च्छत्रानशा'वपि न भवतः । एवमुत्तरसूत्रद्वयेपि प्रायेण ज्ञेयम् । प्रायेणेति भणनात् गोपते तेजते वधते इत्याद्यपि भवति । केचिच्छत्रानशाविच्छन्ति तेन गोपमानं तेजमानं केतन्तं प्रयुङ्क्ते इत्यपि भवति । अकारः सन्प्रहणेषु सामान्यग्रहणार्थः। नकारः 'सन्यङञ्च' (४।१।३) इत्यत्र १५ विशेषणार्थः ॥ २८॥
कितः संशयप्रतीकारे ॥ २९ ॥ [सि० ३२४६] संशयप्रतीकारार्थात्कितः स्वार्थे सन् स्यात् । विचिकित्सति चिकित्सति ॥ २९ ॥ 'कित.' कित इति । 'कित निवासे' इत्यस्य संशयेत्यादि । अनवधारणात्मकः प्रत्ययः संशयः, दुःखहेतोर्निराकारणं प्रतीकारः। विचिकित्सति संशेते इत्यर्थः । चिकित्सति व्याधि प्रतिकरो-२० तीत्यर्थः । अन्यैर्निग्रहनाशयोः सन्नुक्तस्तत्र निग्रहनाशावपि प्रतीकारभेदौ तेन तत्राप्यनेनैव भवति । क्षेत्रे चिकित्स्यः पारदारिकः निग्राह्य इत्यर्थः । क्षेत्रे चिकित्स्यानि तृणानि नाशयितव्यानीत्यर्थः । संशयप्रतीकार इति किम् ? केतनं केतयति ॥ २९ ॥
शान्दान्मान्बधान्निशानार्जवविचारवैरूप्ये . दीर्घश्चेतः॥ ३०॥ [सि० ३।४७]
२५ ___ एभ्यश्चतुर्यो निशानाद्यर्थेभ्यः स्वार्थे सन् स्यात् । दीर्घश्च द्वित्वे पूर्वस्वेतः। शीशांसति २। दीदांसति २ । मीमांसते । बीभत्सते ॥३०॥ इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायो
हैमलघुप्रक्रियायां सन्प्रक्रिया समाप्ता। 'शान्' एभ्यश्चतुर्थ्य इति । 'शानी तेजने' निशानार्थात्सन् । निशानमुत्तेजनम् । शीशांसति ३० शीशांसते शस्त्रम् उत्तेजयतीत्यर्थः । 'दानी अवखण्डने' आर्जवार्थात्सन् दीदांसति काष्ठम् ऋजूकरोतीत्यर्थः । भ्वादी उभयपदिनौ । 'मानि पूजायाम्' विचारार्थात्सन् । मीमांसते विचारयतीत्यर्थः । 'बधि बन्धने' निन्दितरूपो विरूपस्तस्य भावो वैरूप्यम् तदर्थात् सन् । बीभत्सते विरूपो भवतीत्यर्थः । एभ्य इच्छासनि जुगुप्सिषते बिभत्सिषते । इति सन्नन्तप्रक्रिया ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org