________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे णिगन्तप्रक्रिया
७७९ व्यावृत्तेर्वैयर्थ्यमिति वाच्यम् ; सूत्रे ज वः इति सामान्यभणिते पक्षणोपवाजयति । एवं पुष्पाणि प्रवाजयति । अवीवजत् । विधूनन इति किम् ? ओवै केशानावापयति शोषयतीत्यर्थः । वजिनैव सिद्धे वाते रूपान्तरनिवृत्त्यर्थं वचनम् ॥ २३ ॥
पाशाछासावेव्याह्वो यः॥ २४ ॥ [सि० ४।२।२०] एषां सप्तानां णौ योऽन्तः स्यात् । पाययति ॥ २४॥ 'पाशा' एषामिति । 'पां पाने' "मैं शोषणे' । पिबन्तं पायन्तं वा प्रयुक्ते पाययति । पातेस्तु लकार उक्तः ॥ २४ ॥ ले पा इत्यस्य विशेषसूत्रम्
ढे पिवः पीप्य् ॥ २५॥ [सि० ४।१।३३] ण्यन्तस्य पिबतेर्डे परे पीप्य स्थान च द्विः। अपीप्यत् । शाययति । अवच्छाययति । अवसाययति । वाययति । व्याययति । ह्वाययति ॥ २५ ॥
'उ पियः' इति निर्देशात् पातेन भवति अपीपलत् । लुप्ततिन्निर्देशात् यङ्लुप्यपि न भवति अपापयत् । ङ इति किम् ? पाययति । 'शोंच तक्षणे' श्यन्तं प्रयुङ्क्ते शाययति । 'छोंच् छेदने' अवच्छयन्तं प्रयुङ्क्ते अवच्छाययति । अवस्यन्तं प्रयुङ्क्ते अवसाययति । 'वेंग् तन्तुसन्ताने' 'व्यंग् संवरणे' 'द्वेग् स्पर्द्धाशब्दयोः' वयन्तं व्ययन्तं हयन्तं प्रयुते । वाययति व्याययति ह्वाययति । ● अशीशयत् अचिच्छयत् अवासीसयत् अवीवयत् अविव्ययत् ॥ २५ ॥ द्वेगो डे विशे-१५ षमाह । सूत्रम्
णौ ङसनि ॥ २६ ॥ [सि० ४।१।८८] हेगः सस्वरान्तस्था परे सन्परे च णौ विषये वृत् स्यात् । भ्राजभासेत्यादिना वोपान्त्यस्य हखे अजूहवत्-अजुहावत् । 'श्वेवा' (४।१८९) यवृत् अशूशवत्-अशिश्वयत् । 'स्फायः स्फा' (४।२।२२) णौ । स्फावयति । 'शदिरगतौ शात्' (४।२।३३)२० पुष्पाणि शातयति । गतौ तु गाः शादयति ॥ २६ ॥
'णौ ङ०' णौ विषये इति विषयसप्तमीविज्ञानादन्तरङ्गमपि यकारागमं बाधित्वा वृत् स्यात् । 'श्वे.' (४।१।८९) यवृत् इति । श्वयतेः सस्वरान्तस्था ङपरे सन्परे च णौ विषये वृद्वा भवति । विषयविज्ञानादन्तरङ्गमपि वृद्ध्यादिकं वृता बाध्यते । कृते च तस्मिन् वृद्धिस्तत आवादेश उपान्त्यह्रस्वत्वम् । ततो णिकृतस्य स्थानित्वात् शोर्द्वित्वं ततः पूर्वदीर्घ इति क्रमः ।२५ णावित्येव अशिश्वियत् । 'स्फा०' (४।२।२२) स्फायतिौँ परे स्फाव् इत्ययमादेशः स्यात् । अभेदनिर्देशोऽन्ताधिकारनिवृत्त्यर्थः । स्फायमानं प्रयुङ्क्ते स्फावयति । 'शदि.' (४।२।२३ ) शीयतेरगतावर्थे णौ परे शात् इत्ययमादेशः स्यात् । 'शदं शातने' शीयमानानि पुष्पाणि प्रयुते शातयति । गतौ स्विति गोपालो गाः शादयति गमयतीत्यर्थः ॥ २६ ॥
णिति घात् ॥ २७ ॥ [सि० ४।३।१००] हन्तेणिति घात् स्यात् । घातयति ॥ २७ ॥ 'णिति०' मन्तं प्रयुङ्क्ते घातयति । एवं धातः पञ् । घातकः णकः । साधुघाती णिन् । घातं घातम् ख्णम् । णिति इति किम् ? हतः ॥ २७ ॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org