________________
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे चुरादयः परस्मैपदिनः
७५३ (४।२।७०) इति क्तयोस्तस्य नत्वे लण्डः लण्डवान् । ओदित्करणबलात् णिजव्यवायेऽपि नत्वमित्यन्ये लण्डिनः । लण्डिनव्वान्। लदुण अपीति चान्द्राः । अवलन्दयत्युष्ट्रम्, 'पीडण् गहने' गहनं बाधा, पीडयति । ङे 'भ्राजभास०' (४।२।३६) इति वा ह्रस्वे अपीपिडत् अपिपीडत् । 'भीषिभूषि.' ( ५।३।१०९) इत्यत्र बहुवचनादङि पीडा । अवगाहने इत्यन्ये । तिलपीलकः । 'तडण आघाते' ताडयति । उणादौ णिचोऽनित्यत्वादभावे शलिवलि. (३४) इत्याके तडाकं ५ सरः । तडेरागः (९७) तडागं सरः । हमृरुहि० (८८७) इतीति तडित् । कमिव मि० (६१८) इति णिदिः ताडिः, वृक्षजातिः । खड खडुण भेदे । खाडयति । खण्डयति । कडुण् खण्डने च । चकारात् भेदे 'खुडण् खण्डने' इत्येके खुण्डयति खुण्डितः । 'कुटुण रक्षणे' उदित्त्वान्ने कुण्डयति । 'गुडुण वेष्टने च' चकाराद्रक्षणे, । उदित्त्वान्ने गुण्डयति । 'चुडुण् छेदने' चुण्डयति । 'मडण् भूषायाम्' उदित्त्वान्ने मण्डयति । 'भूषाक्रोधार्थ.' (५।२।४२) इत्यने १० मण्डनशीलो मण्डनः । 'युवर्ण' (५।३।२८) इत्यलि मण्डः । “णिवेत्ति०' (५।३।१११) इत्यने मण्डना । 'भडण कल्याणे' उदित्त्वान्ने भण्डयति । 'णिवेत्ति०' इत्यने भण्डना । दान्तोऽयमित्यन्ये भन्दयति । उणादौ णिचोऽनित्यत्वादभावे भन्दे लुक् च वा ( ३।३।९१) इति रकि भद्रम् भन्द्रं च कल्याणम् । 'भडुङ् परिभाषणे' भण्डते भण्डः । 'पिडण् संघाते' पिण्डयति । 'ईडण् स्तुतौ' ईडयति । 'चडणू कोपे' ने च चण्डयति । अचि चण्डः । 'नवा शोणादेः' (२।४।३१) १५ इति वा डयां चण्डी चण्डा । 'जुड चूर्ण वर्णण प्रेरणे' प्रेरणं दलनम् , जोडयति लत्वे जोलयति । ते जोडितम् । इति डान्ताः सप्तदश १७ । चूर्णयति । अलि चूर्णः । उणादौ स्वरेभ्य इ. (६०४) इति इ. चूर्णिः । वर्णयति वर्णना। 'चूण तूणण संकोचने' चूणयति । 'युवर्ण.' (५।३।२८) इत्यलि चूणः । तूणयति तूणः । उणादौ जम्बीराभीर० (४२२) इतीरे तूणीरः। 'श्रणण् दाने' विश्राणयति । 'णिवेत्ति०' (५।३।१११) इत्यने विश्राणना । क्लीबेऽनटि विश्राणनम् । 'भीषि-२० भूषि०' ( ५।३।१०९) इत्यत्र बहुवचनादपवादेऽङि श्राणा यवागूः । 'यमोऽपरिवेषणे' इत्यत्र णिचो ग्रहणादेषु घटादेरिति हस्खो नास्ति । णिजभावपक्षे तु णिगि हस्ते श्रणयति । 'पूणण संघाते' । पूणयति । इति णान्ताः षट् । "चितुण्' धातुं (पृष्ठ ७५०) साक्षानिर्दिशति । 'चितुण् स्मृत्याम्' चिन्तयत्यादि । स्पष्टम् । 'णिवेत्ति०' (५।३।१११) इत्यनापवादे 'भीषिभूषि०' (५।३।१०९) इत्यङि चिन्ता । भीष्यादिभ्योऽनापवादे अप्रत्यये गेलुंकि भीषादीनां सिद्धावङिधानं गेहूंकोऽनित्यत्वज्ञापनार्थम् ।२५ तेन गेलुंगभावे 'संयोगात्' (२।११५२) इतीयादेशे चिन्तिया । तथा च 'न यमेन न जातवेदसा न कुबेरेण न वज्रपाणिना । मघवो युधि सुप्रकम्पया श्वसनेनैव वसुन्धरायते' ॥१॥ अत्र सुप्रपूर्वात्कम्पः खलि णेलुंगभावे यादेशे च सुप्रकम्पया इति सिद्धम् । ज्ञापन कचिदेव णिलुगभावो ज्ञाप्यते । आमादिषु तु सर्वत्राव्यभिचारार्थमयादेशे आमन्तादिति वचनम् । 'पुस्त बुस्तण आदरा. नादरयोः' पुस्तयति । अलि पुस्तं लेप्यकर्म । णके पुस्तकम् । अयं वन्दने इति चन्द्रः । वुस्तयति । ३० उणादौ स्वरेभ्य इ. (६०६) बुस्तिः शष्कुली । 'मुस्तण् संघाते' मुस्तयति अचि मुस्ता। 'कृतण्' धातुं (पृष्ठ ७५०) पाठतो निरूपयति । 'कृतण संशब्दने' इति । संशब्दनं ख्यातिः॥४॥ अत्र विशेषसूत्रम् ।
कृतः कीर्तिः ॥ ५॥ [सि० ४।४।१२२ ] कृतणः कीर्तः इत्यादेशः स्यात् । कीर्तयति ४ । ॥५॥ १ कथमप्यत्र 'चितिण संवेदने' इति मूले वर्णितोऽपि त्रुटितो ज्ञायते-संपादकः।
है. प्रका० उत्त० ९५
३४
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org