________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे सन् प्रक्रिया
___७८३
७८३
* अथ सन् प्रक्रिया।
तुमर्हादिच्छायां सन्न तत्सनः ॥१॥ [सि० ३।४।२१] यो धातुरिषेः कर्म इषिणैव च समानकर्तृकः स तुमर्हस्तस्मादिच्छायामर्थे सन् वा स्यात् । नत्विच्छासन्नन्तात् । पठितुमिच्छति सागमे इडागमे च ॥१॥ _ 'तुम०' तुमर्हादिति किम् ? अकर्मणोऽसमानकर्तृकाञ्च मा भूत् । गमनेनेच्छति । भोजनमिच्छति ५ मैत्रस्य । इच्छायामिति किम् ? भोक्तुं व्रजति । अतत्सन इति किम् ? चिकीर्षितुमिच्छति सन्नन्तात्सन्न भवति । तद्ब्रहणं, किम् ? जुगुप्सिषते; अत्र स्वार्थिकसन्नन्तात् सन् । सनोऽकारः किम् ? अर्थान् प्रतीषिषति । नकारः सन ग्रहणेषु विशेषणार्थः । कथं नदीकूलं पिपतिषति श्वा मुमूर्षति ? पतितुमिच्छतिमर्तुमिच्छति इति वाक्यवदुपमानाद्भवति ॥ १॥ अत्रोपयोगिसूत्रम् ।
सन्यङश्च ॥२॥[सि०४।१।३] सन्नन्तस्य यङन्तस्य चाद्य एक खरोंऽशो द्विः स्यात् ॥२॥ 'सन्य०' स्पष्टम् ॥ २ ॥ पुनरप्युपयोगिसूत्रम् ।
सन्यस्य ॥३॥ [सि० ४११५९] द्वित्वे पूर्वस्यातः सनि परे इ. स्यात् । नाम्यन्तस्येति पत्वे, पिपठिषति ४ । अपिपठिषीत् ५। पिपठिषाञ्चकार ६ । पिपठिष्यात् ७ । पिपठिषिता ८। पिपठिषिष्यति ९ । अपिपठिषिष्यत् १५ १० । खरादेर्द्वितीयः (४।१।४) इति द्वित्वे, अटितुमिच्छति अटिटिषति । घस्लसनद्यतनीघाचलि । (४।४।१७) अत्तुमिच्छति जिघत्सति । अजिघत्सीत ॥३॥
"सन्यः ' यथा पिपक्षति पिपासति । इणः सनि 'स्वरादेर्द्वितीय' इति सकारस्य द्वित्वेऽनेन पूर्वस्य इत्वे प्रतीषिषति । हायकमिच्छति हायकीयति । ह्वायकीयितुमिच्छति जिह्वायकीयिषति । स्वरादिधातूनां विशेषमाह । 'खरा०' (४।१।४) अयमर्थः स्वरादे(र्धातो)त्विभाजो द्वितीयोऽश एकस्वरो२० द्विर्भवति । नत्वाद्यः । अटिटिषति । एवं अनातुमिच्छति अशिशिषति । प्राक्तु स्वरे स्वरविधेरित्येव अट् णिग् अट्य० डे टिटि इति द्वित्वे 'णेरनिटि' (४।३।८३) इति णिग्लोपे आदिटत् । अत्र णिग्लोपात् प्रागेव द्वितीयस्यावयवस्य द्वित्वम् । एवमाशिशत् । प्राणुनाव प्रोणुनविषति; अत्र वृद्धिगुणाभ्यां प्राग द्वित्वम् , द्वित्वरूपे परे कार्ये णत्वशास्त्रस्यासत्त्वात् द्वित्वे कृते णत्वम् । अरिरिषति अरिरीषतीत्यत्र विटः कार्यित्वं न निमित्तत्वम् ततो द्वित्वनिमित्तस्य स्वरादिप्रत्ययस्याभावात् २५ प्राग्गुणलक्षणः स्वरविधिरेव । 'कू गतौ' ऋ प्रापणे वा । अर्तुमिच्छति सनि 'ऋस्मिपूजशौ०' (४।४।५८) इतीटि गुणे ततो द्वितीयस्य द्वित्वे अरिरिषति । 'ऋश् गतौ' अरीतुमिच्छति 'इवृध०' (४।४।४७) इत्यनेन इटि ततो गुणे द्वित्वे 'वृतो नवा०' (४।४।३५) इति दीर्घ अरिरीषति ।
द्वित्वप्रक्रमात् द्वित्वे विशेषा उच्यन्ते 'नानो द्वितीयाद्यथेष्टम्' (४।११७) स्वरादेर्नामधातोत्वेि द्वितीयादारभ्यैकवरोऽवयवो यथेष्टं द्विरुच्यते । यो य इष्टो यथेष्टम् । 'योग्यतावीप्सा०'३० (३।१।४०) इत्यव्ययीभावः । अशिश्वीयिषति अश्वी यियिषति अश्वीयिषिषति । 'अन्यस्य (४।१।८) [स्वरादेरन्यस्य ] व्यञ्जनादेर्नामधातोत्वेि एकखरोऽवयवो यथेष्टं प्रथमो द्वितीयतृतीया-३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org