________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे चुराधन्तर्गता युजादयः परस्मैपदिनः ७७१ संदीपने' इत्येके । चर्तयति चर्तति । दर्पयति दर्पति । आप्लण लम्भने' लम्भनं प्राप्तिः । आपयति आपति । लदित्त्वादङि आपत् । क्ते आपितम् । 'वाप्नोः' (४।३१८७) इति यपि णेर्वाय् अस्यापीयेके । प्रापय्य प्राप्य वा गतः । इति पान्तात्रयः । 'भैण् भये' दर्भयति दर्भति । ऐदित्वात् क्तयोर्नेद् दृब्धः २ । इति भान्तः । 'ईरण क्षेपे'। गतावित्येके । ईरयति ईरति । इति रान्तः । 'मृषिण तितिक्षायाम्' मर्षयति । पक्षे इदित्त्वादात्मनेपदे मर्षते । 'भूषण क्षान्तौ' अदन्तः मृषयति, णिचोऽ-५ नित्यत्वात् मृषति अदन्तत्वान्न गुणः । अर्चि अर्दि शुन्धि तपि वदि मृषयः षडपि परस्मैपद इति भीमसेनीयाः।"शिषण सर्वोपयोगे उपयोग उपयुक्तत्वं इति धातुपारायणे । 'शिषण असर्वोपयोगे' अनुपयुक्तत्वे इति क्रियारत्नसमुच्चये। शेषयति शेषति । विपूर्वोऽतिशये अतिशय उत्कर्षः । विपूर्वः शिषिरतिशये विशेषयति विशेशति । क्ये विशिष्यते । सिचि व्यशेषीत् 'शिष्लंपू विशेषणे' विशिनष्टि । व्यशिषत् । 'जुषण् परितकणे' परितर्पण इत्येके । जोषयति जोषति ।१० 'धृषण् प्रसहने' प्रसहनमभिभवः । धर्षयति धर्षति । ऋदुपान्त्यादिति क्यपि प्रधृष्यम् । आदिदयमित्येके । तन्मते 'नवा भावारम्भे' (४।४।७२) इति क्तयोर्वा नेट् प्रधृष्टमनेन न डीङिति कित्त्वाभावे प्रधर्षिमनेन प्रधृष्टः २ प्रधर्षितः २ । इति षान्ताश्चत्वारः ४ । 'हिसुण् हिंसायाम् उदित्त्वान्ने हिंसयति हिंसति । इति सान्तः । गर्हण निन्दने' गर्हयति गर्हति । 'गर्हि कुत्सने' गर्हते। पहण्धातुं (पृष्ठ ७६९) पाठतो निरूपयति । षहण 'षः स०' (२।३।९८) इति सत्वे साहयति ।१५ 'सहति कलभेभ्यः परिभवम्' । 'षहि मर्षणे' सहते । इति हान्तौ । इति युजादयश्चत्वारिंशत् ॥ ४०॥
बहुलमेतन्निदर्शनम्।
यदेतद्भवत्यादिधातुपरिगणनं तद्बाहुल्येन निदर्शनत्वेन ज्ञेयम् । तेनात्रापठिता अपि कुविप्रभृतयो लौकिकाः, स्तम्भूप्रभृतयः सौत्राथुलुम्पादयश्च वाक्यकरणीया धातव उदाहार्याः । वर्द्धते हि धातुगणः । यल्लक्ष्यम् ।
मिलन्त्याशासु जीमूता विक्लवन्ते दिवि ग्रहाः। उपक्षपयति प्रावृट् क्षीयन्ते कामिविग्रहाः ॥ १॥ इत्यादि । मुसलक्षेपहुंकारस्तोभैः कलमखण्डिनि । कुचविष्कम्भमुत्तम्भन्निस्कुन्नातीव ते स्मरः ॥ २ ॥ नीपानन्दोलयन्नेष प्रेङ्खोलयति मे मनः ।
पवनो वीजयन्नाशा ममाशामुचुलुम्पति ॥ ३ ॥ तावत् खरः प्रखरमुल्ललयाञ्चकार ।
यद्वा बहुलमेतन्निदर्शनमित्यस्यायमर्थः । भूवादिगणाष्टकोक्ताः स्वार्थणिजन्ता अपि बहुलं भवति, चुरादिपाठस्तु निदर्शनार्थः । यदाहुः ।
'निवृत्तप्रेषणाद्धातोः प्र( प्रा ? )कृतेऽर्थे णिजिष्यते' । रामो राज्यमकारयत् । अकरोदित्यर्थः ।३० रञ्जयति वस्त्रं रजतीत्यर्थः । भेदयति कृत्यान् भिनत्तीत्यर्थः । तापयति वाचयति वायति घातयति।। तपति वक्ति वहति हन्तीत्यर्थः ।
३२
२०
१ मुद्रितप्रतौ तु क्रियारत्नसमुच्चयसादृश्यं दृश्यते-संपादकः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org