SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ ७७७ प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे णिगन्तप्रक्रिया तिष्ठतेः॥१६॥ [सि० ४।२।३९] अयं भावः । तिष्ठतेरुपान्त्यस्य डे परे णावित्यकारो भवति । अतिष्ठिपत् । प्रत्यतिष्ठिपदिदं खलु तीर्थम् , रायसिंह इह वर्धमानभूः । शासनाद्विजयदेवगुरोः सद्वाचकेन विनयाद्विजयेन ॥ १ ॥ इति शत्रुञ्जयतीर्थे सहस्रकूटप्रशस्तौ'। ___ अतिष्ठिपतां अतिष्ठिपन् । तिन्निर्देशो यङ्लुब्निवृत्त्यर्थः । अतास्थपत् । योगविभागो ५ नित्यार्थः ॥ १६ ॥ सिध्यतेरज्ञाने ॥ १७॥ [सि० ४।२।११ ] अज्ञानार्थस्य सिध्यतेो स्वरस्यात् स्यात् । अन्नं साधयति । सिध्यति तत्वं निश्चिनोति तं प्रयुक्ते सेधयति तपः साधुम् ॥ १७ ॥ ___ 'सिद्धयः' अज्ञान इति किम् ? तपस्तपस्विनं सेधयति सिद्ध्यति जानीते ज्ञानविशेषमासादयति १० तं तपः प्रयुक्त इत्यर्थः स्वान्येनैवैनं कर्माणि सेधयन्ति, अस्यानुभवविशेषमुत्पादयन्तीत्यर्थः । सिध्यतेरिति किम् ? 'षिधू गत्यामिति भौवादिकस्य मा भूत् । अन्नं सेधयति । तपः सेधयति । साधिनैव सिद्धे सिद्ध्यतेरज्ञाने सेधयतीति प्रयोगनिवृत्त्यर्थं वचनम् ॥ १७ ॥ णावज्ञाने गमुः ॥ १८॥ [सि० ४।४।२४ ] अज्ञानार्थयोरिणिकोर्गमुः स्यात् । गमयति ग्रामम् । अधिगमयति प्रियम् । ज्ञाने तु १५ प्रत्याययति ॥ १८॥ ‘णावः' इणिकोरिति 'इण्क् गतौ' 'इंक् स्मरणे' इत्येतयोः । गमुरित्यत्रोकारः 'स्वरहनगमोः सनि धुटि' (४।१।१०४ ) इत्यत्र विशेषणार्थः । अज्ञान इतीणो विशेषणं नेकोऽसम्भवात् । धात्वन्तरेणैव सिद्धे णाविको ज्ञानादन्यत्रेणश्च स्वरूपान्तरनिवृत्त्यर्थं वचनम् । कथमर्थान् गमयन्ति शब्दाः ? गमिनैव सिद्धम् ॥ १८ ॥ २० १ मुनिवर्यश्रीकनकविजयप्रेषितः संपूर्णलेखस्वित्थम्-श्री सहस्रकूटनो शिलालेखः जमणी बाजुः अहम् । ए६०॥ स्वस्तिश्री संवत १७१० वर्षे ज्येष्ठ शुक्लषष्ठीतिथौ गुरुवारे उग्रसेनपुरवास्तव्य उकेशज्ञातीय वृद्धशाखीय उहाडगोत्र सा। वर्धमानभाल्हादे पु। सा मानसिंह थानसिंह रायसिंह कनकसिंह उग्रसेन ऋषभदासैः सा। जगतसिंह जीवणदासप्रमुखपरिवारयुतैः खपितृवचनात् तत्पुण्यार्थम् श्रीसहस्रकूटतीर्थ कारितम् खप्रतिष्ठायां प्रतिष्ठापितम् । तपागच्छे भा श्रीहीरविजयसूरि पट्टप्रभाकर भा श्रीविजयसेनसूरिपट्टालंकारपातिशाहि श्री जिहांगीरप्रदत्तमहातपाबिरुदधारि अनेकराजाधिराजप्रतिबोधकारि भट्टारक श्री. श्रीविजयदेवसूरीश्वर आचार्य श्री विजयप्रभसूरिनिर्देशात् श्रीहीरविजयसूरिशिष्यरत्न महोपाध्याय ५ कीर्तिविजय ग। शिष्योपाध्याय श्री विनयविजयगणिभिः प्रतिष्ठितं श्रीरस्तु ॥ श्री शत्रुजय महातीर्थ कार्यकर पंडित श्री ५ शांतिविजय गा देवविजय ग। मेघविजय गा साहाय्यतः सिद्धमिदम् सुत्रधार मनजीः डावी बाजुनोः प्रवेश करतां जमणी बाजुः ए६० ॐ नमः । प्रत्यतिष्ठिपदिदं खलु तीर्थम् रायसिंह इह वर्धमानभूः शासनाद्विजयदेवगुरोः सद्वाचकेन विनयाद्विजयेन ॥ १॥ श्रीविजयसिंहसूरिः स जयतु तपगच्छमौलिमाणिक्यं अजनिष्ट यदुपदेशात् । सहस्रकूटाभिधं। तीर्थम् ॥२॥ दिकशशिजलधिमितेब्दे १७१० सितषष्ट्यां ज्येष्ठमासि तीर्थेऽस्मिन् । अर्हबिसहस्र स्थापितमष्टोत्तरं वंदे ॥३॥ यावजयति सुमेरूस्तावजीयात् प्रकृष्टसौभाग्यः । श्रीश@जयमूर्धनि सहस्रकूटकिरीटोऽयम् ॥४॥ है. प्रका० उत्त० ९८ Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.004041
Book TitleHaim Prakash Maha Vyakaranam Uttararddham
Original Sutra AuthorN/A
AuthorKshamavijay
PublisherHiralal Somchand Kot Mumbai
Publication Year1952
Total Pages636
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy