________________
७६६
महामहोपाध्याय श्री विनय विजयगणिविरचिते खोपज्ञहै मलघु
श्रथयति । 'श्रथणू बन्धने च ' 'युजादे: ० ' ( ३|४|१८ ) इति वा णिचि श्राथयति श्रथति । 'श्रथुङ् शैथिल्ये' श्रन्थते । इति थान्तौ 'छेदण् द्वैधीकरणे' छेदयति । ङे अचिच्छेदत् । क्ते छेदितम् । क्त्वो यपि विच्छेद्य । 'गदणू गर्जे' गर्जो मेघशब्दः, गदयति । ङे अजगदत् । 'गद्' व्यक्तायां वाचि' गदति । णिगि गादयति । ङे अजीगदत् । इति दान्तौ । 'अन्धण् दृष्ट्युपसंहारे ' अन्धयति । सनि ५'न बदन ० ' ( ४|१|५ ) इति नस्य द्वित्वाभावे घेरेव द्वित्वे अन्दिधयिषति । इति धान्तः । 'स्तनण् गर्जे' गर्जो मेघशब्दः । स्तनयति । ङे अतस्तनत् । अषोपदेशत्वात् षत्वाभावे तिस्तनयिषति ।
हृषिपुष ० (७९७ ) इतीलौ स्तनयित्नुर्मेघ: । 'स्तन शब्दे' स्तनति । णिगि शब्दादन्यत्र न घटादित्वम् स्तानयति । 'ध्वनणू शब्दे' ध्वनयति । ङे अदध्वनत् । 'ध्वन शब्दे' ध्वनति । णिगि शब्दादन्यत्र घटादित्वाभावे ध्वानयति । 'स्तेनणू चौर्ये' स्तेनयति । ङे अषोपदेशत्वात् षत्वाभावे १० अतिस्तेनत् । अचि स्तेनः । 'ऊनणू परिहाणे' ऊनयति । डे मा भवान् ऊनिनत् । अचि ऊनः । क्ते ऊनितम् । इति नान्ताश्चत्वारः । 'कृपण दौर्बल्ये' कृपयति । डे अचकृत् । नन्द्यादित्वादने कृपणः । स्त्रीत्वे कृपणा | 'मृगया० ' ( ५।३।१०१ ) इति निपातनादनपवादेऽङि कृपा । 'कृपौङ् सामर्थ्ये' कल्पते 'कृपण् अवकल्कने' कल्पयति । 'रूपणू रूपक्रियायाम्' । रूपक्रिया राजमुद्रादिरूपस्य करणम् । रूपयति । णके रूपकम् । अलि रूपम् । 'णिवेत्ति ० ' ( ५|३|१११ ) १५ इत्यने रूपणा । रूपदर्शनं वा रूपक्रिया । निरूपयति निरूपणा । 'क्षप लाभण प्रेरणे' क्षपयति । अचि क्षपा । इति पान्तास्त्रयः ३ । लाभयति ङे अललाभत् । अच्यलि वा लाभः । लभणिति सभ्याः । लभितम् । विलभना । 'डुलभष् प्राप्तौ' लभते । णिगि लम्भयति । इति भान्तः । 'भामणू क्रोधे' भामयति । अबभामत् । 'भामि क्रोधे' भामते । णिगि ङे अबीभमत् । 'गोमण् उपलेपने' गोमयति भूमिम् । ङे अजुगोमत् । उणादौ गयहृदय० ( ३७० ) इति निपातनादये २० गोमयं गोशकृत् । 'सामणू सान्त्वने' सान्त्वनं प्रीणनम् । सामयति । अससामत् । अषोपदेशत्वात् षत्वाभावे सिसामयिषति । 'श्रामणू आमन्त्रणे' श्रामयति । अशश्रामत् । 'स्तोमण श्लाघायाम्' स्तोमयति । ङे अतुस्तोमत् । अलि स्तोमः । 'ज्योतिरायुभ्यां ० ' (२।३।१७ ) इति षत्वे अग्निष्टोमः | इति मान्ताः पञ्च ५ | 'व्ययण वित्तसमुत्सर्गे वित्तसमुत्सर्गरत्यागः, गतावित्येके । व्यययति । ङे, अवव्ययत् । वित्तेति धात्वन्तरमित्येके । वित्तयति वित्तित: वित्तयित्वा । इति यान्त: । 'सूत्रण २५ विमोचने' विमोचनं मोचनाभावो प्रन्थनमिति यावत् । सूत्रयति । ङे असुसूत्रत् । 'अट्यर्त्ति०' ( ३।४।१० ) इति यङि सोसूत्रयते । अचि सूत्रम् | 'हेतुतच्छीला० ' ( ५ । १ । १०३ ) इत्यत्र सूत्रस्य वर्जनात् कर्मणोऽणि सूत्रकारः । 'मूत्रण प्रस्रवणे' मूत्रयति । ङे अमुमूत्रत् । 'अट्यर्ति०' इति मोमूयते । 'पार तीरण कर्मसमाप्तौ' पारयति । अपपारत् । अलि पारम् । 'साहिसाति०'
( ५।१।५९) इति शे पारयः । ते पारितम् । 'णिवेत्ति ० ' ( ५|३|१११ ) इत्यने पारणा । तीर ३० तीरयति । अध्यलि वा तीरम् । 'कत्र गात्रण शैथिल्ये' कत्रयति । ङे अचकन्त्रत् । क्ते कत्रितम्
1
1
[ कत्थणिति देवनन्दी कत्थयति । अयं कर्त्रण इत्येके कर्त्रयति कर्त्रितम् ] चन्द्रस्तु कर्तृणित ऋदितं मन्यते । कर्त्रयति । गात्रं गात्रयति । अजगात्रत् । 'चित्रण चित्रक्रियाकदाचिद्दृष्टयोः ' चित्रयति आलेख्यं करोति कदाचित्पश्यति वेत्यर्थः । वैचित्र्यकरणार्थोऽयं न चित्रक्रियार्थ इत्यन्ये, ३४ तन्मते चित्रयति चित्रं सम्पादयति कदाचित्पश्यति वेत्यर्थः । क्ते चित्रितम् । 'णिवेत्ति ० ' ( ५/३/
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org