________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे सन्प्रक्रिया इवृ० इवन्तो दिधातुः । 'अनुनासिके चः' इति अनुनासिकादौ को धुडादौ च प्रत्यये धातोर्वकारस्य ऊद स्यात् , ततः सनो धुडादित्वात् वकारस्य ऊत्त्वम् । ततो यू टू इति द्वित्वे दुषति । इडागमपक्षे सनो धुडादित्वाभादूत्वाभावे वकारान्तत्वा द्वौ व्यञ्जनादे'रिति सनः कित्त्वाभावेन गुणे दिदेविषति । एवं षिव् सुष्यूषति सिसेविषति । ष्ठिव तुष्ट्रपति तिष्ठेविषति ॥ १३ ॥ 'ऋधूद वृद्धौ' । 'ऋधौच वृद्धौ वा' । अर्द्धितुमिच्छति । सनि सूत्रम्
ऋध ईत् ॥ १४ ॥ [सि० ४।१।१७ ] ऋधः सादौ सनि ईत् स्यात्, न चास्य द्विः । ईलैति अर्दिधिषति । विभर्जिषति-विभ्रक्षति । भर्जादेशे विभक्षति-विभर्जिषति ॥१४॥
'ऋध.' सादाविति किम् । अदिधिषति; अत्र सनः सादित्वाभावात् ईर्तादेशाभावः । 'भ्रस्जीत् पाके' भ्रष्टुं भष्टुं वा इच्छतीति सनि चातूरूप्यम् ॥ १४ ॥ 'दम्भूट दम्भे' । दम्भितुमिच्छति १० सनि सूत्रम्
दम्भो धिपधीप् ॥ १५॥ [सि० ४।१।१८] दम्भः सि सनि धिप्धीपौ साताम् । न च द्विः । धिप्सति-धीप्सति । दिदम्भिवति । शिश्रीषति-शिश्रयिषति ॥ युः सौत्रो धातुः । युयुषति ॥ १५ ॥
'दम्भो०' सुगमम् । श्रिग् सेवायाम्'। श्रयितुमिच्छति सनि अनेनेड्विकल्पे द्वैरूप्यम् । १५ 'युग्श् बन्धने' योतुमिच्छति 'युक् मिश्रणे' इति वा यवितुमिच्छति । सनि इडभावपक्षे स्वरहन्गमोरिति दीर्घ युयूषति ॥ १५ ॥ पक्षे युयु इति द्वित्वे सूत्रम्
ओर्जान्तस्थापवर्गेऽवणे ॥ १६ ॥ [सि० ४।१।६०] द्वित्वे पूर्वस्य उतोऽवर्णान्ते जान्तस्थापवर्गे परे सनि इ. स्यात् । यियविषति ॥ १६॥ "ओर्जा.' पूर्वस्य उतः उकारान्तस्येत्यर्थः । इ: स्यादिति इकारोऽन्तादेशः स्यादित्यर्थः । २० क्रमेणोदाहरणानि । जु' सौत्रो धातुः । जिजावयिषति यियविषति यियावयिषति रिरावयिषति लिलावयिषति पिपविषति पिपावयिषति विभावयिषते । मिमावयिषति । ओरिति किम् ? पापचिषते। जान्तस्थापवर्गे इति किम् ? अवतुतावयिषति जुहाव यिषति । अवर्ण इति किम् ? बुभूषति । सनीत्येव लुलाव । ननु ण्यन्तानां वृद्ध्यवादेशयोः कृतयोर्द्वित्वे सति पूर्वस्योकारान्तता न सम्भवति । तत्र 'सन्यस्य' (४।१।५९) इत्यनेनैव सिद्धे किं गुरुणा सूत्रेण ? एतावत्तु विधेयम् । २५ उः पयेऽवणे इति पिपविषति यियविषतीत्यत्र पूर्वस्येकारान्तत्वं यथा स्यात् । सत्यम् । णौ यत्कार्य कृतं तत्सर्वं स्थानिवद्भवतीति न्यायज्ञापनार्थं वचनम् । तेन पुस्फारयिषति चुक्षावयिषति । श्वयन्तं प्रयुङ्क्ते णिग् 'श्वेवा' (४।१।८९) इति णिविषये वृत् श्वावयितुमिच्छति शुशावयिषतीत्याद्यपि सिद्धम् । एतच्च ज्ञापकं जान्तस्थापवर्गवदऽन्यत्राप्यवर्ण एव द्रष्टव्यम् । तेनाचिकीर्तदित्यत्रेकारवतो द्विवचनं सिद्धम् । प्रकृते तु यियविषतीति सिद्धम् ॥ १६ ।। अत्रायं विशेषः ।
श्रुखुदुनुप्लुच्योर्वा ॥ १७ ॥ [ सि० ४।१।६१] शिश्रावयिषति शुश्रावयिषति । प्रोर्णभूषति प्रोर्जुनविषति । भृगः खरहनेति दीर्घ ओष्ठ्यादूर बुभूषति-विभरिषति ॥१७॥
३०
३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org