________________
७५९
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे अर्थविशेषाञ्चुरादयः परस्मैपदिनः अनटि सूदनम् । अर्थान्तरे तु 'दि रक्षणे' । सूदते । 'नाम्युपान्त्य०' (५।१।५४ ) इति के सूदः । 'आङः क्रन्दण् सातत्ये' आङः परः क्रन्द इत्ययं धातुः सातत्येऽर्थे चुरादिः । आक्रन्दयति । अलि आक्रन्दः । अर्थान्तरे तु 'ऋदु रोदनाह्वानयोः' आक्रन्दति । 'व्वदण् आस्वादने' संवरण इत्यन्ये । 'पः स०' (२।३।९८ ) इति से स्वादयति । 'नाम्यन्तस्था०' (२।३।१५) इति षत्वे असिष्वदत् । अर्थान्तरे तु 'ध्वदि आस्वादने' मैत्राय स्वदते दधि । आखादः सकमेकात् आङ्-५ पूर्वात् स्वदतेः सकर्मकाणिज् भवति । आस्वादयति यवागूम् । अन्ये तु 'असण् ग्रहणे' 'पुषण धारणे' 'दलण विदारणे' 'लोक तर्केति भासार्थदण्डकः' 'पूरण आप्यायने' 'स्वदण् संवरणे' इति क्रमेण पठित्वा व्याख्यान्ति, असिमारभ्य आस्वदः स्वदमभिव्याप्य यो धातुः पठितस्तस्मात्सकर्मकक्रियावचनादेव णिज् भवति । ततोऽकर्मकेभ्यो णिजो व्यावृत्तिः । 'मुदण् संसर्गे' । मोदयति सक्तून् सर्पिषा । मोदयत्युष्णा आपः शीताभिरद्भिः । उभयत्र संसृजतीत्यर्थः । 'नाम्नि पुंसि च' (५।३।१० १२१) णके मोदकः । अर्थान्तरे तु 'मुदि हर्षे' मोदते इति दान्ताः षट् ६ । शृधण् प्रसहने' प्रसहनमभिभवः, अप्रसहन इत्येके, । अप्रसहनममर्षः । शर्धयत्यरिम् । ङे 'ऋहवर्णस्य' (४।२।३७) इति गुणापवादे ऋतो वा ऋति अशीशृधत् अशशर्धत् । अर्थान्तरे 'शृधूङ् शब्दकुत्सायाम्' शर्धते । 'शृधूग् उन्दे' शर्धते शर्धति । इति धान्तः । 'कृपण अवकल्कने' । अवकल्कनं मिश्रीकरणं सामर्थ्य च । कल्पयति । अवकल्पन इत्यन्ये । कल्पयति वृत्तिं राजा । चन्द्रस्तु भूकृपौ द्वावप्यवकल्कने १५ चिन्तने इति व्याख्यानात् सम्भावयति अवकल्पयति । अर्थान्तरे तु 'कृपौङ् सामर्थे' कल्पने । इति पान्तः । 'जभुण नाशने' जम्भयति । क्ये जम्भ्यते । जभणिति चन्द्रः । 'जभः खरे' (४।४।१००) इति स्वरात्परे ने जम्भयति । क्ये जम्भ्यते । अर्थान्तरे तु 'जभुङ् गात्रविनामे' जम्भते । इति भान्तः । 'अमण रोगे' । 'अमोऽकम्यमिचमः' (४।२।२६) इत्यत्रामो वर्जनात् यमोऽपरिवेषणे इत्यत्र नियमार्थत्वाद् ह्रस्वाभावे 'रुजार्थस्या०' (२।२।१३) इति वा कर्मणोऽकर्मत्वे २० शेषषष्ठ्यां आमयति चौरस्य ज्वरः । अलि आमः । उणादौ कुगुवलि. (३६५) इत्यये आमयो रोगः । श्वन्मातरिश्वन्० (९०२) इत्यनि निपातनात् अरीनामयतीत्यर्यमा रविः । अर्थान्तरे तु 'अम गतौ' घनि अमः । इति मान्तः । 'चरण असंशये' विचारयत्यर्थान् । 'णिवेत्ति०' (५।३। १११) इत्यने विचारणा । अन्ये तु 'चरण संशये' इति पठन्ति । विचारणा हि संशये सति भवतीति चाहुः । अर्थान्तरे तु 'चर भक्षणे' चरति । 'पूरण आप्यायने' पूरयति । अर्थान्तरे तु२५ 'पूरैचि आप्यायने' । पूर्यते । इति रान्तौ । 'दलण विदारणे दालयति विदारयतीत्यर्थः । अर्थान्तरे तु 'दल त्रिफला विशरणे' दलति । णिगि घटादित्वाद् हस्खे दलयति । इति लान्तः । 'दिवण् अर्दने' देवयति शत्रून् परिदेवयति अतिदेवयति । अतिपूर्वादेव णिजित्येके । अर्थान्तरे तु 'दिवूच् क्रीडायाम्' दीव्यति इति वान्तः । 'पश पषण् बन्धने' पाशयति पाशैरश्वम् इति शान्तः । 'पषण् पाषयति पाशैरश्वम् । दन्त्यान्त्योऽयमित्येके । अर्थान्तरे तु 'पषी बाधनस्पर्शनयोः' ।३० मूर्धन्यान्तस्तालव्यान्तोऽयं दन्यान्तश्चाचार्यभेदेन पशते पशति, पषते पषति, पसते पसति । 'पुषण धारणे' पोषयति आभरणम् धारयतीत्यर्थः । अर्थान्तरे तु 'पुष पुष्टौ' पोषति । 'पुपंच पुष्टौ' पुष्यति । 'पुषश् पुष्टौ' पुष्णाति । 'घुषण विशब्दने' विशब्दनं विशिष्टशब्दकरणं नानाशब्दनं वा। घोषयति उद्घोषयति । अविशब्दने इत्येके । अपघोषयति पापम् अपहृते इत्यर्थः । ऋदित्करणं ३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org