________________
७६८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुरहयति । डे अररहत् । अलि विरहः । 'रह त्यागे' रहति । णिगि राहयति । 'रहण गौ' । उदित्त्वान्ने रहयति । अदन्तत्वबलात् 'अतः' (४।३।८२) इति लुकं बाधित्वानुपान्त्यस्याप्यतो 'ब्णिति' (४।३।५०) इति वृद्धौ ‘अतिरी.' (४।२।२१) इति पौ रंहापयति । 'रहु गतौ' रहति । 'स्पृहण ईप्सायाम्' 'स्पृहेाप्यं वा' (२।२।२६) इति व्याप्यस्य वा सम्प्रदानत्वे पुष्पेभ्यः ५स्पृहयति । अकर्मकत्वात् गत्यर्थेति कर्तरि क्ते पुष्पेभ्यः स्पृहितो मैत्रः । पक्षे पुष्पाणि स्पृहयति । कर्मणि क्ते पुष्पाणि स्पृहितानि मैत्रेण । डे अपस्पृहत् । ‘शीङश्रद्धा०' (५।२।३७) इत्यालौ 'आमन्त०' (४।३।८५) इति णेरयि स्पृहाशीलः स्पृहयालुः । 'भीषिभूषि०' ( ५।३।१०९) इत्यडि स्पृहा । उणादौ श्रुदक्षि० (३७३) इत्याय्ये स्पृहयाय्यं घृतम् । इति हान्ताः पञ्च ५ । 'रूक्षण
पारुध्ये' रूक्षयति । डे अरुरूक्षत् । अचि रूक्षः । अनदि रूक्षणम् । क्त्वो यपि विरूक्ष्य । इति १०क्षान्तः । * इत्यदन्ताः परस्मैपदिनो ब्यशीतिः ८२ । *
अथादन्तेष्वेव कुहणिमभिव्याप्यात्मनेपदिनः । 'मृगणि अन्वेषणे' मृगयते । 'मृगयेच्छा.' (५।३।१०१) इति शे निपातनात् मृगया । क्ते मृगितम् । इति गान्तः । 'अर्थणि उपयाचने' । अर्थयते । पूर्वाचार्यानुरोधाददन्तेष्वस्य पाठः। एवं सत्रिगर्योरपि । केचिददन्तपाठबलादतो लुकं बाधित्वोपान्त्यस्यापि 'णिति' (४।३।५० ) वृद्धौ ‘अतिरी०' (४।२।२१) इति पौ अर्थापयते १५ सत्रापयते । गर्वापयते इत्याहुः । उ अर्तिथत । सनि आतिथयिषते । क्ते अर्थितम् । अलि अर्थः । 'णिवेत्ति०' (५।३।१११) इत्यने प्रार्थना । इति थान्तः । 'पदणि गतौ' पदयते । उ अपपदत् । इति दान्तः । 'संग्रामणि युद्धे' संग्रामयते शूरः । असंग्रामयत । सनि अषोपदेशत्वात्पत्वाभावे सिसंग्रामयिषते । अलि 'पुन्नानि०' (५।३।१३०) इत्याधारे घे वा संग्रामः । क्त्वि संग्रामयित्वा ।
अयं परस्मैपदीत्येके संग्रामयति । इति मान्तः । 'शूर वीरणि विक्रान्तौ' । शूरयते । डे अशु२० शूरत् । अचि शूरः । 'शूरैचि स्तम्भे' शूर्यते णिगि डे अशुशूरत् ॥ वीरयते । अचि वीरः। 'य
एञ्चातः' (५।१।२८) इति भावे ये वीर्यम् । 'सत्रणि संदानक्रियायाम्' सन्तानक्रियायामित्येके । सत्रयते शत्रून् । डे अससत्रत् । अषोपदेशत्वात्षत्वाभावे सिसत्रयिषते । इति रान्तास्त्रयः ३ ॥ 'स्थूलणि परिबृंहणे' । परिबृंहणं पीनत्वम् । स्थूलयते । डे अतुस्थूलत् । सनि अषोपदेशत्वात्पत्वा
भावे तुस्थूलयिषते । अचि स्थूलः । इति लान्तः । 'गर्वणि माने' गर्वयते । अजगर्वत् । अलि गर्वः । २५ इति वान्तः । 'गृहणि ग्रहणे' गृहयते । डे अजगृहत् । 'शीशद्धा' (५।२।३७) इत्यालौ
गृहयालुः करलीलया श्रियः । ते गृहितम् । 'कुहणि विस्मापने' कुहयते । अचुकुहत् । णके, कुहकम् । भिदाधङि कुहा नाम नदी । 'णिवेत्ति०' (५।३।१११) इत्यने कुहना दम्भचर्या । उणादौ मिवमि० (५१) इत्युके कुहुकं आश्चर्यम् । पृकाहृषि० (७२९) इति किदुः कुहुः नष्ट
चन्द्रामावास्या । नृतिशृधिरुषिकुहिभ्यः० (८४४) किदूः कुहूः सैव । 'सा नष्टेन्दुः कुहुः कुहूरि३० त्यभिधानचिन्तामणी । इति हान्तौ।
इत्यदन्ता आत्मनेपदिन ११ इत्यदन्ता धातवस्त्रिणवतिः ९३ ॥ ७ ॥ ३२ युजण् संपर्चने इति । अथ विकल्पितणिचो युजादयस्तत्र सूत्रम्
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org