________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे सन्प्रक्रिया
७८९ नान्यस्य । तेनेह न भवति । 'धुंग्ट अभिष' सुसूषति । 'विचीत् क्षरणे' सिसिक्षति सिसेविषति । एवकारः षण्येव णिस्तोरिति विपरीतनियमनिवृत्त्यर्थस्तेनेहापि भवति । असीषिवत् तुष्ठाव । षणीति किम् ? सिषेव सुष्वाप । पत्वं किम् ? सुषुप्सति । तिष्ठासति । नकारः किम् ? परोक्षासे व्यतिसुषुपिणे । कथं प्रतीषिषति अधीषिषति ? षणिनिमित्ते धातोः षत्वनियम उक्तः, इह तु सन एव द्विरुक्तस्य षत्वं न धातोरिति न प्रतिषेधः । सोषुपिषते सेषिविषते इत्यादौ तु यङि द्वित्वं पश्चात् ५ सन्निति न प्रतिषेधः । येषां तु दर्शने द्वित्वेऽपि पुनः सनि द्विरुक्तिस्तन्मते सुसोषुपिषते इत्यत्र षणि परे सस्य षत्वं न भवत्येव ॥२०॥ तनीति 'तनूयी विस्तारे' तनितुमिच्छति । सनि विशेषसूत्रम्
तनो वा ॥ २१॥[सि० ४।१११०५] तनो धुडादौ सनि दीर्घो वा स्यात् । तितांसति तितंसति तितनिषति ॥ २१॥
'तनो' स्पष्टम् । इडभावपक्षे अनेन दीर्घविकल्पे द्वैरूप्यम् । इडागमे च सनो धुडादित्वा-१० भावान्न दीर्घः ॥ २१ ॥ पतीति 'पत्ल पथे गतौ' पतितुमिच्छति । सनि विशेषसूत्रम्
रभलभशकपतपदामिः ॥ २२ ॥ [ सि० ४।१।२१] एषां स्वरस्य सि सनि इः स्यान्न च द्विः । पित्सति पिपतिषति । प्रावुवूर्षति प्राविवरिषति २। वुवूर्षते विवरिषति २ । तितीपति तितरीषति २ । दिदरिद्रासति दिदरिद्रिसति ॥ २२ ॥
'रभ०' व्यक्तम् । 'रमि रामस्ये' आङ्पूर्वकः आरब्धुमिच्छति आरिप्सते । 'डुलभिंए प्राप्तौ' १५ लब्धुमिच्छति लिप्सते । शक शिक्षति । पत पित्सति । पद पित्सते । सीत्येव पिपतिषति । बहुवचनं शकिंचाक्लंटोरुभयोरपि परिग्रहार्थम् । वृत इति 'ग्ट वरणे' 'झ् संभक्तौ' इत्यनयोर्दीर्घऋकारान्तस्य च ग्रहणम् । इडभावपक्षे 'स्वरहनगमोः०' (४।१।१०४) इति दीधै 'नामिनोऽनिट' (४।३।३३) इति सनः कित्त्वे 'ओष्ठ्यादुर् (४।४।११७) प्रावुवूर्षति । इडागमपक्षे 'वृतो नवानाशी.' (४।४।३५) इति दीर्घविकल्पे द्वैरूप्यम् । 'वृञ्ज संभक्तौ' इत्यस्यात्मनेपदित्वात् २० वुवूर्षते इत्यादि । दीर्घऋकारान्त'तृ प्लवनतरणयोः' तरीतुमिच्छति सनि इडभावपक्षे 'नामिनोऽनिट' इति सनः कित्त्वे 'ऋतां कितीर' ( ४।४।११६) तितीर्षतीति । इडागमपक्षे 'वृतो नवा०' इति इटो दीर्घविकल्पे द्वैरूप्यम् । 'दरिद्रांक्' इति दरिद्रितुमिच्छतीति सनि इड्विकल्पः इति ॥ २२ ॥ 'इवृध०' (४।४।४७) इति सूत्रं समर्थितम् ॥ केषाञ्चिद्विशेषमाह ।
ऋस्मिपूङञ्जशोकृगृधृप्रच्छः ॥ २३ ॥ [ सि० ४।४।४८] एभ्यो दशभ्यः परस्य सन आदिरिद् स्यात् । अरिरिषति सिसयिषते पिपविपते अञ्जिजिषति अशिशिषते चिकरिषति चिकरीपति जिगरिषति जिगरीषति आदिदरिषते आदिधरिपते । उद्दिधीर्षुरिति तु भ्वादिकस्य रूपम् । रुदविदेति सनः कित्त्वे, पिच्छिषति । आप्तुमिच्छति ईप्सति आरिप्सते लिप्सति ॥ २३ ॥
'ऋस्मि.' 'क् गतौ' ' प्रापणे वा' । अर्तुमिच्छति अनेन इडागमे 'स्वरादेर्द्वितीयः'३० (४।१।४) इति द्वितीयस्य द्वित्वे अरिरिषतीति । 'ष्मिङ् ईषद्धसने' स्मेतुमिच्छति सिस्मयिषते । 'पूङ् पवने' पवितुमिच्छति पिपविषते । अनुबन्धनिर्देशात् पूगः पुपूषति पुपूषते । अऔर अञ्जितु. मिच्छति अञ्जिजिषति । 'अशौटि व्याप्तौ' अशितुमिच्छति अशिशिषते । अश्नास्त्विडस्त्येव । ३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org