SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ ७८६ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुसमुदायार्थः विकुस्मयते चित्रीयते महीयते हृणीयते । अवयवे कृतं (३।) लिङ्ग समुदायस्य विशेषक भवति, यं समुदायं सोऽवयवो न व्यभिचरति । यथा गोः सक्थनि कर्णे वा कृतं चिढू गोरेव विशेषकं भवति न गोमण्डलस्य । सन्नन्तं च समुदायं तिजादयोऽर्थविशेषेषु न व्यभिचरन्ति, णिगन्तं पुनर्व्यभिचरन्ति । ननु सन्नन्तमपि व्यभिचरति तेजयति गोपायति मानयति । मैवम् , अर्थविशेषेषु न ५व्यभिचार इत्युक्तत्वात् । 'गुप्तिजो गर्हाक्षान्तौ सन्' (३।४।५) इति अधिजिगांसते विद्यामिति । एवं जिगांस्यते । संजिगांसते । समेतुमिच्छति अनेन गम्वादेशे गम्लं गतावित्यनेन सह इणादेशस्य गमेरभेदोपचाराद्गम्लकार्यमात्मनेपदं प्राग्वदित्यनेन स्यादन्यथा सनः प्रागात्मनेपदादर्शनान्न स्यात् । उपचारे तु 'समो गमृच्छी ति दृष्टम् । अधिजिगांस्यते माता । 'स्वरहन्० (४।१।१०४) इति सूत्रे गम्विति इणि किङादेशस्य गमेर्ग्रहणाद्गच्छतेर्दी! न भवति । संजिगंसते वत्सो मात्रा । इडा१० देशस्यैव गमेरिच्छन्त्येके तन्मते इण् जिगंसते संजिगंसते। 'इंक्' अधिजिगंस्यते मातेत्येव भवति । सनीति किम् ? स्तुतः । धुटीति किम् ? यियविषति । प्रथमं गुणं बाधित्वा दीर्घे सकृद्गत इति प्रवर्त्तते इति रूपं न सिद्ध्यति । एवं जिगमिषतीत्यादावपि सनो धुडादित्वाभावान्न दीर्घः । सन्परे णौ विशेषमाह । (पृष्ठ ७८५) 'णौ सन् डे वा' (४।४।२७) सन्परे उपरे च णौ इङो गादेशो वा भवतीति भावः । उपरे णावपि गादेशो वा अध्यजीगपत् अध्यापिपत् । गादेशाभावे ‘णौ १५ क्रीजीङः' (४।२।१०) इत्यात्वम् । णाविति किम् ? अधिजिगांसते । सन् डे इति किम् ? अध्यापयति ॥ ११ ॥ केषाश्चिद्विशेषमाह । वौ व्यञ्जनादेः सन्चाऽयवः ॥ १२ ॥[सि० ४।३२५] वौ उदित्युपान्त्ये सति व्यञ्जनादेः धातोः परः क्त्वा' सन् च सेटौ किद्वद्वा स्याताम् न तु वन्तात् । दिद्युतिषते-दिद्योतिषते । लिलिखिषति-लिलेखिषति । अय्व इति किम् ? दिदे२० विषति । वृद्भ्यः स्यसनोरित्यात्मनेपदविकल्पे, न वृश्य इति परस्मैपदे इनिषेधे च, विवृत्सति-विवर्तिषते । कृतचूतनृतेतीइविकल्पे निनृत्सति निनर्तिषति ॥ १२ ॥ 'वौ०' वौ इति उकारे इकारे च उपान्ये सतीत्यर्थः । सनः कित्त्वे गुणाभावः । पक्षे गुणः । क्त्त्व उदाहरणानि वक्ष्यन्ते । लिलेखिषतीति । एवं मुमुदिषते मुमौदिषते । शिश्वितिषते शिश्वेतिषते । पाविति किम् ? वर्तित्वा विवतिषते । व्यञ्जनादेरिति किम् ? उषित्वा उषिषिषति । सेडित्येव । २५ भुक्त्वा बुभुक्षते । देवित्वा दिदेविषति । विश्व य च विय , वियिवाचरति किप् तस्य लुक् वेयनम् । पूर्व (क्त्वायां) वेयित्वा वेयितुमिच्छति विवेयिषतीति यकारान्तस्य क्त्वासनोः कित्त्वाभावे उदाहरणम् । 'वृझ्यः स्यसनोः' (३।३।४५) इत्यादि व्यक्तम् । 'कृतचूत०' (४।४।५०) इति चिकृत्सति चिकतिषति चिचत्सति चिचर्चिषति । निनृत्सति २। चिच्छर्दिषति २ । तितृत्सति तितर्दिषति । विशेषतोऽस्य व्याख्यानं नृतैच् धातुप्रकरणे (पृष्ठ ६७५) उक्तमिति ततो ज्ञेयम् ॥ १२ ॥ ३० पुनः केषाश्चिद्विशेषमाह । इवृधभ्रस्जदम्भश्रियूर्णभरज्ञपिसनितनिपतिवृद्दरिद्रः सनः ॥ १३ ॥ [सि० ४।४।४७] इवन्तादृधादिभ्य ऋदन्तेभ्यो दरिद्रश्च सन आदिरिड वा स्यात् । दिव् । अनुनासिके च ३४ च्छ: शुद्ध (४।१।१०८) दुधूषति-दिदेविषति ॥ १३ ॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy