________________
७६९
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे चुराधन्तर्गता युजादयः परस्मैपदिनः
युजादेर्न वा ॥ ८॥[सि० ३।४।१८] एभ्यो णिज् वा स्यात् । 'युजण् संपर्चने' योजयति योजति १० । 'षहण मर्षणे' साहयति सहति १०॥८॥ इति श्रीमहोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्रीविनयविजयगणिविरचितायां
हैमलघुप्रक्रियायां चुरादयः समाप्ताः। _ 'युजा०' स्पष्टम् । इह युजादीनां नियतो णिविकल्पः, चुरादीनां तु यथादर्शनं णिजनित्य इति णिज्विकल्पपक्षे शव योजति । क्ये योज्यते [युजिच् समाधौ ] युज्यते । अद्यतन्यां ले उपान्त्यहवे अयूयुजत् । अयोजीत् अयोजिष्टां अयोजिषुः । णिजि इटि अयोजयिषाताम् । मिटि णिजभावे इटि च अयोजिषाताम् अयोजिषत । अयोजयिषत । योजयाश्चकार । युयोज युयुजतुः । योज्यात् युज्यात् । योजयिषीष्ट योजिषीष्ट । योजयिता योजिता । योजयिष्यति योजयिष्यते योजिष्यति १० योजिष्यते । भावकर्मणोरात्मनेपदम् । युयोजयिषति । 'वौ व्यञ्जनादेः' (४।३।२५) इति क्त्वासनोर्वा कित्त्वे युयोजिषति युयुजिषति । णिजभावे यङ् भवति । योयुज्यते योयुजीति योयोक्ति योयुक्तः योयुजति । णिगि योजयति । के अयूयुजत् । योजयत् योजन् । योज्यमानम् युज्यमानम् । योजयिष्यन् योजिष्यन् । योजयाञ्चकृवान् । ययुज्वान । प्रयोजितः २ तवान् । योजयित्वा योजित्वा युजित्वा । प्रयोज्य प्रयुज्य । योजयिता योजिता । योजनीयम् । योज्यम् । 'लीण द्रवीकरणे' 'लियो १५ नोऽन्तः०' (४।२।१५) इति नेन्ते घृतं विलीनयति । पक्षे 'नामिन०' (४।३५१) इति वृद्धौ विलाययति । 'लीक्लिनोर्वा' (४।२।९) इति वात्वमस्यापीयेके । तन्मते 'लो ल' (४।२।१६) वा ले विलालयति विलापयति । 'लीङ्लीनोर्चाभिभवे चाचाकर्तर्यपि' (३।३।९०) इत्यात्मनेपदमात्वं चास्यापि णिच्यपीत्येके कस्त्वामुल्लापयते आलापयते । णिजभावे विलयते । क्ये विलीन्यते । विलाय्यते । अन्यमते विलाल्यते विलाप्यते । विलीयते । उ व्यलीलिनत् व्यलीलयत् । व्यलीललत् ।२० व्यलीलपत् । व्यलीनि व्यलायि व्यलालि । व्यलापि । व्यलायि । इटि व्यलीनयिषाताम् व्यलाययिषाताम् व्यलालयिषाताम् व्यलापयिषाताम् व्यलयिषाताम् । मिटि गेलुंकि व्यलीनिषातामित्यादि । व्यलायिषाताम् । विलीनयाञ्चकारेत्यादि । विलिलाय विलिल्यतुः । विलिलनियिषति । विलिलायिषति विलिलयिषति । अणिचि यङि वेलेलीयते विलेलयीति विलेलेति । विलीनितः, विलायितः विलयितः । विलीन्य विलाय्य विलीय । विलीनयिता विलायिता विलयिता । 'लीच श्लेषणे' लीयते ।२५ 'लीश् श्लेषणे' लिनाति । 'मीण मौ' मतिर्मननम् , गतावित्यन्ये, । माययति मयति । 'प्रीगण तर्पने' गित्त्वस्य णिजभावे फलवकर्तर्यात्मनेपदार्थत्वाणिचि 'धूम्प्रीगो०' (४।२।१८) रिति नेन्ते 'शेषात्०' (३३३३१००) इति परस्मैपदे प्रीणयति । श्यादेरेव नमिच्छन्त्येके तन्मते 'नामिन०' (४।३।५१) इति वृद्धौ प्राययति, पक्षे प्रयते प्रयति । इति त्रय ईदन्ताः । 'धूग्ण कम्पने 'धूरप्रीगोर्नः' (४।२।१८) इति ने धूनयति । नं नेच्छन्त्येके धावयति । पक्षे गित्त्वादुभयपदप्राप्तौ धवते ३० धवति । इति ऊदन्तः । 'ग्ण आवरणे' वारयति । पक्षे गित्त्वादुभयपदे वरते वरति । इति ऋदन्तः । 'ऋण वयोहानौ' जारयति । 'णिवेत्ति०' (५।३।१११) इत्यने जारणा । पक्षे जरति । नीति नन्दी । प्राययति यति इति धातुपारायणे 'जष्च जरसि' जीर्यते 'जष् वयोहानौ' जृणाति इति ऋदन्तः। 'चीक शीकण आमर्षणे' चीकयति चीकति । शीकतिस्ताळव्यादिः शीकयति ।३४
है. प्रका० उत्त० ९७
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org