________________
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुक्ते दंसितः । पृषोदरादित्वाट्टे नस्यात्वे च दासी । 'दसुण भासार्थः' दंसयति । अन्यत्र दसति । 'भर्तिसण संतर्जने' भर्त्सयते । 'णिवेत्ति०' (५।३।१११) इत्यने भर्त्सना । इति सान्तौ । 'यक्षिण् पूजायाम्' यक्षयते । अलि यक्षः । उणादौ सात्मन्० (९१६) इति मनि यक्ष्मा रोगः। इति क्षान्तः । * इत्यर्थान्तरेऽपि चुरादय आत्मनेपदिन एकात्रिंशत् ३१ । . ५ इतोऽदन्ताः ।
इत ऊर्ध्वं युजादेः प्रागऽदन्तत्वं धातूनां विधीयते । ततश्च 'अतः' (४।३।८२) इत्यल्लुकः स्थानित्वात् गुणवृद्ध्योः समानलोपित्वाच्च सन्वद्भावदीर्घोपान्त्यहस्वानामभावः । यथा सुखयति रचयति; अत्र 'अतः' इत्यल्लुकः स्वरादेशत्वेन पूर्व विधि प्रति स्थानित्वाद्गुणवृद्ध्यभावः । अररचत्
असुसुखत् ; अत्र समानलोपित्वात् 'असमानलोप०' (४।१।६३) इति पूर्वस्य सन्वद्भावो लघोर्दीर्घ १० इति दीर्घश्च न भवति । असुसूचत् अत्रोपान्तहस्वाभावः । अङ्कादीनां तूक्तफलाभावेऽपि पूर्वाचार्यानु
रोधेनादन्तेषु पाठः; णिजभावेऽनेकस्वरत्वाद्यनिवृत्त्यर्थ इत्येके । द्रमिलास्त्वेवंप्रकाराणामत्त्वविधानसामर्थ्यादल्लोपाभावं मन्यन्ते; ततश्च 'ब्णिति' (४।३।५०) इति वृद्धौ प्वागमे च दुःखापयति लज्जापयति वण्टापयति रंहापयति अर्थापयते सत्रापयते गर्वापयते इत्युदाहरन्ति । ते हि ‘णिति' इति' वृद्धिं स्वरमात्रस्येच्छन्ति । 'अङ्कण् लक्षणे' अङ्कयति । सनि 'स्वरादेर्द्वितीयः' १५(४।१।४) इति केर्द्वित्वे अञ्चिकयिषति । अनदन्त एवायमित्येके । 'अकुङ् लक्षणे' अङ्कते । 'ब्लेष्कण दर्शने' ब्लेष्कयति । णिजभावेप्यदन्तत्वार्थोऽस्य पाठस्तेनानेकस्वरत्वाद्यङ् न भवति । एवं मूत्रिरूक्षिगर्विप्रभृतीनां पाठे प्रयोजनमुन्नेयम् । अनदन्ता एवैत इत्येके । इति कान्तौ । 'सुख दुःखण् तक्रियायाम्' । सुखनं दुःखनं च तक्रिया सुखयति असुसुखत् । अचि सुखम् । दुःखयति ।
अचि दुःखम् । इति खान्तौ । 'अङ्गण पदलक्षणयोः' अङ्गयति । अञ्जिगयिषति । अस्यापि पूर्वा२० चार्यानुरोधेनादन्तेषु पाठः । इति गान्तः । 'अघण् पापकरणे' अघयति । सनि अजिघयिषति । इति घान्तः । 'रचण् प्रतियत्ने' रचयति अररचत् रचयाञ्चकार । 'णिवेत्ति०' (५।३।१११) इत्यने रचना । 'सूचण पैशुन्ये' सूचयति । अषोपदेशत्वात्षत्वाभावे असुसूचत् । 'अट्यात०' (३।४।१०) इति यङि सोसूच्यते । स्मिप्रभृतिसाहचर्यादे कस्वराणामेव षोपदेशः, अत एव सूत्र सत्र
सङ्ग्राम (साम ) समाज स्थूल स्तन स्तेन (स्तोम ) सुखानामषोपदेशत्वात् सोसूच्यते सिसत्रयिषते २५ इत्यादौ न एत्वम् । णके सूचकः । अचि सूचः । गौरादित्वात् ङ्यां सूचयति सूत्रमार्गमिति सूची । 'नाग्नि पुंसि च' (५।३।१२१) इति णके भीरुष्ठानादित्वात्पत्वे विषूचिका । उणादौ रुक्मग्रीष्म० (३४६) इति मे निपातनात् सूक्ष्मः । पुत्रादयः (४५५) इति ने निपातनात् सूत्रम् । वरेभ्य० (६०६) इत्यौ सूचिः । इति चान्तौ । 'भाजण् पृथकर्मणि' भाजयति विभाजयति अवभाजयति ।
क्ते भाजितम् । क्त्वो यपि विभाज्य । 'सभाजण् प्रीतिसेवनयोः' प्रीतिदर्शनयोरित्यन्ये । सभा३० जयति । क्ये सभाज्यते । अससभाजत् । अनटि सभाजनम् । 'लज लजुण प्रकाशने' लजयति
अललजत् । 'लजु ने लञ्जयति । 'लजुण भासार्थः' इति जान्ताश्चत्वारः । ४ । 'कूटण दाहे' आमश्रणेऽपीत्येके । कूटयति । जे अचुकूटत् । अचि कूटम् । 'पट वटण् ग्रन्थे' ग्रन्थो वेष्टनम् । पटयति रजुम् वेष्टयतीत्यर्थः । एवं वटयति । एवं विभाजनेऽप्ययमित्यन्ये । डे अपपटत् अवघटत् । ३४ खिटण् भक्षणे' खेटयति । उ अपिखेटत । णके खेटकं फलकः । अलि खेटो प्रामः । 'णिवेत्ति०'
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org