________________
७७०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुशीकति । जे अशीशिकत् । 'शीक सेचने' शीकते । णिगि डे ऋदित्त्वात् ह्रस्वाभावे अशिशीकत् । इति कान्तौ 'मार्गण अन्वेषणे' मार्गयति मार्गति । अमार्गीत् । इति गान्तः । 'पृचण् पर्चने' संपर्चयति संपर्चति । यडि परीपृच्यते । 'रिचण् विरेचने च' चकारात्संपर्चने । रेचयति रेचति । 'वचण भाषणे' संदेशने इत्येके । वाचयति वचति । यजादीत्यत्र यौजादिकस्या५ग्रहणाद् वृदभावे 'क्ये वच्यते । उ अवीवचत् । 'वचं भाषणे' वक्ति । क्ये उच्यते । 'अर्चिण् पूजायाम्' अर्चयति । पक्षे इदित्त्वादात्मनेपदे शवि अर्चते। 'अर्च पूजायाम्' अर्चति । इति चान्ताश्चत्वारः । 'वृजैण वर्जने' वर्जयति वर्जति । क्ये वय॑ते । वृज्यते । डे अववर्जत् अवीवृजत् । अवर्जीत् अवर्जिष्टाम् अवर्जि अविर्जिषाताम् अवर्जयिषाताम् । वर्जयाञ्चकार । ववर्ज
ववृजतुः । ववर्जिथ ववर्जिम । वात् वृज्यात् । वर्जयिष्यति वर्जिष्यति । वरीवृज्यते । व रिरी १० र वृजीति । वर्जयित्वा वर्जित्वा । ऐदित्त्वाक्तयोर्नेट् अपवृक्तः २ । घनि वर्गः । 'मृजौण शौचाल
कारयोः' । 'मृजोऽस्य.' (४।३।४२) इति वृद्धौ मार्जयति । 'णिवेत्ति०' (५।३।१११) इत्यने मार्जना । क्ते 'सेट्क्तयोः' (४।३।८४) इति णेलुकि मार्जिता रसाला । मर्जितेति रूढेः । पक्षे मार्जति । औदित्त्वाद्वेट् मार्जिता मार्टा । वेट्त्वात् क्तयोर्नेट् मृष्टः २ । इति जान्तौ २ । 'कठुण्
शोके' औदित्त्वान्ने कण्ठयति उत्कण्ठयति । कण्ठति उत्कण्ठति । इति ठान्तः। 'श्रन्थ ग्रन्थ १५सन्दर्भ' सन्दर्भो बन्धनम् । श्रन्थयति श्रन्थति । ग्रन्थयति ग्रन्थति । 'ऋथ अर्दिण् हिंसायाम्
क्राथयति । चौरस्योत्क्राथयति । 'स्मथ कथ क्रथ क्लथ हिंसाः ' णिगि घटादित्वात् हवे चौरमुत्क्रथयति । अथ लाघवार्थ थान्तमध्ये एवार्थानुगुण्येन दान्तः । अर्दि इदित्त्वस्य णिजभावे आत्मनेपदे सार्थकत्वाणिचि परस्मैपदे अर्दयति । पक्षे अर्दते । परस्मैपद्ययमित्येके । अर्दति । 'श्रथण् बन्धने च' चकारात् हिंसायाम् । मोक्षणे इत्येके । श्रथयति श्राथयति अथति । अयं २० 'श्रन्थः हिंसार्थ' इत्यन्ये । श्रन्थयति श्रन्थति । इति थान्ताश्चत्वारः ४ । 'वदिण भाषणे संदेशने इत्येके । वादयति संवादयति । पक्षे इदित्त्वादात्मनेपदे वदते क्ये वद्यते । 'वद व्यक्तायां वाचि' वदति । यजादित्वात् य्वृति उद्यते । 'छदण अपवारणे' छादयति । 'छदण संवरणे' । ऊर्जने घटा. दित्वात् हस्खे छदयति । 'आङः सदण गतौ' । आङः परः सद इत्ययं धातुर्गतावर्थे युजादिः ।
आसादयति आसीदति । आसदतीत्येके । अनुस्वारेत्त्वान्नेडियन्ये । आसत्ता। आसात्सीत् । २५आडोऽन्यत्र सीदति गतेरन्यत्र सीदति । 'ष, विशरणादौ' असदत् । 'मृदण् संदीपने' छर्दयति
छर्दति । 'कृतचूत०' (४।४।५०) इत्यत्र तृदसाहचर्येण रुधादेरेव ग्रहणात्सादाविड्विकल्पाभावे छर्दिष्यति । ऐदिदयमित्यमित्येके 'डीयश्यैदितः क्तयोः' (४।४।६१ ) नेट् कृण्णः २ । इति दान्ताश्चत्वारः । 'शुन्धिण् शुद्धौ' शुन्धयति शुन्धते । अनिदिदियेके शुन्धति । क्ते शुन्धितम् । इति
धान्तः । 'तनूण श्रद्धाघाते' श्रद्धोपकरणयोरित्यन्ये । तानयति तनति । क्त्वि उदित्त्वाद्वेट् तान्त्वा ३० तनित्वा । वेदत्वात् क्तयोर्नेट नितान्तः २ । 'तन्व्यधीण्श्वसातः' (५।१।६४) णे तानः श्रद्धाहीनो
जनः । उपसगाईये उपसर्गपूर्वस्तनू दैये युजादिः । आतानयति वितानयति प्रतानयति । आतनति वितनति प्रतनति। 'वन श्रद्धोपहिंसनयोरिति चान्द्रं पारायणम् । 'मानण् पूजायाम्' । मानयति
मानति । अयं मनणित्येके । मनति । इति नान्तौ । 'तपिण् दाहे' तापयति । पक्षे इदित्त्वादात्मने३४ पदे । तपते । 'तृपण प्रीणने' संदीपन इत्येके । तर्पयति तर्पति । क्ते तृपितम् । अयं 'चूतण् हपण
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org