________________
७५८
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुअचर्चत् । 'भीषिभूषि०' (५।३।१०९) इत्यङि चर्चा । अन्यत्र 'चर्चत् परिभाषणे' इति केचित् चर्चति । 'अश्चण विशेषणे' विशेषणमतिशयः । अञ्चयत्यर्थम् व्यक्तीकरोतीत्यर्थः । अन्यत्र 'अञ्चू गतौ च' । अञ्चति । 'मुचण प्रमोचने' मोचयति शरान् । प्रयोजने इत्यन्ये मोचयति कुण्डले प्रयोजयतीत्यर्थः । अन्यत्र 'मुचि कल्कने' मोचते । 'मुच्लंती मोक्षणे' मुश्चति मुञ्चते । इति ५ चान्तात्रयः ३ । 'अर्जण् प्रतियत्ने' । प्रतियत्नः संस्कारः । अर्जयति हिरण्यम् । निवेशयतीत्यर्थः । डे आर्जिजत् । अन्यत्र 'अर्ज सर्ज अर्जने' अर्जति । "भजण् विश्राणने' विश्राणनं विपचनम् । भाजयति विभाजयति । अच्यलि वा भाजः । स्त्रियां 'भाजगोण.' (२।४।३०) इति या भाजी पक्का चेत् , भाजाऽन्या । अन्यत्र तु 'भजी सेवायाम्' भजते भजयति । इति जान्तौ द्वौ । 'चट स्फटण भेदे' । चाटयति उच्चाटयति । अनटि उच्चाटनम् । 'उच्चाटनीयः करतालिकाना मिति १० नैषधीये । णिचोऽनित्यत्वाचटयति दोलायां । उच्चटति चित्रम् । विचटति । उणादौ दृकृनृ० (२७)
इत्यके चटका । स्फुट स्फोटयति । स्फोट्यते । अपुस्फुटत् । आस्फोटयाञ्चकार । अर्थान्तरे तु 'स्फुट्ट विशरणे' स्फोटति । स्फुटि विकसने' स्फोटते । 'स्फुटत् विकसने' स्फुटति । 'घटण् संघाते' घाटयति उद्घाटयति अनटि उद्घाटनम् । उद्घाटितः कपाटः । अर्थान्तरे तु 'घटिष् चेष्टायाम्'
घटते । णिगि घटादित्वात् ह्रस्वे घटयति । १५ हन्त्यर्थाश्च येऽन्यत्र हत्या हिंसार्थाः पठ्यन्ते तेऽप्यत्र चुरादौ वेदितव्याः । 'हनंक् हिंसागत्योः' घातयति । 'हिसु तृहप्' हिंसयति तयति । तत्तद्गणपाठसामर्थ्यात्तु हन्ति हिनस्ति तृणेढीत्यादयोपि । अनेनैव सिद्धेऽन्येषां हिंसार्थानां चुरादौ पाठः आत्मनेपदादिगतरूपभेदार्थः । अन्ये तु चटास्फुटौ घट च (श्व ?) हन्त्यर्था इत्याधं पाठं मन्यन्ते । अस्यार्थश्चट इत्ययं धातुराङ्पूर्वश्च स्फुट इति, घट इत्ययं च त्रयोऽप्येते हन्त्या हिंसार्थाश्चरादौ भवन्ति । चाटयति आस्फोट२० यति घाटयति । अर्थान्तरे तु न चुरादित्वम् चटति आस्फुटति । अपरे त्वन्यथा व्याचक्षते । 'चट आस्फुटौ' आस्फुटत्यर्थे चुरादिः चाटयति । घट च(श्च ?) आस्फुटत्यर्थे चुरादिः घाटयति । अन्यत्र च चटति घटते । इति टान्तात्रयः ॥ ३ ॥ 'कणण निमीलने' काणयति चक्षुः । अचि काणः । अर्थान्तरे तु 'कण शब्दे' कणति । घटादित्वाणिगि हवे कणयति । इति णान्तः ।
'यतण निकारोपस्कारयोः' । निकारः खेदनम् । यातयत्यरिम् ‘णिवेत्ति०' (५।३।१११) इत्यने २५ यातना तीव्रव्यथा । उपस्कारे यातयति दरिद्रो नागरस्य धनम् । धनाय यातयति च्छिद्रं राजा, प्रच्छादयतीत्यर्थः । प्रतियातयति( प्रति )बिम्बयतीत्यर्थः । अर्थान्तरे तु यतैङ् प्रयत्ने' यतते । निरश्च प्रतिदाने निरः परो यो यतिः (सः) प्रतिदानेऽर्थ चुरादिः। निर्यातयति ऋणम् । शातयतीत्यर्थः इति तान्तः । 'शब्दण् उपसगोंदू भाषाविष्कारयोः । भाषे आविष्कारे चार्थे शब्द इत्ययं
धातुरुपसर्गात्परश्चुरादिः । विशब्दयति प्रशब्दयति प्रतिशब्दयति । प्रतिश्रु(ति)कामाविष्करोतीत्यर्थः । ३. योगविभागोऽत्रेति नन्दी शब्द उपसर्गादित्येकः शब्द इत्ययं धातुरुपसर्गात्परशुरादिः । प्रशब्दयति
(विशब्दयति ) भाषाविष्कारयोरित्यपरः । अनुपसर्गार्थोऽयमारम्भः । पूर्वस्तु भाषणाविष्कारार्थः शब्दयति विशब्दयति । अन्यस्तु शब्दः शब्द क्रियायामित्यधीते शब्दयति । भषणस्यापि शब्दविशेषक्रियारूपत्वादत्रैवान्तर्भावः । तत उपसर्गादाविष्कार इति पठित्वा प्रशब्दयति विशब्द
यतीत्याविष्कारमात्रे उदाहरन्ति । 'दण आस्रवणे' । क्षरण इत्येके । 'षः स०' (२॥३॥९८) ३५इति से सूदयति । षोपदेशत्वात् णिस्तोरेव०' (२।३।३७) इति षत्वे सुषूदयिषति ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org