________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे. सन्प्रक्रिया
७८५ णके क्यनि, णौ डे च स्वापयतीति स्थापकस्तमिच्छति स्वापकीयति । स्वापकीयन्तं प्रायुक्त णौ डे द्वित्वेऽनेन पूर्वस्य उत्वे असुष्वापकीयत् । स्वापेः किबन्तात्कर्तुः किपि यङ् स्वापयतीति स्वाप । स्वाप् इवाचरतीति स्वापति । भृशं पुनः पुनर्वा स्वापति सोप्वाप्यते । अन्ये तु णौ सति द्वित्वनिमित्तानन्तर्य एवेच्छन्ति । स्वापकीयतेः सनि सिष्वापकीयिषति । णाविति किम् ? स्वपितीति स्वापक इति णकान्तात् क्यनि सनि च सिष्वापकीयिषति । स्वपो णाविति किम् ? स्वापं चिकीर्षति ५ सिष्वापयिषति । अत्र न स्वर्णिः, घना व्यवधानात् । स्वपो णौ सति द्वित्व इति किम् ? भृशाद्यर्थे यङ्लुप्, स्वपेर्यङ्लुप्यपि वृत् , ततो द्वित्वम् सोषुपतं प्रयुक्त णिग् सोषोपयति, सोषोपयितुमिच्छति सन् 'णिस्तोरेव०' (२।३।३५) इति षत्वम् । सोषोपयिषति । अत्र यङ्लुबन्तात् द्वित्वे सति णिः, न तु णौ सति द्वित्वम् । ननु स्वापकीयन्तं प्रायुङ्ग अस्वापकीयदित्यादौ स्वपो णावित्युकारः कथं नेत्यत्रोच्यते ? । नायं स्वपेरकारः किन्तु णकप्रत्ययस्येति ॥ ८॥ केषाञ्चित् प्रक्रियाविशेषमाह
खरहन्गमोः सनि धुटि ॥ ९॥ [सि० ४।१।१०४ ] खरान्तस्स हन्गमोश्च धुडादौ सनि दीर्घः स्यात् । 'जेर्गिः सन्परोक्षयोः' (४।१।३५) जिगीषति । 'चेः किर्वा (४।१।३६) चिचीपति चिकीषति । स्तोतुमिच्छति तुष्टुषति । कूगो दीघे सति इर् चिकीर्षति । हन्तुमिच्छति सनि द्वित्वे अङे हिहनेति घत्वे दीर्घ च जिघांसति ॥९॥१५ __ 'खर०' स्पष्टम् । कृगो दीर्घ सनि इर् इति 'नामिनोऽनिट्' (४।३।३३) इति सनः कित्त्वात् 'ऋतां वितीर' (४।४।११६) इति इर् । इडादित्रयस्य विशेषमाह ॥ ९॥
सनीडश्च ॥ १०॥ [सि० ४।४।२५] इङ इणिकोश्चाज्ञाने सनि गमुः स्यात् । अज्ञान इति इण एव विशेषणं नान्ययोरसम्भवात् ॥१०॥ 'सनी' स्पष्टम् ॥ १० ॥ सत्रन्तस्यात्मनेपदादिव्यवस्थामाह सूत्रम् ।
प्राग्वत् ॥ ११॥ [सि० ३।३।७४ ] सनः सनः पूर्वो यो धातुस्तसादिव समन्तात् कर्तर्यात्मनेपदं स्यात् । गमोऽनात्मने इतीइनिषेधः। इङ् अधिजिगांसते विद्याम् । इण जिगमिषति ग्रामम् । इंक् मातुरधिजिगमिषति । ज्ञाने त्विणः प्रतियियिषति। "णौ सन्डे वेति” वा इडो गादेशे अधिजिगापयिषति अध्यापिपयिषति ॥११॥२५
'प्राग्व०' सनः पूर्वो यो धातुरिति अयं भावः । यत्पूर्वस्य धातोरनुबन्धेनोपपदेनार्थविशेषेणात्मनेपदं दृष्टम् , तत्सन्नन्तादति दिश्यते । अनुबन्धेन 'शीङ् शेते' शिशयिषते । एधि एधते एदिधिषते । लोलूयते लोलूयिषते । श्येनायते शिश्येनायिषते । उपपदेन निविशते, निविविक्षते ॥ अर्थविशेषेण शास्त्रस्य क्रमते बुद्धिः, चिकंसते उभयेन, आक्रमते चन्द्रः आचिकंसते । यत्पुनः सप्रत्यय (धातु) निमित्तं तन्नातिदिश्यते शिशत्सति मुमूर्षति । अत्र हि न शदिनियती एव निमित्ते, ३० किं तर्हि ? शिदाशीरद्यतन्योऽपि । अनुबन्धादिनिमित्तमपि यद्विशेषविधानबाधया प्राङ्ग दृष्टं तन्नातिदिश्यते । यथानुकरोति अनुचिकीर्षति । तिजादीनां तु अर्थविशेषेषु केवलानामप्रयोगात्सन्नन्तसमु. दायार्थमेवानुबन्धविज्ञानम् । तेन तितिक्षते जुगुप्सते मीमांसते इत्यादौ प्राग् दृष्टमप्यात्मनेपदमनुबन्धसामर्थ्याद्भवति । यथा कुस्मिक चित्रङ् महीङ् हृणीङ् । अनुबन्धो णिच् क्यन् यगन्त-३४
है. प्रका० उत्त०११
२०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org