________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
'rao' एषां षण्णां सनि परे द्वित्वे सति पूर्वस्योकारस्यान्तस्थायामवर्णान्तायां परत इकारान्तादेशो वा स्यात् । 'श्रुं श्रवणे' । णिग् श्रावयितुमिच्छति शिश्रावयिषति शुश्रावयिषति । 'इं दुं दुं स्तुं गतौ' । 'प्रुङ्लुङ् गतौ' । स्रावयितुं द्रावयितुं लावयितुं च्यावयितुमिच्छति सनि सिस्रावयिषति सुस्रावयिषति दिद्रावयिषति दुद्रावयिषति पिप्रावयिषति पुप्रावयिषति । चिच्या५ वयिषति चुच्यावयिषति । वचनादेकेनावर्णेनान्तस्थाया व्यवधानमाश्रीयते । अवर्ण इत्येव । शुश्रूषति । ओरित्येव सोस्रविषति; कुटिलार्थे यङ्लुबन्तस्य सनि प्रयोगः । अथ प्रकृतं 'उर्जुगक आच्छादने' । प्रोर्णवितुमिच्छति सनि इडभावपक्षे प्रोर्णुनूषति । इडागमे 'वोर्णोः ' ( ४।३।६० ) इति इटो डित्त्वविकल्पे च त्रैरूप्यम् । प्रोर्णुनविषति । प्रोर्णुनुविषतीति । ' इवृध ० ' ( ४ |४ |४७ ) इति सूत्रे भर इति भृंग भरणे' इत्यस्य शवा निर्देशः । स च यङ्लुपो बिभर्त्तेश्व निवृत्त्यर्थस्तस्य १० बुभूषतीत्येकमेव रूपम् । बिभर्त्तेरपीच्छन्त्येके । इडभावपक्षे गुणमपि बिभर्षति विभरिषति । तन्मतसङ्ग्रहार्थं कृतगुणस्य भृगो निर्देशस्तेन इडभावपक्षेऽपि गुणो भवति । सूत्रे गुणनिर्देशात् 'नामिनोऽनिद' ( ४ | ३ | ३३ ) इति सनः कित्त्वेऽपि गुणः ॥ १७ ॥ ज्ञपीति । अत्र विशेषसूत्रम् । ज्ञप्यापो ज्ञीपीप् न च द्विः ॥ १८ ॥ [ सि० ४|१|१६ ]
I
७८८
ज्ञपेरापेश्च सिसनि यथासङ्ख्यं ज्ञीपीपौ स्याताम् । ज्ञीप्सति । जिज्ञपयिषति ॥ १८ ॥
१५
'ज्ञप्या० ' स्पष्टम् । ज्ञपीतिकृतह्रस्वस्य निर्देशात् ज्ञापेर्जिज्ञापयिषतीत्येव भवति । सनीति 'वन पण भक्तौ' 'शणूयी दाने' इत्येतयोरुभयोरपि ग्रहणम् । सनितुमिच्छतीति सन् ॥ १८ ॥ अत्रोपयोगसूत्रम्
सनि ॥ १९ ॥ [ सि० ४/२/६१ ]
सनेघुडादौ सन्याः स्यात् । सिषासति सिसनिषति ॥ १९॥
'सनि' यद्यप्येतत्सूत्रं बृहद्वृत्तौ 'आ: खनिसनिजन:' ( ४ |२|६० ) इति सूत्रादनुवृत्तानां खनाariya सनि परतोऽन्तस्यात्वं भवतीति व्याख्यातम् । तथापि खनिजनोरिटा भवितव्यमिति धुडादिः सन्न भवतीति सनिरेवात्र सूत्रेऽवशिष्यते इति सुष्ठु व्याख्यातमत्र सनेघुडादौ सन्याः स्यादिति । इडभावे सिषासतीति । अत्र षत्वभूतः सन्नास्तीति 'णिस्तोरेवेति' नियमाभावात् प्रथमसकारस्य 'नाम्यन्तस्था ० ' ( २|३|१५ ) इति षत्वं भवति । इवृधेति इडागमे सिसनिषतीति । २५ नन्वत्र नाम्यंतस्थेति षत्वं कुतो न स्यादित्यत्र नियमसूत्रमाह ॥ १९ ॥
२०
णिस्तोरेवाऽस्वदस्विदसहः षणि ॥ २० ॥ [ सि० २।३।३७ ]
स्वदादिवर्जानां ण्यन्तानां स्तोरेव च सकारस्य नाम्यादेः परस्य पत्वभूते सनि परे षो भवति । नान्येषामिति षत्वं न भवति ॥ २० ॥
'णिस्तो ० ' ण्यन्तानां यथा 'षिवूच् उतौ' सिषेवयिषति । सुष्वापयिषति । 'षिधू गत्याम् ' ३० सिषेधयिषति । स्तु तुष्टृषति । स्वदादिपर्युदासः किम् ? 'ध्वदि स्वादि स्वदि आस्वादने' सिस्वादयिषति । 'ष्विदाच् गात्रप्रक्षरणे' सिस्वेदयिषति । 'पहि मर्षणे' सिसाहयिषति । स्तौतिसाहचर्या - त्वदादिपर्युदासेन सदृशग्रहणाच्च ण्यन्तानामपि षोपदेशानामेव ग्रहणम् । तथा च कृतत्वात् सकारस्य ३३ ‘नाम्यन्तस्थाकवर्ग०' ( २।३।१५ ) इति सूत्रेणैव सिद्धे नियमार्थं वचनम् । णिस्तोरेव पणि षत्वं
For Personal & Private Use Only
www.jainelibrary.org
Jain Education International