________________
७७४
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञ हैमलघु
च्यवत् अचुच्यवत् । अन्यस्य न भवति । अनूनवत् अजूहवत् । लघुनीति किम् ? अततक्षत् अबभाणत् अचिक्कनत् अचिक्रमदित्यादौ अनेकव्यञ्जनव्यवधानेऽपि स्थादीनामित्त्वबाधकस्यात्त्वस्य शासनात्सन्वद्भावो भवति, न तु स्वरव्यञ्जनव्यवायेऽपि तेन अजजागरत् । णावित्येव अचकमत । असमानलोप इति किम् ? अचकथत् । दृषद्माख्यत् अददृषत् । पटुं लघुं कपिं हरिं चाख्यत् अपी५. पटत् अलीलघत् अचीकपत् अजीहरदित्यादौ तु वृद्धौ कृतायां सन्ध्यक्षरलोप इत्यसमानलोपित्वात्सन् - वद्भावः । णाविति जात्याश्रयणाद्वादितवन्तं प्रयोजितवान् अवीवदद्वीणां परिवादकेन । यद्यप्यत्र लोपोऽभूत्तथापि न समानलोपः । यतो णाविति जात्यामेकवचनम् । ततश्च यः कश्चित् णिग् स सर्वोऽपि निमित्ततयोपात्तः । अतः स लुप्तोपि निमित्तमेव । एवमपीपठन्माणवकमुपाध्यायेन ||२|| परोक्षाया आमादेशे सूत्रम्
आमन्तात्वानावय् ॥ ३ ॥ [ सि० ४।३।८५ ]
एषु पञ्चसुरय् स्यात् । भावयामास ६ । भान्यात् ७ । भावयिता ८ ।। भावयते ४ । अभवत ५ ।। पाचयति ४ । अपीपचत् ५ । पाचयते ४ । अपीपचत ५ ।। कारयति ४ । अचीकरत् ५ । कारयते ४ अचीकरत ५ ॥ रावयति ४ । अरीवत् ५ ॥ लावयति ४ । अलीलवत् ५ || पावयति ४ । अपीपवत् ५ ।। शासयति ४ । अशशासत् ५ ।। 'ढोकर गतौ' १५ ढौकमानं प्रयुङ्क्ते ढौकयति ४ । अडढौकत् ५ । शास्वदितो वर्जनात् हस्वनिषेधः । राजयति ४ । अरराजत ५ । स्मरन्तं प्रयुङ्क्ते ॥ ३ ॥
१०
'आम० ' एषु पश्चस्विति आम अन्त आलु आय्य इनुषु । तत्र आम् परोक्षायाः, शेषा औणादिकाः । यथा गण्डयन्तो मेषः । गण्डयते प्रसाधकः । स्पृहयालुः स्पृहावान् । गृहयालुर्ग्रहणशीलः । गृहयालुः करलीलया श्रियः । स्पृहायाय्यः स्पृहावान् । महयाय्यः अश्वमेधः । स्तनयित्नुर्गदाय - २० नुश्च मेघः ॥ ३ ॥ अत्र विशेषसूत्रम् ।
घटादेखो दीर्घस्तु वा ञिणम्परे ॥ ४ ॥ [ सि० ४।२।२४ ] घटादीनां णौ ह्रस्वः स्यात् ञिणम्परे तु णौ वा दीर्घः । स्मरयति ४ । ॥ ४ ॥
'घटा०' स्मरयतीति । इह च घटादीनामनेकार्थत्वेऽपि पठितार्थेष्वेव घटादिकार्यविज्ञानम् । तेन स्मृ आध्याने इत्यस्य घटादित्वात् ह्रस्वे स्मरयति । : ' चिन्ताया' मित्यस्य तु घटादित्वाभावात् २५ह्रस्वाभावे स्मारयतीति रूपं स्यात् । घटादयश्च प्रागुक्ता एव ॥ ४ ॥ अत्र विशेषमाह
स्मृदृत्वरप्रथम्रदस्तृस्पशेरः ॥ ५ ॥
Jain Education International
[ सि० ४। १ । ६५]
एषां उपरे णौ द्वित्वे पूर्वस्यात् । असस्मरत् ॥ ५ ॥
'स्मृदृ ०' एषामिति 'स्ट्रं चिन्तायाम् ' 'स्मृ आध्याने' वा 'दृश् विदारणे' 'बिवरिष् संभ्रमे' ‘प्रथिष् प्रख्याने’ ‘श्रदिष् मर्द्दने' 'स्तृग्शू आच्छादने' 'स्पशि' रिति सौत्रो धातुः । स्मरन्तं दृणन्तं ३० चरमाणं प्रथमानं ब्रद्मानं स्तृणन्तं स्पशन्तं प्रयुङ्क्ते 'प्रयोक्तृ० ' ( ३।४।२० ) णिग् । ततोऽद्यतन्यां ङे सन्वद्भावापवादे पूर्वस्य अत्वे असस्मरत् अददरत् । अत्र परत्वाद्दीर्घोऽपि न भवति ।
३२ अपप्रथत् अमम्रदत् अतस्तरत् अपस्पशत् ॥ ५ ॥ अत्र विशेषमाह
For Personal & Private Use Only
www.jainelibrary.org