________________
प्रक्रियावृत्तिरूपे श्रीहेमप्रकाशे अर्थविशेषाचुरादयः परस्मैपदिनः ৩৭৬ कर्तरि तृतीयायाम् भक्षयति पिण्डी शिशुना मैत्रः । 'शीलिकामि०' (५।११७३ ) इत्यणपवादे णे मांसभक्षा स्त्री । 'युवर्ण०' ( ५।३।२८) इत्यलि भक्षः। 'पक्षण परिग्रहे' पक्षयति । कर्मण्यणि धर्मपक्षः । इति त्रयः क्षान्ताः ।। __ 'लक्षीण दर्शनाङ्कनयोः' । अङ्कनं चिह्नम् । ईदित्त्वात् 'ईगितः' ( ३।३।९५) इति फलवत्कर्त्तरि आत्मनेपदे लक्षयते, अन्यत्र 'शेषात्०' (३।३।१००) इति परस्मैपदे लक्षयति । 'णिवेत्ति०'५ (५।३।१११) इत्यने लक्षणा । 'करणाधारे' (५।३।१२९) इत्यनटि लक्षणम् । उणादौ तकृशृ० (१८७) इत्यणे लक्षणम् । लक्षेर्मोऽन्तश्च (७१५) इति ई. लक्ष्मीः । इत्युभयपदी क्षान्तः।
इति सामान्यतश्चरादयो द्विपञ्चाशं शतम् । तत्रैक उभयपदी, शेषाः परस्मैपदिनः । इतोऽअर्थविशेषे आलक्षिणः। इतः परं प्रायः प्रागुक्ता अप्यर्थविशेषे ये लक्षिणपर्यन्ताथुरादयश्चेति सूत्रोक्तास्ते प्रस्तूयन्ते ।
'ज्ञाण मारणादिनियोजनेषु' । मारणादयो 'मारणतोषणनिशाने ज्ञश्च' (४।२।३०) इति सूत्रोक्तास्तेषु नियोजने चार्थे जानातिचरादिः । मारणे संज्ञपयति पशुम् । तोषणे विज्ञपयति गुरुम् । निशाने उत्तेजने प्रज्ञपयति शस्त्रम् । एषु त्रिष्वर्थेषु 'मारणतोषण' इति सूत्रेण ह्रस्वः । नियोजने आज्ञापयति नृत्यम् अत्र ह्रस्वाभावः । उक्तार्थेभ्योऽन्यत्र तु ऋयादित्वात् जानाति । क्ये, विज्ञप्यते आज्ञाप्यते । व्यजिज्ञपत् आजिज्ञपत् । व्यज्ञपि व्यज्ञापि । आज्ञापि इटि व्यज्ञपयिषाताम् । आज्ञा-१५ पयिषाताम् । मिटि व्यज्ञपिषाताम् आज्ञापिषाताम् । विज्ञपयाञ्चकार आज्ञापयाञ्चकार । विज्ञप्यात् आज्ञाप्यात् । ज्ञपयिषीष्ट ज्ञापयिषीष्ट । ज्ञपिषीष्ट ज्ञापिषीष्ट । ज्ञपयिता ज्ञापयिता । ज्ञपिता ज्ञापिता । विज्ञपयिषति आज्ञापयिषति । बिटि विज्ञपयिष्यते आज्ञापयिष्यते । 'इवृधः' (४।४।४७) इति वेटि जिज्ञपयिषति, पक्षे 'ज्ञप्याप०' (४।१।१६) इति ज्ञीपि ज्ञीप्सति । ज्ञापेस्तु जिज्ञापयिषति । 'णौ दान्त०' (४।४।७४) इति वा निपातनात् ज्ञप्तः २ । विज्ञप्तः २ । एवं आज्ञप्तः २ । आज्ञापितः२० २ । विज्ञपय्य आज्ञाप्य । विज्ञपयिता ३ तुम् तव्यम् । आज्ञापयिता आज्ञापयितुम् आज्ञापयितव्यम् । संज्ञपयतीत्यत्र ज्ञाण्ज्ञांशोर्णिचि णिगि च रूपसाम्येऽप्यर्थभेदोऽस्ति । एकत्र स्वार्थोऽन्यत्र प्रयोक्तव्यापारः । ज्ञाण हि प्रथममेव स्वार्थे मारणे वर्तते । अन्यस्तु प्रथमं मरणे ततो मारणे इत्यर्थः । एवं विज्ञपयतीत्यादावपि । इत्यादन्तः । 'च्युण सहने' हसने इत्येके । च्यावयति । शरान् , सहते इत्यर्थः । अन्यत्र 'च्युङ् गतौ' च्यवते । इत्युदन्तः । 'भूण अवकल्कने' । अवक-२५ ल्कनं मिश्रीकरणम् । भावयति दध्योदनम् । विकल्कने इति नन्दी भावयेद्ब्राह्मणं तपः । अवकल्पने इत्यन्ये । भावयति साधुः समयम् । 'भू सत्तायाम्' भवति । प्राप्तौ तु 'भूङ्' इति वा णिङि भावयते । पक्षे ङित्त्वात् 'इडित०' ( ३।३।२२) इत्यात्मनेपदे भवते । इत्यूदन्तः । 'बुक्कण भषणे' भाषण इत्येके । आभाषणे इत्यन्ये । बुक्कयति श्वा चौरम् । भषणादन्यत्र 'बुक्क भाषणे' । बुक्कति । 'रक लक रग लगण् आस्वादने' राकयति लाकयति । आसादने इत्येके आराकयति ३० आलाकयति धर्मम् । इति कान्तास्त्रयः । 'रंग रागयति । 'लग लागयति । अन्यत्र 'रंगे शङ्कायाम्' रगति । 'लगे सङ्गे लगति । णिगि 'घटादेः०' (४।२।२४) इति ह्रस्वे रगयति लगयति । 'लिगुण चित्रीकरणे' ने लिङ्गयति शब्दम् । स्त्रीपुंनपुंसकलिङ्गैश्चित्रीकरोतीत्यर्थः । उल्लिङ्गयति । अचि लिङ्गम् । अन्यत्र 'लिगु गतौ लिङ्गति आलिङ्गति । इति गान्तात्रयः। 'चर्चण अध्ययने' चर्चयति शास्त्रम् ।३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org