________________
७८२ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
'मार०' चकारो णिचि चेत्यस्यानुकर्षणार्थः । संज्ञपयति पशुमिति मारयतीत्यर्थः । विज्ञपयति गुरुमिति तोषयतीत्यर्थः । निशानं तेजनम् तीक्ष्णीकरणं प्रज्ञपयति शस्त्रं तीक्ष्णीकरोतीत्यर्थः । अन्ये तु निशामने इच्छन्ति । निशामनमालोचनं प्रणिधानमाहुः । अज्ञापि अज्ञपि । ज्ञापं २ । ज्ञपं २ । इह पूर्वत्र सूत्रे णिचि अणिचि णौ रूपसाम्येऽप्यर्थभेदः । एकत्र स्वार्थोऽन्यत्र प्रयोक्तव्यापारः । अत्रादि५शब्दात् । 'चहणः शाव्ये (४।२।३१) चहेश्चौरादिकस्य शाठ्ये वर्तमानस्य णिचि णौ परे ह्रस्वः स्यात् , मिणम्परे तु वा दीर्घः। चहयति । चाहिष्यते चहिष्यते । अचाहि अचहि । चाहं २ चहम् २ । णित्करणात् भौवादिकस्य न भवति । चाहयति । अचाहि । चाहं २ । शाठ्य इति किम् ? अचहि । चहं २ । चहयत्येतदन्तत्वात् सिद्धम् , दीर्घार्थ वचनम् ॥ ३३ ॥ सूत्रम्
ज्वलहलह्मलग्लानावनूवमनमोऽनुपसर्गस्य वा ॥ ३४ ॥ [सि० ४।२।३२] १० एषामष्टानामनुपसर्गाणां णौ ह्रस्वो वा स्यात् । ज्वलयति-ज्वालयति । अनुपसर्गस्येति किम् ?
प्रज्वलयति । णिजन्तादपि णिग् । चोरयन्तं प्रयुङ्क्ते चोरयति । णिलुपि स्वरादेशत्वात् स्थानिवद्भावेनोपान्त्यत्वाभावान हस्खः । अचुचोरत् ॥ ३४ ॥
'ज्वल.' एषामष्टानामिति । 'ज्वल हल चलने' 'क्ल दीप्तौ च' ज्वलन्तं हलन्तं झलन्तं ग्लायन्तं स्नान्तं वन्वानं वमन्तं नमन्तं प्रयुङ्क्ते ज्वलयति ज्वालयति । एवं वलयति ह्वालयति । १५ ालयति झालयति । ग्लपयति ग्लापयति । स्त्रपयति स्नापयति । वनयति वानयति । वमयति
वामयति । नमयति नामयति । णिजन्तादपीत्यादि वार्तिकं स्पष्टम् ॥ ३४ ॥ अथ कचिण्णिगन्तानामात्मनेपदं नियमयति ।।
अणिकर्मणिकर्तृकाण्णिगोऽस्मृतौ ॥ ३५॥ [सि० ३३८८ ] अणिगवस्थायां यत्कर्म तदेव णिगवस्थायां कर्ता यस्य तसाण्णिगन्तादस्मृत्यर्थात् कर्त्तर्या२० त्मनेपदमेव स्यात् । आरोहयते हस्ती हस्तिपकम् ॥ ३५ ॥
'अणि' अस्य सूत्रस्य सविस्तरव्याख्यानं भ्वादिधातुषु विशिष्टार्थोपसर्गादेरिति कारिकामुहिश्यौपाधिकात्मनेपदप्रक्रमे निरूपितमस्तीति । ततो (पृष्ठ ५९९) ज्ञेयम् । एवमनन्तरवक्ष्यमाणसूत्रद्वयस्यापि । अथैतेषां कचित् परस्मैपदं नियमयति ॥ ३५ ॥
अणिगि प्राणिकर्तृकानाप्यापिणगः ॥ ३६ ॥ [सि० ३।३।१०७] २५ अणिगवस्थायां यः प्राणिकर्तृकोऽकर्मकश्च धातुस्तमाणिगन्तात्परस्मैपदमेव स्यात् । आसयति चैत्रम् ॥ ३६॥ [पृष्ठ ६०२]
चल्याहारार्थेबुधयुधप्नद्रुतुनशजनः ॥ ३७॥ [सि० ३।३।१०८ ] चल्याहारार्थेभ्य इङादिभ्योऽष्टाभ्यश्च णिगन्तेभ्यः परसैपदमेव स्यात् । चलयति । घटादित्वात् हस्खः । इत्यादि ॥ ३७॥ [पृष्ठ ६०३]
इति महोपाध्यायधीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां
हैमलघुप्रक्रियायां णिगन्तप्रक्रिया समाप्ता। 'अणिगि०' 'चल्या०' स्पष्टम् । इत्यादीनि । ३३ एवं णिगन्तधातूनां प्रक्रिया प्रतिपादिता । अथ सन्नन्तधातूनां लेशतः सा निरूप्यते ॥
३०
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org