________________
৩৩৭
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे णिगन्तप्रक्रिया
वा वेष्टचेष्टः ॥ ६॥[सि० ४१६६] 'वेष्टि वेष्टने 'चेष्टि चेष्टायाम्' अनयोर्डपरे णौ पूर्वखाद्वा स्यात् । वेष्टमानं चेष्टमानं प्रायुत अववेष्टत्-अविवेष्टत् । अचचेष्टत्-अचिचेष्टत् ॥ ६॥ 'वा वे०' स्पष्टम् । 'उपान्त्यस्यासमानलोपीति सूत्रस्य विशेषमाह ॥ ६ ॥ भ्राजभासभाषदीपपीडजीवमीलकणरणवणभणश्रणद्वे
हेठल्लुटलुपलपां नवा ॥७॥[सि० ४।२।३६ ] एषां सप्तदशानां ङपरे णावुपान्त्यस्य हखो वा स्यात् । हखे च पूर्वस्य सन्वद्भावो लघोर्दीर्घश्च । अविभ्रजत्-अबभ्राजत् । अवीभसत्-अबभासत् । अदीदिपत्-अदिदीपत् । वर्तमानं प्रायुत अवीवृतत् । ऋवर्णस्येति ऋत्वे गुणाभावः । पक्षे लघोरुपान्त्यस्येति गुणे, अववर्तत् । खापयति ॥७॥
'भ्राज.' एषां सप्तदशानामिति । 'राजग टुभ्राजि दीप्तौ' । भासि दुभ्रासि दुभ्लासि दीप्तौ' 'भासि च व्यक्तायां वाचि' 'दीपैचि दीप्तौ' 'पीडण् गहने' 'जीव प्राणधारणे' 'मील इमील क्ष्मील निमेषणे' । अणरणादिषु शब्दार्थेषु चतुर्दशसु धातुषु द्वादशद्वितीयपञ्चमषष्ठाः 'कणरणबणभण' इति चत्वारो धातवः, 'शण श्रण दाने' 'द्वेग् स्पर्द्धायाम्' 'हेठि विबाधायाम्' 'उठ रुठ लुठ उपघाते' । 'लुठत् संश्लेषणे वा' 'लुप्लंती छेदने 'रप लप जल्प व्यक्ते वचने' । भ्राजमानं भासमानं भाषमान १५ दीप्यमानं पीडयन्तं जीवन्तं मीलन्तं कणन्तं रणन्तं वणन्तं भणन्तं श्रणन्तं हयन्तं हेठमानं लोठन्तं लुप्यन्तं लपन्तं प्रायुत णौ के उपान्त्यस्य हस्खविकल्पे सर्वत्र रूपद्वयम् । अदिदीपत् इति । एवं अबीभषत् अबभाषत् । अपीपिडत् अपिपीडत् । अजिजीवत् अजीजिवत् । अमीमिलत् अमिमीलत् । अचीकणत् अचकाणत् । अरीरणत् अरराणत् । अबीबणत् अबबाणत् । अबीभणत् अबभाणत् । अशिश्रणत् । अशश्राणत् । अजूहवत् अजुहावत् । अजीहिठत् अजिहेठत् । अलूलुठत् अलुलोठत् ।२० अलूलुपत् अलुलोपत् । अलीलपत् अललापत् । बहुवचनं शिष्टप्रयोगानुसारेणान्येषामपि परिग्रहार्थम् ॥ ७॥
खपेर्यड्डे च ॥ ८॥[सि० ४।०८०] खपेर्यङि ङे किति च सखरान्तस्था वृत् स्यात् । ततो द्वित्वे लघोरुपान्त्यस्येति गुणे । हखत्वे दीर्थे च असूषुपत् ॥८॥
२५ अवीवृतत् असूषुपत् इति प्रयोगद्वयप्रक्रिया स्पष्टा ॥ ८॥ पुनरत्र धातुविशेषे प्रक्रियाविशेषमाह ।
अर्तिरीलीहीनूयिक्ष्माय्यातां पुः ॥ ९॥ [सि० ४।२।२१ ] एषामादन्तानां च णौ पुरन्तः स्यात् । अर्पयति । खरादेर्द्वितीय इति द्वित्वे, आर्पिपत् । रेपयति । 'क्रूयैङ् शब्दोन्दनयोः' 'क्ष्मायैङ् विधूनने ॥९॥
'अति' एषामिति । अति 'ऋक् गतौ' 'ऋ प्रापणे' वेत्यनयोर्ग्रहणं सामान्यतो निर्देशात् ३० आरतं प्रयुङ्क्ते अर्पयति । तिव् निर्देशे यङ्लुपि 'रिरौ च लुपि' (४।१।५६) इति रागमो रिः रीर्वा । तत आरतं अरिग्रतं अर्थतं वा प्रयुते णौ प्वागमाभावे अरारयति अरियारयति अर्यारयति । रीति ३२
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org