________________
७५६
महामहोपाध्याय श्रीविनय विजयगणिविरचिते खोपज्ञहैमलघु
स्वार्थे के तालिका । णिचोऽनित्यत्वात् तलयति । अचि तलम् । 'तुलण् उन्माने' तोलयति । 'भीषिभूषि० ' ( ५।३।१०९) इत्यङि तोला । बाहुलकात् 'णिवेत्ति०' ( ५|३|१११ ) इत्यने तोलना । णिजभावे 'नाम्युपान्त्य ० ' ( ५/१/५४ ) इति के तुलः । आपि तुला । भिदाद्यङि तुला । तुलयतीति तुलशब्दाण्णिज् 'बहुलम्' (५।११२ ) इति णिज रूपम् । 'दुलण उत्क्षेपे' दोलयति । अचि स्त्रिया५ मापि दोला । 'सेक्तयो:' ( ४।३।८४ ) इति णेर्लुकि दोलितः । 'भीषभूषि० ' इत्यङि दोला । णिजभावे नाम्युपान्त्य ० ( ६०९) इति किदि : दुलिः कच्छपी । अन्दोलयतीति तु रूढेः, यथा प्रेङ्खेलयति वीजयति 'मूलण रोहणे' मूलयति । अचि मूलम् । उणादौ 'स्वरेभ्य ० ' ( ६०६ ) इति इ: मूलि: । मुलेति नन्दी मोलयति । णिजभावे 'नाम्युपान्त्य ० ' ( ५/१/५४ ) इति के मुलः । 'कल किल पिल क्षेपे' । कालयति गाः । अचि कालयति क्षेपयति स्वेषु स्वेषु पर्यायेषु भावानिति १० कालः । ‘कलण् सङ्ख्यानगत्योः' अदन्तः संकलयति । अचि कलः । किल केलयति ।
स्वरेभ्य० ( ६०६ ) इति इ: केलिः । पिल, पेलयति । अचि पेलम् । पेल्यन्ते वस्त्रादीन्यस्यामिति बाहुलकादनडपवादः शंसिप्रत्ययादिभ्यः, भिदादित्वाद्वाङि पेला | 'पलणू रक्षणे' पालयति । 'इल प्रेरणे' एलयति । ' उपसर्गस्यानिणे ० ' (१।२।१९ ) इत्यलोपे प्रेलयति परेलयति । ङे, ऐलिलत् । अचि एला । 'चलण् भृतौ' चालयति । 'चल कम्पने' । चलति ( कम्पते ) । घटादित्वाद् १५ ह्रस्वे चयति । 'चलत् विकसने' 'अवर्णादो० ' (२।१।११५ ) इति शतुर्वा अन्तादेशे चलती चलन्ती स्त्री कुले वा । इति लान्ताः षोडश १६ || 'सान्त्वण् सामप्रयोगे' सान्त्वयति । अषोपदेशत्वात् ‘णिस्तोरेव०' ( २ | ३ | ३७ ) इति षत्वाभावे सिसान्त्वयिषति । षोपदेशोऽयमित्येके सिषान्त्वयिषति । साम सान्त्वप्रयोगे इति चन्द्रः सामयति । ङे 'उपान्त्यस्या ० ' ( ४।२।३५ ) इति ह्रस्वे असीसमत् । 'सामणू सान्त्वने' अदन्तः, अससामत् । इति वान्तः । 'धूशण कान्तीकरणे' २० धूशयति । दन्त्योऽयमित्येके धूसयति । जठरक्रकर० (४०३ ) इत्यरे धूसरः । मूर्द्धन्योऽयमित्यन्ये धूषयति । इति शान्त: । 'श्लिषण श्लेषण' श्लेषयति । 'लूषण हिंसायाम् । लूषयति । 'रुष रोषे' रोषयति । 'प्युषण उत्सर्गे' प्योषयति । णिचोऽनित्यत्वात् पुण्योष । इति पान्ताश्चत्वारः । 'पण नाशने' उदित्त्वाने पंसयति । उणादौ पंसेर्दीर्घश्व ( ७१८ ) इत्यौ पांसुः पार्थिवं रजः । 'जसुण रक्षणे' उदित्वाने जंसयति 'दहुण् इत्यप्येके' दंहयति । पुंसण् अभिमर्दने' पुंसयति । ते २५ उत्पुंसितम् । उणादौ नमः पुंसे: ( ३२ ) इत्यके नखादित्वान्नमोऽदभावे नपुंसकम् | 'ब्रूस पिस जस बर्हण हिंसायाम्' । ब्रूसयति । पेसयति । गतावयमित्येके । बलदाननिकेतनेष्वपि । गतौ' पेसति । ऋदनुबन्धत्वात् णौ ङे ह्रस्वाभावे अपिपेसत् । एके त्वाहुः नायमृदित्, तथा णिचो ऽनित्यत्वान्चौरादित्वेनैव पेसतीति प्रयोगसिद्धौ भ्वादौ पाठोऽस्यात्मनेपदार्थः पेसते । जस, 'जासनाढ ० ' (२।२।१४ ) इति कर्मणो वा कर्मत्वे 'शेष' ( २।२।८१ ) इति षष्ठ्यां चौरस्योज्जासयति । इति ३० षान्ताः षट् ६ । बर्ह, बर्हयति । 'ष्णिहणू स्नेहने' 'पः स० ' (२।३।९८ ) इति से स्नेहयति । षोपदेशत्वात् 'णिस्तोरेव ० ' (२।३।३७ ) इति षत्वे सिष्णेोहयिषति । इति हान्तः । 'त्रक्षण म्लेच्छ क्षयति । अनटि ग्रक्षणम् । स्वादौ 'क्ष रोषे' । श्रक्षति । भक्षण अदने भक्षयति । णिगि 'भक्षेहिंसायाम् ' (२२२६ ) इत्यणिकर्तुः कर्मत्वे भक्षयति गौर्यवान् । भक्षयति गां यवान् मैत्रः । अत्र यवानां प्रसवप्ररोहादिधर्मत्वेन चेतनत्वाद्भक्षणे प्राणवियोगलक्षणा हिंसास्त्येव । हिंसाया ३५ अन्यत्र 'गतिबोध ० ' ( २/२/५ ) इति प्राप्तमपि कर्मत्वं न भवतीति' हेतुकर्तृ०' (२।२।४४ ) इति
For Personal & Private Use Only
Jain Education International
www.jainelibrary.org