________________
७८०
दुषेरुपान्त्यस्य णौ ऊत् स्यात् । दूषयति ॥ २८ ॥
'ऊहु०' दुष्यन्तं प्रयुङ्क्ते दूषयति । प्रदूष्य गतः । णाविति किम् ? दोषो वर्त्तते । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानादिह न भवति । दोषणं दुद क्विप् । दुषमाचष्टे दुषयति । अयं हि णिज् ५ न दुष्धातोः सम्बन्धी, किन्तु 'णिज् बहुलं नाम्नः ०' इति विहितत्वात् नामसम्बन्धी । यद्वा तस्माद्धातोरनन्तरः प्रत्ययस्तत्प्रत्ययोऽयं तु णिस्तादृशो न भवतीति पुनर्णिग्रहणं ङनिवृत्त्यर्थम् । तेन सामान्येन णौ भवति न तु ङपर एवेत्यर्थः । ह्रस्वे सति अबूदुषत् । ह्रस्वो न भवतीत्यन्ये । तन्मतसंग्रहार्थमूकारप्रश्लेषो विधेयः । अदुदूषदिति । दुष्यन्तं प्रायुङ्क णिग् गुणः । अनेन ऊकारः ॥ २८ ॥ चित्ते वा ॥ २९ ॥ [ सि० ४२ ४१ ]
१० चित्तकर्तृकस्य दुषेरूद्वा स्यात् । चित्तं दोषयति दूषयति वा मैत्रः
गोहः स्वरे इत्युत्वे
गृहयति ॥ २९ ॥
'चित्ते०' सप्तम्याश्चित्तविषयस्येत्यर्थस्तस्य च चित्तकर्तृकस्येति तात्पर्यम् । चित्तग्रहणेन प्रज्ञाया अपि ग्रहणात् प्रज्ञां दूषयति दोषयति वा । अथ केषाञ्चिद्धातूनां णौ परे हखो भवति । तान् दर्शयति ॥ २९ ॥
१५
महामहोपाध्याय श्रीविनय विजयगणिविरचिते खोपज्ञ है मलघु
Figat of 11 26 11 [fero 81R180 ]
घटादेः दीर्घस्तु वा ञिणम्परे ॥ ३० ॥
घटादेर्हखे दीर्घस्तु वा जिणम्परे णौ वर्तते । घटयति । घटं २ | व्यथयति । अव्याथि - अव्यथि । व्याथं २ | व्यथं २
॥
'घटा०' स्पष्टम् । घटादयः प्रागुक्ताः । हिडयति । अहीडि अहिडि । हीडं २ । हिडं २ | अक्ष अक्षञ्ज । क्षा २ क्षजं २ । अदाक्षि अदक्षि । दाक्षं २ । दक्षं २ | क्षञ्जिक्षादीनां २० घटादिपाठबलादनुपान्त्यस्यापि दीर्घः । वा म्परे इत्येव हस्वविकल्पे सिद्धे दीर्घवचनं हेडेरिकारस्य दीर्घत्वार्थमस्य ह्रस्वविकल्पे हि पक्षे एकारश्रुतिः स्यात् । न च वाच्यं क्षञ्जेरपि दीर्घत्वार्थं यतस्तस्यानेन ह्रस्वविकल्प सामर्थ्यादेवानुपान्त्यस्यापि णिति (इति) दीर्घः स्यात् । णिग् यङ् व्यवहितेपि णौ भिणम्परे दीर्घत्वार्थं च । णिग् व्यवाये शमयन्तं प्रयुङ्क्ते णिग्, तदन्तात् मि अशा मि- अशमि । शामं २ । शमं २। यद्व्यवाये शंशमयते णमि अशंशा मि- अशंशमि । २५ शामं २ शमं २ । अत्र योऽसौ ( णौ ) णिलुप्यते यश्च यङोऽकारस्तस्य स्थानिवद्भावेन घटादीनां व्यवहितत्वादानन्तर्य नास्तीति निणम्परे न स्यात् ह्रस्वविकल्पः । दीर्घग्रहणे तु दीर्घविधिं प्रति स्थानिवद्भाषप्रतिषेधादानन्तर्यमेव सिद्ध्यति । ॥ ३० ॥
[ सि० ४।२।२४]
अघाटि अघटि । घाटं २ ।
३० ॥
कगेवनूजनैजृष्नसूरञ्जः ॥ ३१ ॥ [ सि० ४।२।२५ ]
maitri णौ ह्रस्वो भवति । ञिणम्परे तु णौ वा दीर्घः । कगयति । जनयति । 'णौ ३० मृगरमणे' (४|२|५१ ) रञ्जेन लुक् । रजयति मृगान् । अराजि - अरजि ॥ ३१ ॥
Jain Education International
'कगे० ' कगे सौत्रो धातुः । एके कगेधातुं सर्वधात्वर्थेषु मेनिरे । यथा कति यात भुस्तीत्यादि । अन्ये कगे इति नोच्यते इत्यर्थे जगुः; यथा कगति न वक्तीत्यर्थः । ऐदित्त्वात् ३३ व्यञ्जनादेवपान्त्यस्यातः ' ( ४ | ३ | ४७ ) इति प्राप्ता वृद्धिः 'न विजागृ० ' ( ४ | ३ | ४९ ) इति
For Personal & Private Use Only
www.jainelibrary.org