________________
७६० महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुचुरादिणिचोऽनित्यत्वे लिङ्गम् । सेन 'ऋदिच्छि.' (३।४।६५) इति वाऽङि अधुषत् । पक्षे अघोषीत् । घोषति । 'जुघुषुः पुष्यमाणवा' इति विशब्दनेऽपि भवति । नायमृदिदिति कौशिकः । अर्थान्तरे तु 'घुष शब्दे' घोषति । 'आङ: क्रन्दे' सातत्ये इत्यन्ये । आङः परो घुषिः क्रन्देऽर्थे चुरादिर्भवति । आघोषयति । "णिवेत्ति०' (५।३।१११) इत्यने आघोषणा । अन्ये त्वाङः ५क्रन्दः सातत्य इति पठन्ति । आङः परात्कन्देऽर्थे णिज् भवति । आक्रन्दयति नित्यम् । अन्यत्र
आक्रन्दति । 'भूष तसुण अलकारे' भूषयति कन्याम् । 'भूष अलङ्कारे' भूषति । इति षान्ताश्चत्वारः ४ । तसु ने उत्तंसयति । 'पुन्नान्निः' (५।३।१३०) इति करणे घे अवतंसः । 'तसु अलङ्कारे' तंसति । 'जसण ताडने' जासयति । 'जासनाट' (२।२।१४) इति षष्ठ्यां चौरस्योन्जा
सयति । अर्थान्तरे तु 'जसूच मोक्षणे' जस्यति । 'जसण हिंसायामिति' पठितोऽप्यर्थभेदात्पुन१०रधीतः । 'त्रसण वारणे'। धारणे इति नन्दी । ग्रहण इत्येके । त्रासयति मृगान् निराकरोतीत्यर्थः ।
अर्थान्तरे तु 'सैच् भये त्रस्यति त्रसति । वसण स्नेहच्छेदावहरणेषु । स्नेहे, वासयति वसा । छेदे वासयति वृक्षम् । अवहरणे वासयत्यरीन मारयतीत्यर्थः । 'वसं निवासे' वसति पणिक् । आच्छादने वस्ते । 'ध्रसण उत्क्षेपे' उच्छ इत्येके । धासयति । अर्थान्तरे तु 'ध्रसूश् उन्छे' ध्रनाति ।
उकारादी इमावित्येके । उध्रासयति उध्रनाति । 'ग्रसण ग्रहणे' ग्रासयति फलम् । अर्थान्तरे तु १५ असूङ अदने' असते । 'लसण् शिल्पयोगे' लासयति दारु भ्रमादिना तक्ष्णोतीत्यर्थः । अर्थान्तरे तु
'लस श्लेषणक्रीडनयोः' लसति । भ्वादौ पाठः शिल्पयोगेऽपि णिजभावार्थः । एवमन्यत्रापि । षान्तोऽयमित्येके । लाषयति दारु । अन्यत्र 'लषी कान्तौ' लषति लष्यति । तालव्यान्त इति कौशिकः। इति सान्ताः सप्त ७ । 'अहण पूजायाम्' अर्हयति । आर्जिहत् । 'णिवेत्ति०' (५।३।१११) इत्यने अर्हणा । इति हान्तः एकः । 'मोक्षण असने' मोक्षयति शरान् । 'युवर्ण०' (५।३।२८) २० इत्यलि मोक्षः । अन्यत्र मोक्षति । ___ अथ वर्णक्रमेण भासार्थाः। लोक १ तर्क २ रघु ३ लघु ४ लोच ५ विछ ६ अजु ७ तुजु ८ पिजु ९ लजु १० लुजु ११ भजु १२ पट १३ पुट १४ लुट १५ घट १६ घटु १७ वृत १८ पुथ १९ नद २० वृध २१ गुप २२ धूप २३ कुप २४ चीव २५ दशु २६ कुशु २७ असु २८ पिसु २९ कुसु ३० दसु ३१ वह ३२ वृहु ३३ वलह ३४ अहु ३५ वहु ३६ महुण ३७ २५भासार्थाः । लोक, लोकयति विलोकयति । 'ऋदित्त्वादुपान्त्यस्य हस्खाभावे अलुलोकत् । अन्यत्र 'लोकङ् दर्शने' लोकते । तर्क तर्कयति 'युवर्ण०' (५।३।२८) इत्यलि तर्कः वितर्कः । क्ते तर्कितः । गणान्तरेष्वपठिता अप्यत्र दण्डके पाठाद्धातव एवेत्यर्थान्तरे तर्कयति । इति कान्तौ । रघु लघु उदित्त्वान्ने रवयति लङ्घन्यति । अन्यत्र 'रघुङ गसौ' रचते । लङ्घते । इति घान्तौ । लोच लोचयति
आलोचयति । ऋदित्त्वादुपान्त्यस्य हस्खाभावे अलुलोचत् । अन्यत्र 'लोचङ् दर्शने' लोचते । इति ३० चान्तः । विछ, 'स्वरेभ्यः' (१।३।३०) इति द्वित्वे विच्छयति । अन्यत्र 'विछत् गतौ' 'अशवि ते
वा' (३।४।४) इति वाये विच्छायति विच्छति । इति छान्तः । अजु अञ्जयति । अन्यत्र 'अोप व्यक्त्यादौ व्यनक्ति । तुजु तुञ्जयति । अन्यत्र 'तुजु बलने च' तुञ्जति । 'पिजु पिञ्जयति । अस्य चुरादौ 'पिजुण हिंसाबलदाननिकेतनेष्विति पठितेऽप्यत्र पुनः पाठोऽर्थविशेषार्थ आत्मनेपदार्थः सकर्मकार्थश्च । अन्यत्र 'पिजुकि संपर्चने पिते। लजु लञ्जयति । अन्यत्र 'लजु भर्त्सने ३५ लक्षति । लुजु, लुञ्जयति अन्यत्र लुञ्जति । भजु भञ्जयति अन्यत्र 'भौष आमदने' भनक्ति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org