________________
७९० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु'कृत् विक्षेपे' गत् निगरणे' करितुं करीतुं वा गरितुं गरीतुं वा इच्छति सनि अनेन इडागमे इटो दीर्घविकल्पे वैरूप्यम् । अन्ये तु व्यवस्थितविभाषयास्येटो दीर्घ नेच्छन्ति । 'दृङ्त् अनादरे' 'धृङ्त् स्थाने' आदरितुं आधर्तुं प्रष्टुमिच्छति आदिदरिषते इत्यादि । उँहिधीधुरित्यादिवार्तिकस्यायमभिप्रायः । प्रच्छसहचरिताः ऋगृधृ इत्येते तौदादिकाः, तेन कृणातेः 'इवृधः' (४।४।४७) ५ इति इड्विकल्पे इटो दीर्घविकल्पे च त्रैरूप्यम् । चिकीर्षति चिकरीपति चिकरिषतीति । एवं गृणार्जिगीर्षति जिगरीषति जिगरिषति । 'धृ धरणे' इत्यस्य तु दीधीर्षतीत्येव भवति । ततश्चास्य उद्दिधीर्षुरिति भवति । तत्र पूङ ऊवर्णान्तत्वात् 'ग्रहगुहश्च सनः' (४।४।५९) इति सनि इनिषेधादनिट्त्वम् । शेषाणामनुस्वारेत्त्वात् , क गृ इत्येतयोर्दीर्घऋकारान्तत्वात् 'इवृधः' इति इविकल्पप्राप्तिः, शेषयोः 'धूगौदितः' इति (सूत्रेण)। ऋस्मिपूधृप्रच्छामनिट्त्वादप्राप्ते शेषाणां १० विकल्पे प्राप्ते वचनं रूपं भवति । ध्रुवत् इत्यस्य तु आदिधरिषुरिति ॥ २३ ॥ शकः सनि विशेषमाह
शको जिज्ञासायाम् ॥ २४ ॥ [ सि० ३३७३ ] शकः सन्नन्तादसिन्नर्थे आत्मनेपदं स्यात् । विद्यां शिक्षते । अन्यंत्र शिक्षति । स्थातुमिच्छति तिष्ठासति ॥ २४ ॥ __ 'शको' स्पष्टम् । व्याख्यातं च प्रागौपाधिकात्मनेपदप्रकरणे (पृष्ठ ५८८) ॥ २४ ॥
मिमीमादामित्वरस्य ॥ २५ ॥ [सि० ४।१।२० ] एषां दासंज्ञानां च सि सनि इत्स्यान्न च द्विः। मित्सति मित्सते । दित्सति २। धित्सति २॥२५॥
'मिमी.' एषामिति । मि इति 'डुमिंग्ट प्रक्षेपणे' इति । मित्सति मित्सते शतम् । ननु मिगमीगोऽखलचलि' इत्यात्वे माद्वारेणैव सिद्ध्यति । किं मिग्रहणेन ? सत्यम् । 'नामिनोऽनिट्' (४।३।३३) २० इति सनः कित्त्वादात्वं न प्राप्नोति । मीति, 'मीच् हिंसायाम्' 'मीग्श् हिंसायामित्येतयो
ग्रहणम् । 'मीण गतौ' इति यौजादिकस्यापि ग्रहणम् । मित्सति २ । प्रमित्सति प्रमित्सते शत्रून् । मेति 'मांक माने' 'माङ्क मानशब्दयो' 'मेङ् प्रतिदाने' एषां ग्रहणम् । मित्सति प्रमित्सते भूमिम । अपमित्सते यवान् । मातेनेच्छन्त्येके । मिमासति । दासंज्ञकानां चेति दाम् , प्रदित्सति दानम् । देङ्, दित्सते पुत्रम् । डुदांग्क् दित्सति-दित्सते वस्त्रम् । दोंच दित्सति दण्डम् । धे, धित्सति २५ स्तनम् । डुधांग्क् धित्सति धित्सते श्रुतम् । बहुवचनं व्याप्त्यर्थम् , तेन निरनुबन्धग्रहणेन सानु
बन्धकस्येत्यादि नाश्रीयते । आदिशब्दात् 'एकानुबन्धग्रहणेन व्यनुबन्धकस्य', 'लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैवेत्यादयोऽपि नाश्रीयन्ते, तेन डुमिंग्ट्मेडोरपि ग्रहणम् । स्वरस्येति किम् ? सर्वस्य मा भूत् ॥ २५ ॥
राधेर्वधे ॥ २६ ॥ [सि० ४।१।२२] ३० सि सनि स्वरस्य इ. स्यात् । प्रतिरित्सति । अन्यत्र आरिरात्सति गुरून् ॥ २६ ॥
'राधे' 'राधं साधं संसिद्धौ' । उपसर्गयोगे अर्थविशेषस्तत्र वधेहिँसायां वर्तमानस्याऽस्य ___ सकारादौ सनि स्वरस्य इः स्यान्न च द्विः प्रतिराद्धमपराद्धमिच्छति प्रतिरित्सति अपरित्सति शत्रुम् । ३३ वध इति किम् ? आराद्भुमिच्छति आरिरात्सति गुरून् ॥ २६ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org