________________
७५४ महामहोपाध्यायश्रीविनयविजयगणिविरचिते खौपज्ञहैमलघु
'कृत' कृत ऋदुपदेशोऽचीकृतदित्यत्र ऋकारश्रवणार्थः । यत 'ऋवर्णस्य' (४।२।३७) इत्यत्र वर्णग्रहणसामर्थ्यात्कीर्त्यादेशो बाध्यते । ततश्च दीर्घऋकारस्य ह्रस्वऋकारे अचीकृतदित्यत्र ऋकारश्रवणं स्यादन्यथा धातुपाठे कीर्तण इत्येव पठ्येत । ननु ऋत इत्यत्र ह्रस्व एव क्रियताम् तथा 'ऋवर्णस्य' इत्यत्र वर्णग्रहणं न कर्त्तव्यं स्यात् । मैवम्-तथा सति 'कृतैत् छेदने' 'कृतैप वेष्टने' ५इत्येतयोरपि ग्रहणं स्यात् । इकारान्तनिर्देशो मङ्गलार्थः ॥ ५ ॥ डे विशेषसूत्रम्
ऋवर्णस्य ॥ ६ ॥ [सि० ४।२।३७ ] उपान्त्यस्य ऋवर्णस्य उपरे णौ वा ऋः स्यात् । अचीकृतत्-अचिकीर्तत् ५ । 'गणण् सङ्ख्याने' गणयति ४। ॥६॥
'ऋ०' ऋवर्णस्येति अवीवृतत् अववर्तत् । अवीवृधत् अववर्द्धत् । अमीमृजत् अममार्जत् । १. अदीदृशत् अददर्शत् इति ह्रस्वऋकारान्तोदाहरणानि । अचीकृतदिति दीर्घऋकारान्तोदाहरणम् । वचन
सामर्थ्यादर् की.देशौ बाध्येते । उपान्त्यस्येत्येव अचीकरत् । ननु ऋहत् इत्येवास्तु किं वर्णग्रहणेन । नैवम्-तथासत्यचीकृतदिति न स्यात् । अथ पाठे कृतण् इति पठिष्यते । नैवम्-तथा ऋहत इत्यस्यान्यत्र चरितार्थत्वादत्र की.देश एव स्यात् । अथ कीर्त इत्यपठनादेवास्यापि ऋद्भविष्यतीति चेत् ।
नैवम्-एवं यदाऽनित्यो णिचुरादीनामिति णिजभावस्तदा कृतण् इति पाठे कृततीति न स्यात् १५किन्तु कर्त्ततीत्यनिष्टं स्यादिति वर्णग्रहणं सार्थकम् । तत्र हस्खाधिकारेणैव सिद्धे ऋत्करणमचीकृतदित्यत्र
गुणनिषेधार्थम् । ह्रस्वकरणसामर्थ्याद्गुणो न भविष्यतीति न वाच्यम् । 'लघोरुपान्त्यस्य' (४।३।४) इति गुणप्राप्त्या हस्वस्य चरितार्थत्वादिति । 'सातिहेति०' (५।३।९४) इति निपातनापवादे तौ कीर्तिः । उणादौ खरेभ्य० (६०६) इति इ. कीर्तिः । 'वर्त पथुण गतौ' अषोपदेशत्वात् 'णिस्तोरेव.' (२।३।३७) इति न षत्वम् । सिस्वर्तयिषति । षोपदेशोऽयमिति नन्दी । २० 'णिस्तोरेव०' इति षत्वे सिध्वर्तयिषति । अयं कृच्छ्रजीवनेऽपीत्यन्ये । इति तान्ताः षट् ६ । पथुण् पन्थयति परिपन्थयति । 'श्रथण प्रतिहर्षे' प्रतियत्न इत्यन्ये । श्राथयति । 'श्रथण बन्धने चेति युजादौ पठिष्यमाणोऽप्यर्थभेदादिह पुनरधीतः । आत्मनेपदे न रूपान्यत्वार्थ इह पाठ इत्येके । 'पृथण प्रक्षेपणे । पर्थयति । अयं पर्थण इत्येफे । पार्थण् इत्यन्ये पर्थयति पार्थयति । 'प्रथण
प्रख्याने' । प्रक्षेपणे इत्यन्ये प्राथयति । ङे 'स्मृदृत्वर०' (४।१।६५) इति सन्वद्भावापवादे पूर्वस्यात्वे २५ अपप्रथत् । इति थान्ताश्चत्वारः । 'छदण् संवरणे' छादयति । ऊर्जने घटादित्वाद् हवे छदयति ।
'णौ दान्तशान्त०' (४।४७४) इति क्ते वा निपातनात् छन्नः छादितः । णके उच्छादकः । 'कर्मजा तृचा च' (३।११८३) इति प्रतिषिद्धोऽपि याजकादित्वात्षष्ठीसमासः राज्ञोच्छादकः । विपि 'छदेरिस्मन्नट् कौ' (४।२।३३) इति ह्रखे तनुच्छत् । करणाधारे 'पुन्नानि.' (५।३।१३०)
इति घे 'एकोपसर्गस्य' (४।२।३४) इति इस्खे छदः प्रच्छदः उरश्छदः । उणादौ त्रट् (४४६) ३० इति त्रटि छत्रम् । हुयामा० (४५१) इति त्रे ह्रस्वाभावे छात्रः । मनि (९११) छद्म ।
रुच्यर्चि० (९८९) इतीसि छदिः । अदन्तोऽप्ययमित्येके छदयति । 'छदण अपवारणे' युजादेरिति वा णिचि छादयति छदयति । रूपान्यत्वार्थ चेह पाठः छादयते अत्रात्मनेपदं सिद्धम् । 'चुदण्
सञ्चोदने' सञ्चोदनं नोदनम् । चोदयति । य एचातः' (५।१।२८) इति ये चोद्यम् । णिवेत्ति०' ३४ (५।३।१११) इत्यने चोदना । भिदाधङि निपातनात् चूडा । 'मिदुणू स्नेहने' उदित्त्वान्ने
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org