________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे चुरादयोऽदन्ताः परस्मैपदिनः
७६७ १११) इत्यने चित्रणा । 'छिद्रण भेदे' छिद्रयति । डे अचिच्छिद्रत् । अचि छिद्रम् । "मिश्रण संपर्चने' संपर्चनं श्लेषः । मिश्रयति । डे अमिमिश्रत् । अचि मिश्रः । 'वरण ईप्सायाम्' वरयति कन्याम् , डे अववरत् । 'स्वरण आक्षेपे' स्वरयति असवरत् । आक्षेपादन्यत्र 'औस्वृ शब्दोतापयोः' स्वरति । णिगि स्वारयति । 'शारण दौर्बल्ये' तालव्यादिः । शारयति । डेः अशशारत् । शरेति नन्दी अशशरत् । 'कुमारण क्रीडायाम्' । कुमारयति । डे अचुकुमारत् । अचि कुमारः,५ कुत्सितो मारोऽस्येति कमेरत उच्च (४०९) इत्यारे कामयते । इति त्रयोदश रान्ताः । १३ । लान्तोऽयमित्येके । कुमालयति । 'कलण सङ्ख्यानगयोः । कलयति । ङे अचकलत् । 'कलि शब्दसङ्ख्यानयोः' कलते । णिगि कालयति । 'कलंण क्षेपे' कालयति गाः । 'शीलण उपधारणे' उपधारणमभ्यासः परिचयो वा । शीलयति । उ अशिशीलत् 'वेल कालण् उपदेशे' वेलयति । डे अविवेलत् । अचि वेला । काल कालयति । उ अचकालत् । कालोपदेश इत्यर्थनिर्देश इत्येके ।१० 'पल्यूलण् लवनपवनयोः' पल्यूलयति । जे अपपल्यूलत् पल्पूलेत्येके। वल्यूलेत्यन्ये । पप्पूलेय. परे । इति लान्ताश्चत्वारः । 'अंशण समाघाते' समाघातो विभाजनम् अंशयति रिक्थम् । अलि अंशः । चन्द्रो दन्त्यान्तमाह । व्यसयति मयूरव्यंसकः । इति शान्तः । 'पषण अनुपसर्गः' । पषण इत्ययं धातुरनुपसर्गो णिचमुत्पादयति । पषयति अपपषत् । गत्यर्थोऽयमित्येके । अनुपसर्ग इति किम् ? प्रपषति [ 'पषी बाधनस्पर्शनयोः' पषते पषति । 'पषण बन्धने' पाषयति ] तालव्यान्तोऽयमि-१५ येके । केचित्त्विमं तालव्यान्तमधीत्य व्याचक्षते पशेतिधातुरा निर्देशात् भ्वादिश्शुरादिश्च । अनुपसर्गश्चरादिरदन्तः [पशयति । अनुपसर्ग इति किम् ? प्रपशति ] तालव्यान्त एव वादन्त इत्यन्ये । पशयति पाशयति । 'गवेषण मार्गणे' गवेषयति । डे अजगवेषत् । अनटि गवेषणम् । 'मृषण क्षान्तौ क्षान्तिस्तितिक्षा । मृषयति । के अममृषत् । अनटि मृषणम् । 'मृषीच तितिक्षायाम्' मृष्यति मृष्यते । 'मृषण् तितिक्षायाम्' 'युजादेः०' (३।४।१८) इति वा णिचि मर्षयति मर्षति । इति २० षान्तात्रयः ३ । 'रसण आस्वादनस्नेहयोः' । रसयति । डे अररसत् । अलि रसः । उणादौ स्वसिरसि० (२६९) इत्यने रसना । 'रस शब्दे' रसति । णिगि रसयति । घनि रासः। 'वासण उपसेवायाम्' वासयति । उ अववासत् । णके वासकः । 'णिवेत्ति०' (५।३।१११) इत्यने वासना । 'वसण स्नेहादौ' वासयति । के अवीवसत् । 'निवासण् आच्छादने' निवासयति । उ अनिनिवासत् । सनि निनिवासयिषति । क्त्वि वासयित्वा । निपूर्वस्य वासण् इत्यस्य डे न्यववा-२५ सत् । क्त्वो यपि निवास्य । इति सान्तास्त्रयः ३ । 'चहण कल्कने' कल्कनं दम्भः । चयति । डे अचचहत् । भिणम्परे तु णिचि 'चहणः शाठ्ये (४।२।३१ ) इति वा दीर्घ अचाहि अचहि । चाहं चाहम् , चहं चहम् । 'चह कलकने' चहति । णिगि चाहयति । उ अचीचहत् । 'महः पूजायाम्। महयति । डे, अममहत् । 'पुन्नाम्निः' (५।३।१३०) इति धे महः उत्सवः । गौरादित्वात् त्यां मही । 'मह पूजायाम्' महति । उणादौ महेर्णिद्वा (२८५) इतीने महिनं राज्यम् [भ्वादेस्तु ]३० माहिनं तदेव । श्रुदक्षि० (३७३) इत्याय्ये 'आमन्त०' (४।३।८५) इति णेरयि महयाय्यः अश्वमेधः । मह्यविभ्यां टित् (५४७) इतीषे महिषः सैरिभो राजा च । महिषी सैरिभी राजपत्नी च । खरेभ्य० (६०६) इति इ. महिः । द्वहिवृहि० (८८४) इति कतरि महान् । 'रहण त्यागे'३३
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org