________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे चुरादयः परस्मैपदिनः
७५५ मिन्दयति । अचि मन्दः कुष्ठी । टान्तोऽयमित्येके मिण्टयति । नायमुदिदिति कौशिकः मेदयति । 'गुर्दण् निकेतने पूर्वनिकेतने इत्येके । पूर्वनिकेतनमाद्यो निवासः । 'भवादे.' (२।१।६३) इति दीर्घ गूर्दयति । छर्दण् वमने' छर्दयति । उणादौ पदिपठि० (६०७) इति इः छर्दिः । सान्तस्तु रुर्च्यचि० (९८९) इति कृणत्तेः । इह 'गर्दण् शब्दे' इत्येके पेछुः । गर्दयति गर्दभः । भ्वादौ गर्दति अयं गर्जे इत्यपरे । इति दान्ताः पञ्च ५ ॥ 'वुधुण हिंसायाम् । उदित्त्वान्ने बुन्धयति ।५ ठान्तोऽयमित्येके बुण्ठयति । वर्धण् छेदनपूरणयोः वर्धयति । 'गर्धण् अभिकाङ्क्षायाम्' गर्धयति । 'बन्ध बधण् संयमने' बन्धयति । बधण् बाधयति । जे अबीबधत् । 'बधि बन्धने' बीभत्सते । इति धान्ताः पञ्च ५ ॥ 'छपुण् गतौ छम्पयति । 'क्षपुण क्षान्तौ' ने क्षम्पयति । ष्ट्रपण समुच्छ्राये' । 'षः स०' (२।३।९८) इति से स्तूपयति । षोपदेशत्वात् ‘णिस्तोरेव.' (२।३।३७) इति षे तुष्ट्रपयिषति । अषोपदेशोऽयमित्यन्ये तुस्तूपयिषति । 'डिपण् क्षेपे' डेपयति । 'लपण १० व्यक्तायां वाचिं' हापयति । 'डपु डिपुण संघाते' अभिमर्दन इत्येके, । ने डम्पयति डिम्पयति । भान्तावित्येके डम्भयति डिम्भयति । अचि, डिम्भः । 'शूर्पण माने' तालव्यादिः । शूर्पयति । अचि 'पुन्नान्नि०' (५।३।१३०) इति करणे घे वा शूर्पः । इति पान्ताः अष्टौ ८ । 'शुल्बण सर्जने च' चकारान्माने, । तालव्यादिः । शुल्बयति । अचि शुल्बम् । 'डवु डिवुण क्षेपे' ने, डम्बयति विडम्बयति । उणादौ जठर० (४०३) इत्यरे आडम्बरः । डिबु ने डिम्बयति । अचि १५ डिम्बमशस्त्रकलहः । केचित्तु भदभुदिभूनपि भान्तानिहाधीयते दाभयति दम्भयति दिम्भयति । सम्बण सम्बन्धे । सम्बयति । षोपदेशोऽयमित्यन्ये 'णिस्तोरेव०' (२।३।३७ ) इति षत्वे सिषम्बयिषति । तालव्यादिरयमिति द्रमिलाः शम्बयति शम्बलम् । साम्बेयेके साम्बयति । अलि साम्बः । 'कुबुण आच्छादने' ने, कुम्बयति । 'भीषिभूषि०' (५।३।१०९) इत्यङि कुम्बा । 'लुबु तुवुण अर्दने' ने, लुम्बयति । उणादौ खरेभ्य इ. (६०६) लुम्बिः । तुवु ने, तुम्बयति ।२० अचि गौरादित्वात् ङयां तुम्बी । 'तिकृतौ०' (५।१७१) इत्यके तुम्बकः । तुपुण् इत्यप्यन्ये तुम्पयति । पुर्वण निकेतने 'भ्वादेः' (२।१।६३) इति दीर्घ पूर्वयति । अचि पूर्वः पूर्व इत्यमरकोशः। ओष्ठ्यान्तेषु पठितस्तत्प्रकृत्यनुरोधाद्वान्तेष्वयमस्माभिरिहाधीतः । इत्यष्टौ बान्ताः ॥ 'यमण् परिवेषणे । अपरिवेषण इत्यन्ये, । यामयत्यतिथींश्चन्द्रमसं वा । परिवेषणादन्यत्र यमोऽपरिवेषणे णिचि चेति ह्रस्वे यमयति । अयीयमत् । यामयामास । इति मान्तः । 'व्ययण क्षेपे' व्यायति । २५ इति यान्तः । 'यत्रुण संकोचने' ययति नियत्रयति । डे, न्ययत्रत् । 'णिवेत्ति०' (५।३।१११) इत्यने यन्त्रणा । 'कुगुण अनृतभाषणे' ने, कुन्द्रयति । के, अचुकुन्द्रत् । गादिरयमित्यन्ये गुन्द्रा भद्रमुस्तः । 'श्वभ्रण गतौ' श्वभ्रयति । अचि श्वभ्रम् । इति रान्तात्रयः ॥ 'तिलण् स्नेहने' तेलयति । णिचोऽनित्यत्वादभावे 'नाम्युपान्त्य०' (५।११५४) इति के तिलाः । उणादौ कीचक० (२९) इति निपातनात् तिलकम् । 'जलण अपवारणे' जालयति, णके जालकम् , अचि जालम् ।३० अयं लजणिति नन्दी । लाजयति । अचि लाजाः । 'क्षलण् शौचे' शौचं शौचकर्म क्षालयति । क्षालितम् । 'पवित्रमत्रातनुते जगद्युगे स्मृता रसक्षालनयेव यत्कथा' इति नैषधीये । 'पुलण समुच्छाये' पोलयति । 'बिलण भेदे' ओष्ठ्यादिः वेलयति । उणादौ णिचोऽनित्यत्वादभावे विलिभिलि० (३४०) इति किति मे बिल्मं प्रकाशम् । निघृषि० (५११) इति किति वे बिल्वम् । भिलेति कौशिकः भेलयति भिल्मम् । 'तलण् प्रतिष्ठायाम्' तालयति उत्तालयति । अचि तालः ।३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org