________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे णिगन्तप्रक्रिया
७७३
। अथ णिगन्तप्रक्रिया।।
एवं चैषां धातूनां स्वतश्रकर्तृकक्रियाप्रक्रिया निरूप्य प्रयोजकपरतत्रकर्तृकक्रियाप्रक्रियां निरूपयितुमाह ।
प्रयोक्तृव्यापारे णिग् ॥१॥ [सि० ३।४।२०] कुर्वन्तं यः प्रयुङ्क्ते तव्यापारे वाच्ये धातोर्णिग् वा स्यात् । गकार उभयपदार्थः । णकारो५ वृद्ध्यर्थः । भवन्तं प्रयुङ्क्ते नामिनोऽकलिहलेरिति वृद्धौ, भावयति ४ । भवन्तं प्रायुत णिश्रीति डागमे उपान्त्यस्याऽसमानलोपीति हस्खे, णौ यत् कृतं कार्य तत्सर्व स्थानिवद्भवतीति न्यायात् , भू इति द्वित्वे हखत्वे भूभवि इति स्थिते ॥१॥
'प्रयो' तद्व्यापारे वाच्ये इति, व्यापारश्च प्रेषणाध्येषणनिमित्तभावाख्यानाभिनयज्ञानप्राप्तिभेदैरनेकधा । तत्र तिरस्कारपूर्वको व्यापारः प्रेषणम् । सत्कारपूर्वकस्त्वध्येषणं ॥ पचन्तं प्रयुङ्क्ते पाच-१० यतीत्यत्र प्रेषणाध्येषणेन वा यथासम्भवं प्रयोक्तृत्वम् ।। वसन्तं प्रयुक्ते वासयति भिक्षा अत्र निमित्तभावेन ॥ राजानमागमयति रात्रि विवासयति कथकः अत्राख्यानेन, आख्यानेन हि बुद्ध्यारूढा राजादयः प्रयुक्ताः प्रतीयन्ते ॥ कंसं घातयति बलि बन्धयति नटः, अत्राभिनयेन तथा सरसमभिनयति यथा कंसवधाय बन्धनाय वाऽयमेव नारायणं प्रयुङ्क्ते इति श्रोतुः प्रतीतिर्भवति ॥ पुष्पेण चन्द्र योजयति गणकः अत्र ज्ञानेन ॥ उज़ यिन्याः प्रदोषे प्रस्थितो माहिष्मत्यां सूर्यमुद्गमयति, रैवतका-१५ प्रस्थितः शत्रुञ्जये सूर्य पातयति । अत्र प्राप्त्या ॥ ननु कर्त्तापि करणादीनां प्रयोजक इति तद्व्यापारेऽपि णिग् प्राप्नोति । कटं करोतीत्यत्र जायमानं जनयतीत्यर्थप्रतीतेः । नैवम् । प्रयोक्तृग्रहणसामर्थ्यात् कर्तारं यः प्रयुङ्क्ते तस्यैव व्यापारे णिग् । यदि च व्यापारमात्रे णिग् स्यात् तदा व्यापारे णिग् इत्येवोच्येत । तथा क्रियां कुर्वन्नेव कर्ताभिधीयते तेन तूष्णीमासीने प्रयोज्ये मां पृच्छतु भवानित्यत्र णिग् न स्यात् । पञ्चम्या बाधितत्वाद्वा । अयं भावः । सव्यापारेपि प्रयोज्ये पदत्वात् 'प्रैषानुज्ञावसरे०'२० (५।४।२९) इति विहितया पश्चम्या णिग् बाध्यते । तर्हि पाचयतीत्यादावपि पश्चमी प्राप्नोति । नैवम् , प्रैषरूपे प्रयोक्तृव्यापारे णिग्, प्रैषविशिष्टे कर्तरि तु वाच्ये पञ्चमी भवतीति विवेकात् । प्रक्रिया सर्वा स्पष्टा । ऊ परे णौ भूभवि स्थिते इति ॥ १॥ अत्रोपयोगिसूत्रम् ।
__ असमानलोपे सन्वल्लघुनि २ ॥ २॥ [सि० ४।१।६३] नास्ति समानलोपो यत्र तसिन् ङपरे णौ द्वित्वे पूर्वस्य लघुनि धात्वक्षरे परे सनीव कार्य २५ स्यात् । यथा अवर्णान्ते जान्तस्थापवर्गे परे सनि पूर्वस्य ओरिः स्यात् । यथा च सनि पूर्वस्यात इ: स्यात्तथात्रापि । ततो लघोर्दी!ऽखरादेरिति दीर्घे, णेरनिटीति णिलोपे, अवीभवत् ५। ॥२॥
'अस.' अबीभवत् इति । एवं अजीजवत् अयीयवत् अरीरवत् । अलीलवत् अपीपवत् अमीमवत् । सनि 'श्रु द्रुशुप्लुच्योर्वा' (४।१।६१) इत्युक्तमिहापि तथा अशिश्रवत् अशुश्रवत् , असिस्रवत् असुस्रवत्, अविद्रवत् अदुद्रवत् , अपिप्रवत् अपुप्रवत्, अपिप्लवत् अपुप्लवत्, अचि-३१
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org