________________
७६३
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे अर्थविशेषे चुरादय आत्मनेपदिनः ते वा निपातनात् शान्तः । पक्षे 'सेदक्तयोः' (४।३।८४ ) इति णेलुक शामितः । 'शमूच् उपशमे' शाम्यति । णिगि 'शमोऽदर्शने' (४।२।२८) इति अदर्शने शमयति रोगम् । 'कुस्मिण कुस्मयने' मतिदृष्टे बुद्धयुत्प्रेक्षितेऽर्थे इत्यन्ये, । कुत्सितं स्मयनं कुस्मयनम् । कुस्मयते प्रकुस्मयते आकुस्मयते । क्ये कुस्म्यते । 'धातोरनेकस्वर०' (३।४।४६) इत्यामि कुस्मयाश्चक्रे । डे अचुकुस्मत । सनि चुकुस्मयिषते । कुस्मयिता कुस्मयितव्यम् । किपि णिलुको 'न सन्धि०' (७।४।१११) इति स्थानित्व-५ प्रतिषेधस्य स्कोलक्यभावात् स्थानित्वे 'संयोगस्यादौ०' (२।११८८) इति सस्य लुगभावे संयोगान्तलोपे तु णिलुको 'न सन्धिः ' इति स्थानित्वप्रतिषेधात् 'पदस्य' (२।११८९) इति मलुकि सुकूः । साधुकूः । 'णिवेत्ति०' (५।३।१११) इत्यने कुस्मना । कुस्मयित्वा प्रकुस्म्य । कुपूर्वेण स्मिडैव कुस्मयते इति प्रयोगसिद्ध व्यर्थोऽयमिति चेत् । नैवमनिष्टापत्तेः । तथाहि गतिकन्य.' ( ३।१। ४२) इति समासस्य नाम्नैव सह विधानात्तिवाद्यन्तेन सहाभावे 'प्रथमोक्तं प्राक' (३।१।१४८)१० इति प्राक्त्वानियम इति स्मयतेकु इत्यपि स्यात् । उपसर्गस्य च धातोः प्राक्त्वानियमात् कुप्रस्मयते । अडागमस्य च धात्वादित्वात्कोरपतः पातेः । कस्मयत । क्ये 'दीर्घश्वि०' (४।३।१०८) इति दीर्घ कुस्मीयते । एकस्वरत्वाच्च परोक्षाया आमभावे कुसिस्मिये । अद्यतन्यां सिचि कस्मेष्ट । सनि 'ऋस्मि' (४।४।४८) इतीटि 'णिस्तोरेव.' (२।३।३७) इति नियमात्षत्वाभावे कुसिस्म यिषते । तृचि तव्ये च अनुस्वारेत्त्वादिडभावे कुस्मता कुस्मतव्यम् । किपि 'हस्वस्य तः०' (४।४।११३) इति १५ ते(न्ते ) कुस्मित् । स्त्रियां भावाकोंः क्तौ कुस्मितिः। क्त्वि कुस्मित्य इत्यादीनि रूपाणि स्मिङः प्राप्नुवन्ति । अथ कथं कुस्मतीति ? कुपूर्वात्स्मयतेः 'कचित्' (५।१।१७१) इति डे कुस्म इवाचरतीति किपि क्रियार्थत्वाद्धातुत्वे 'शेषात्०' (३।३।१००) इति परस्मैपदे भविष्यति । कुस्मनाम्नस्तु णिज् बाहुलकानेष्यते । इति मान्तात्रयः । ३ ॥ 'गूरिण उद्यमे गूयते उद्गरयते खड्गम् । 'णिवेत्ति०' (५।३।१११ ) गूरणा । आगूरणा । 'गूरैचि गतौ' गूर्यते । 'तत्रिण कुटुम्बधारणे'२० कुटुम्बं परिवारः । उपलक्षणं चैतत् । तत्रयते। तत्रयाञ्चके । अच्यलि वा तत्रम् । कर्मणोऽणि स्वतत्रः । उणादौ पदिपठि० (६०७) इत्यौ तत्रिः वीणासूत्रम् । तृस्तृतन्द्रि० (७११) इति ईः तत्री शुष्कस्नायुः आलस्यं च । कुटुम्बेत्यपि धातुरिति चान्द्रा । कुटुम्बयते । 'मन्त्रिण गुप्तभाषणे' मन्त्रयते । 'ग्रहादिभ्यः' (५।११५३ ) इति णिनि मत्री । अलि मत्रः । उणादौ पदिपठि० (६०७) इति इः मत्रिः सचिवः । इति रान्तात्रयः । 'ललिण् ईप्सायाम्' लालयति । अचि लालः । कुत्सितो २५ लालः कुलालः । कर्मणोऽणि कुं लालयते कुलालः । 'णिवेत्ति०' (५।३।१११) इत्यने लालना । णिचोऽनित्यत्वात् 'इडित०' (५।२।४४) इत्यने लालनाशीला ललना । क्ते ललितः । लालेति तु भिल्लाच्छभल्ल.' (४६४) इति निपातनाल्ले लातेः । 'लड विलासे' ऋफिडादित्वात् डस्य लत्वे ललति । 'णिगि जिह्वोन्मन्थने' घटादित्वात् हखे ललयति श्वा जिह्वाम् । 'गलिण् श्रावणे' इत्यत्येके। गालयते उद्गालयते । 'गल अदने' गलति । इति लान्तः । 'स्पशिण ग्रहणश्लेषणयोः' । पाशयति । ३० ढे 'स्मृदृत्वर०' (४।१।६५) इति सन्वद्भावापवादे पूर्वस्य अत्वे अपस्पशत् । णौ दान्तशान्त०' (४।४।७४) इति के वा निपातनात् स्पष्टः । स्पाशितः । अयं स्पशीत्येके स्पशते स्पशति । व्यञ्जनाद् घनि स्पाशः । 'दंशिण् दशने' दंशयति । 'णिवेत्ति०' (५।३।१११) इत्यने दशना । अनटि दंशनम् । 'दशुण भासार्थः' दंशयति । दंशं दशने दशति । 'दाशिण दाने' इत्यप्येके दाशयते । 'दागू दाने दाशते दाशति । इति शान्तौ । 'दंसिण् दर्शने च' चकाराद्दशने । दसयते । ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org