________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे णिगन्तप्रक्रिया
७८१ बाधिता न स्यात् । अकगीदिति कगन्तं प्रयुक्त णिग् णिति' उपान्त्यवृद्धिः अनेन हवः कगतीति । एवं अकागि-अकगि । कागं २ । कगं २ । 'वनूयि याचने' । उपवन्वानं प्रयुक्ते उपवनयति । उपावानि उपायनि । अवानि-अवनि । उपवानं उपवनं । वानं २ । वनं २ । 'जनैचि प्रादुर्भावे' । जायमानं प्रयुङ्क्ते जनयति । अजानि अजनि । जानं २ । जनं २ । 'जषच जरसि' । जीर्यन्तं प्रयुङ्क्ते जरयति । अजारि अजरि । जार २ जरं २। 'कसूच् हृतिदीप्त्योः ' । कसयति । अकासि ५ अनसि । कासं २ । कसं २ । रञ्जौँ विशेषमाह । “णी०' (४।२।५१) रञ्जरुपान्त्यस्य नकारस्य णौ परे मृगाणां रमणे क्रीडायामर्थे लुग् भवति । मृगरमण इति किम् ? रञ्जयति रजको वस्त्रम् । रञ्जयति सभां नटः। अनेन लोपे 'कगेवनूजनैः' इति वा दीर्घ अराजि अरजि । राजं २ । रजं २ । नलोपे वचनस्य चरितार्थत्वात् मृगरमणाभावे नलोपाप्रवृत्तौ दीर्घो न स्यात् । अरञ्जि । रजं २ ॥ ३१ ॥
अमोऽकम्यमिचमः ॥ ३२॥ [सि० ४।२।२६ ] कम्यमिचमिवर्जस्यामन्तस्य णौ हस्वः स्यात, जिणम्परे तु वा दीर्घः रमयति ॥ ३२ ॥ 'अमो०' रमयतीति । एवं अरामि अरमि । रामं २ । रमं २ । दमयति । अदामि अदमि । दामं २ । दमं २ । कथं सङ्कामयतीति ? सामन्तं करोतीति शत्रन्ताणिचि भवि. ष्यति । अकम्यमिचम इति किम् ? कामयते । अकामि । कामं २। आमयति । आमं २ १५ आचामयति । आचामि । आचामं २ ॥ ३२ ॥ __अत्रादिशब्दानुवृत्तेः । 'पर्यपात्स्खदः' (४।२।२७) आभ्यां परः स्खदेो परे ह्रस्वो भवति । भिणम्परे तु वा दीर्घः । परिपूर्वक 'स्खदिष् खदने' परिस्खदमानं प्रयुङ्क्ते परिस्खदयति । पर्यस्खादि पर्यस्खदि । परिस्खादं २ । परिस्खदं २ । अपस्खदयति । अपास्खादि अपास्खदि । अपस्खादं २ । अपस्खदं २ । अवादप्यन्ये । अवस्खदयति । स्खदेर्घटादिपाठेन सिद्धे नियमार्थं वचनम् । अन्योप-२० सर्गपूर्वस्य मा भूत् । प्रस्खादयति । अन्ये तु निषेधाधिकारेऽपपरिस्खद इति पठित्वा पर्यपपूर्वस्य रखदेनिषेधमिच्छन्ति । तन्मते परिस्खादयति । पर्यस्खादि । परिस्खादं २ । एवं अपस्खादयतीति । पर्यपाभ्यामन्यत्र प्रस्खदयति । प्रास्खादि प्रस्खदीत्यादि भवति । 'शमोऽदर्शने' (४।२।२८) अदर्शनेऽर्थे वर्तमानस्य शमी परे ह्रखो भवति । बिणम्परे तु वा दीर्घः। शमयति रोगम् । निशमयति श्लोकान् । अशामि अशमि । शामं २ । शमं २ । अदर्शन इति किम् ? निशामयति २५ रूपम् । अदर्शन एव केचिदिच्छन्ति । तेषामुदाहरणप्रत्युदाहरणयोर्विपर्ययः । 'यमोऽपरिवेषणे णिचि च' (४।२।२९) अपरिवेषणे वर्तमानस्य यमेणिचि अणिचि च णौ हवो भवति । त्रिणम्परे तु वा दीर्घः । यमयति । अयामि-अयमि । याम २ । यमं २ । अपरिवेषणे इति किम् ? यामयत्यतिथीन् । यामयति चन्द्रमसं यमः। परिवेषणे इत्यन्ये तन्मते उदाहरणप्रत्युदाहरणयो
यंत्यासः । णाविति सिद्धे अस्य णिचि वेति वचनादन्येषां णिचि न भवति । 'स्यमिण वितर्के' ३० स्यामयते । अस्यामि । स्यामं २ । 'शमिण आलोचने' । निशामयति । न्यशामि । शामम् २ ॥३२॥ अथ कतिचिद्धातून साक्षानिर्दिशति
मारणतोषणनिशाने ज्ञश्च ॥ ३३ ॥ [सि० ४।२।३०] एध्वर्थेषु ज्ञो णौ हवः स्यात् । संज्ञपयति पशुम् । विज्ञपयति गुरुम् । प्रज्ञपयति शस्त्रम् ॥३३॥ ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org