________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघु
रुहः पः ॥ १९ ॥ [ सि० ४।२।१४ ]
रुहेण पो वा स्यात् । रोपयति- रोहयति वा तरुम् । 'लियो नोऽन्तः स्नेहद्रवे' (४।२।१५) घृतं विलीनयति विलाययति वा ॥ १९ ॥
'रुहः०' पो वा स्यादिति । रुहेण परतः पकारोऽन्तादेशो भवतीत्यर्थः । रोहत्यर्थे रुप्यतिर्न - ५ दृश्यते इति योगारम्भः । 'लियो०' ली इति, 'लींश् लेषणे,' 'लीड्च् श्लेषणे' अनयोः सामान्येन ग्रहणम् । लियः स्नेहद्रवेऽर्थे गम्यमाने णौ परे नोऽन्तोऽवयवो भवति । विलाययति इति वृद्धावायादेशः । लियः इतीकारप्रश्लेषादीकारान्तस्यैव भवति । कृतात्वस्य वक्ष्यमाणौ लकारपकारौ भवतः । घृतं विलालयति विलापयति । स्नेहद्रव इति किम् ? अयो विलापयति । पूर्वान्तकरणाद् व्यलीलिनदित्यत्रोपान्त्यह्रस्वो भवति । एवमुत्तरेष्वपि ॥ १९॥
१०
७७८
लीलीनोर्वा ॥ २० ॥ अनयोर्यपि खलचल्वर्जे क्विति च आद्वा स्यात् ॥
'लीङ्०' अनयोरिति लीयतेर्लिंनातेश्च ॥ यपि यथा विलाय पक्षे विलीय ॥ क्विति यथा विलाता विलेता । विलास्यते विलेस्यते । विलास्यति विलेस्यति । व्यलासीत् । व्यलैषीत् ॥ अखलचलीत्येव ईषद्विलयः, विलयः, विलयो वर्त्तते । 'यबक्किति' (४/२/७ ) इत्येव लीनः विलीनः लीयते लेलीयते १५ लिनाति । ङिलुप्ततिवो निर्देशात् यङ्लुपि न भवति लेलेति । 'लीं द्रवीकरणे' इति यौजादिकस्य च न भवति, विलयति ॥ २० ॥
३०
लोलः ॥ २१ ॥ [ सि० ४।२।१६ ]
लारूपस्य णौ स्नेहद्रवे गये लोऽन्तो वा स्यात् । घृतं विलालयति विलापयति वा । द्रव इति किम् ? जटाभिरालापयते ॥ २१ ॥
२०
'लो ल:' ला इत्यस्येति । लातेर्ली इत्यस्य च कृतात्वस्य स्नेहद्रवेऽर्थे णौ परे लोऽन्तो वा भवति । घृतं विलालयति विलापयति । घृतं व्यलीललत् । स्नेहद्रव इति किम् ? जटाभिरालापयति । श्येनो वर्त्तिकामुल्लापयते । 'लीलिनोर्चाभिभवे चाच्चाकर्त्तर्यपि ' ( ३।३।९० ) इत्यनेनात्वमात्मनेपदं च ॥ २१॥ पातेः ॥ २२ ॥ [ सि० ४।२।१७ ]
I
सि० ४२९]
२५
णौ लोऽन्तः स्यात् । पालयति । 'धूगप्रीगोर्न' ( ४ | २|१८ ) धूनयति । प्रीणयति ॥२२॥ 'पातेः' पृथग्योगाद्वेति निवृत्तम् । पातेरिति 'पांकू रक्षणे' इत्यस्य । पालयति इत्यत्र अपीपलत् इति रूपम् । 'पलण् रक्षणे' इति चौरादिकेनैव सिद्धे पातेर्योऽन्तः स्यादिति वचनम्, तिनिर्देशो धात्वन्तरनिवृत्त्यर्थः । ‘पां पाने' 'पैं शोषणे' वा पाययति यङ्लुबूनिवृत्त्यर्थश्च पापाययति ।
३२
२० ॥
'धूग पी० ' धूग् इति धृट् धूगश धूग्ण वा धूनयति । ङे अदूधुनत् । प्रीग् इति प्रीश् प्रीगण् वा प्रीणयति । अपीप्रिणत् । यौजा दिकयोर्नेच्छन्त्येके धावयति प्रापयति ॥ २२ ॥
Jain Education International
वो विधूनने जः ॥ २३ ॥ [ सि० ४।२।१९ ]
इत्यस्य विधूननेऽर्थे जोऽन्तः स्यात् । पक्षेणोपवाजयति ॥ २३ ॥
'वो' वा इत्यस्येति वांकू इत्यस्य न तु वै इत्यस्य विधूनने वृत्त्यभावात् । न च विधूनने इति
For Personal & Private Use Only
www.jainelibrary.org