________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे चुरादयोऽदन्ताः परस्मैपदिनः ७६५ (५।३।१११) इत्यने आखेटना । नायं खेटः, खेड इति देवनन्दी खेडयति । 'खोटण प्रक्षेपे' खोटयति । डे, अचुखोटत् । अलि खोटः । डान्तोऽयमिति देवनन्दी खोडयति । दान्त इत्यन्ये खोदयति । 'पुटण संसर्गे' पुटयति । अपुपुटत् । 'वटुण् विभाजने' वण्टयति । वण्टापयतीत्येके । टान्ताः सप्त ७ । शठ श्वठुण सम्यग्भाषणे । शठयति श्वण्ठयति । डे अशशठत् अशश्वण्ठत् । 'शठ कैतवे' च शठति । णिगि शाठयति । 'शठ श्वठ श्वठुण संस्कारगत्योः' शाठयति ५ श्वाठयति । श्वण्ठ्यति । इति ठान्तौ । 'दण्डण् दण्डनिपातने दण्डयति । दण्डादेर्नाम्नो णिचि दण्डयतीत्यादि सिद्धौ दण्डण्प्रभृतीनां पाठो यथाभिधानं णिचं विनापि प्रयोगार्थः, अत एवादन्तत्वमप्यनेकस्वरकार्यार्थ फलवत् । इति डान्तः । 'वणण् गात्रविचूर्णने' । व्रणयति । डे अवव्रणत् । अचि व्रणः । 'त्रण शब्दे' व्रणति । णिगि ब्राणयति । 'वर्णण वर्णक्रियाविस्तारगुणवचनेषु' । वर्णक्रिया वर्णनं क्रियाकरणं वा । कथां वर्णयति सुवर्ण वर्णयति । विस्तारवर्णनेयम् । गुणवचनं १० स्तुतिः शुक्लाद्यक्तिर्वा । राजानमुपवर्णयति । 'नाम्नि पुंसि च' (५।३।१२१) इति णके वर्णकः । 'पर्णण हरितभावे' पर्णयति । अचि पर्णम् । 'कर्णण भेदे' कर्णयति । आकर्णयति । 'तूणण् संकोचने' तूणयति मुखम् । असमानलोपित्वादुपान्त्यस्येति हस्खे अतुतूणत् । अङ्कादिष्वदन्तेषु धातुषु वर्णानुक्रमेणागतं प्रसिद्धप्रयोगात् गणधातुं (पृष्ठ ७५४ ) पाठतो निरूपयति । 'गणण् सङ्ख्याने' । गणयति ॥ ६ ॥ इति डे सूत्रम् ।
ई च गणः ॥७॥ [सि० ४११६७] गणेङपरे णौ द्वित्वे पूर्वस्य ईरश्च स्याताम् । अजीगणत् अजगणत् । 'कथण वाक्यप्रवन्धे' कथयति । अत इत्यकारलोपेन समानलोपित्वान्न सनद्भावः । अचकथत् ५।७।
'ईच०' स्पष्टम् । णके गणकः । 'कर्मजा तृचा च' ( ३।११८३ ) इति प्रतिषिद्धोऽपि 'पत्तिरथौ गणकेन' (३।१।७९) इति षष्ठीसमासः । पत्तिगणकः रथगणकः । स्त्रियामापि गणयति धनाग-२० ममिति गणिका । अलि गणः । 'णिवेत्ति०' (५।३।१११) इत्यने गणना । 'कुण गुण केतण् आमश्रणे' । आमत्रणं गूढोक्तिः । कुणयति गुणयति । अचुकुणत् अजुगुणत् । इति णान्ता अष्टौ । केत केतयति संकेतयति । अचिकेतत् । क्ते केतितः । क्त्वो यपि सङ्केत्य । अयं निश्रावणनिमन्त्रणयोरपीयेके । 'पतः गतौ वा' वाशब्दो णिजदन्तत्वयोर्युगपद्विकल्पार्थः । पतयति । डे अपपतत् । 'शीश्रद्धा०' (५।२।३७ ) इत्यालावामन्तेति णेरयि पतनशीलः पतयालुः । पक्षे पतति । 'व्यञ्ज-२५ नादे' (४।३।३७) इति वा वृद्धौ अपातीत् अपतीत् । 'पल गतौ' पतति अपतत् । 'वातण् गतिसुखसेवनयोः,' सुखसेवनयोरित्येके । वातयति । डे अववातत् । नायं वातः किन्तु वा इत्येके वापयति । निर्वाप्य गतः । इति तान्तात्रयः । कथण धातुं (पृष्ठ ७६५) पाठतो दर्शयति । 'कथण् वाक्यप्रबन्धे' इति । वाक्यप्रतिबन्ध इत्यन्ये । प्रतिबन्धो विच्छेदो दीरणात् (?) । वदने इत्यपरे । कथयति । डे अचकथत् । णके कथकः । वाक्यप्रबन्धे भीषिभूषि० (५।३।१०९) इत्यङि कथा । ३० 'पुन्नाम्नि' (५।३।१३०) इत्याधारे घे आगत्य कथ्यतेऽस्मिन्निति आस्कथः । वर्चस्कादित्वात्सोऽन्तः । क्त्वो यपि लघोरिति रयि संकथय्य । कथमचीकथत् ? 'भूरिदाक्षिण्यसम्पन्नं यत्वं सान्त्वमचीकथः' इति प्रयोगं दृष्ट्वा ये गणयतेरन्यस्यापि पूर्वस्येत्वमिच्छन्ति तन्मते भविष्यति, प्रकृत्यन्तरं वान्वेष्यम्। 'श्रथण् दौर्बल्ये' श्रथयति । ऋफिडादित्वालत्वे श्लथयति । डे अशश्लथत् । श्रथण प्रतिहर्षे' ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org