________________
७६२
महामहोपाध्याय श्री विनयविजयगणिविरचिते खोपज्ञहैमलघु
मनतीति चन्द्रः । अन्यत्र 'मनिंच ज्ञाने मन्यते । इति नान्तः । 'बलि भलिणू आभण्डने '
भण्डनं निरूपणम् । बलिरोष्ट्यादिः । उद्वालयते । भालयते निभालयते । अन्यत्र वलि संवरणे' वलते । 'भलि परिभाषणादौ' । भलते इति लान्तौ । 'दिवि परिकूजने' । देवयते गन्त्री । अन्यत्र 'दिवूच् क्रीडादौ' दीव्यति । इति वान्तः । ' वृषिण शक्तिबन्धे' । आवर्षयते ग्रामः शक्तिं बध्ना५ तीत्यर्थः । तवर्गतुर्यादिरयं सामर्थ्यवारणार्थ इत्येके । धर्षयतेऽरीन् । केचिदिममूदितं णिचोऽनित्यत्वार्थं पठन्ति तन्मते शक्तिबन्धेऽपि णिचोऽभावादात्मनेपदाभावे वर्षति । ऊदित्त्वात् क्त्वि वेद वृष्ट्वा वर्षित्वा । अर्थान्तरे तु 'वृषू सेचने' वर्षति । इति षान्तः । ' कुत्सिण् अवक्षेपे' । 'भीषिभूपि ० ' ( ५|३ | १०९ ) इत्यत्र बहुवचनादङि कुत्सा | बाहुलकात् 'णिवेत्ति ० ' ( ५|३|१११ ) इत्यने कुत्सना । इति सान्तः । 'लक्षिण आलोचने' । लक्षणं लक्षयते । अन्यत्र 'लक्षीणू दर्शनाङ्कनयोः' । १० लक्षयति लक्षयते । णिचोऽनित्यत्वात् लक्षते ।
** इत्यर्थविशेषे चुरादयः आत्मनेपदिनत्रयोदश १३ ।
अथात्मनेपदिन एवार्थान्तरेपि चुरादयः । 'हिष्कि किष्किण हिंसायाम् ' हिष्कयते । ते, हिष्कितम् । हिक्कितमिति 'हिक्की अव्यक्ते शब्दे' इत्यस्य । किष्कयते । उणादौ पृकाहृषि० (७२९) इत्युः किष्कुः वितस्तिः । किष्किन्धेति तु किमप्यन्तर्दधातीति पृषोद१५ रादित्वाद्दधाते: । 'निष्किण परिमाणे' निष्कयते । अचि निष्कः । इति कान्तास्त्रयः ३ । 'तर्जिणू
संतर्जने' । तर्जयते । करणेऽनटि तर्जनी । यत्तु लक्ष्ये तर्जयतीति परस्मैपदं दृश्यते तथा भर्त्सयत निशामयति भालयति कुत्सयति वञ्चयति निवेदयतीत्यादि तत् स्वादौ 'राज़ग् दुभ्राजीति' पुनर्भ्राजि - ग्रहणेनात्मनेपदस्यानित्यत्वज्ञापनात् सिद्धम् । इति जान्तः । 'कूटि अप्रमादे' अप्रदान इत्यन्ये ।
कूटयते । अलि कूट: । 'कूटणू दाहे' अदन्तः कूटयति । 'त्रुटि छेदने' त्रोटयते रज्जुम् । २० डान्तोऽयमित्येके त्रोडयते तृणम् । इति टान्तौ । 'शठिण श्लाघायाम्' शाठयते । अचि शाठः । 'णिवेत्ति०' (५।३।१११ ) इत्यने शाठना । शटेति नन्दी । शलेति कौशिकः । इति ठान्तः । 'कूणिण सङ्कोचने' । कूणयते मुखम् । ते कूणितं चक्षुः । उणादौ स्वरेभ्य ० ( ६०६ ) इत्यौ कूणिः । 'तृणिण पूरणे' तूणयते । अलि तूणः । उणादौ 'जम्बीराभीर०' (४२२ ) इतीरे तूणीरः । तूलेति चन्द्रः। ‘भ्रूणि आशायाम्' आशङ्कायामित्येके भ्रूणयते । अलि भ्रूणः । इति २५ णान्तास्त्रयः । " चिति संवेदने' 'चेतयते । अशिति विषये णेलुकि व्यञ्जनान्तत्वात् 'इङित . ' ( ५/२/४४ ) इत्यने चेतनाशीलः चेतनः । अप्रत्ययापवादे 'णिवेत्ति०' ( ५|३|१११ ) इत्यने चेतना । 'रम्यादिभ्य०' ( ५|३|१२६ ) इति कर्त्तर्यनटि चेतन: । 'चितै संज्ञाने' चेतति । 'वस्ति गन्धि अर्दने' वस्तयते । अचि वस्तः । उणादौ स्वरेभ्य० (६०६ ) इत्यौ वस्तिः । इति तान्तौ । गन्ध, गन्धयते । अलि गन्धः । अनटि गन्धनम् । उणादौ गन्धेरर चान्तः ( ५०८ ) इति वे गन्धर्वः । इति धान्तः । 'डपि डिपि डम्पि डिम्पि डम्भि डिम्भिणू संघाते' । डापयते डेपयते डम्पयते डिम्पयते । इति पान्ताश्चत्वारः । ४ || डम्भयते डिम्भयते । अचि डिम्भः । भान्तौ । 'स्वमि वितर्के' । 'यमोऽपरिवेषणे' इत्यत्र ण्यधिकारेऽपि णिग्रहणं नियमार्थम् । तेन 'अमोऽकम्य मि० ' ( ४।२।२६ ) इति ह्रस्वाभावे स्यामयते । 'स्यम् शब्दे' स्यमति । णिगि 'अम०' ३४ इति ह्रस्वे स्यमयति । 'शमिण आलोचने' शामयति निशामयति । 'णौ दान्त०' ( ४|४|७४ ) इति
३०
·
१ ७५३ पृष्ठे फुटनोटे चिंतितोऽयमत्र निर्दिष्ट उपलब्धः । संपादकः
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org