________________
७५२
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुदीर्घ अक्षाजि अक्षञ्जि । पूजण्धातुं (पृष्ठ ७५०) साक्षात्पठति पूजयति । 'य एश्चातः' (५।१।२८) इति पूज्यः । णके पूजकः । याजकादित्वात् 'कर्मजा तृचा च' (३।१।८३ ) इति प्रतिषिद्धोऽपि षष्ठीसमासो भवति । गुरूणां पूजयति गुरुपूजकः । 'ज्ञानेच्छा०' (५।२।९२) इति सति क्ते 'क्तयोरसदाधारे' (२।२।९१) इत्यत्र सदर्थस्य वर्जनात्प्रतिषेधाभावे 'कर्त्तरि' (२।२।८६) इति ५षष्ट्यां राज्ञां पूजितः । 'ज्ञानेच्छा०' (३।१।८६) इति निषेधाच्चात्र षष्ठीसमासः । भीषिभूषि० (५।३।१०९) इत्यङि पूजा । 'गज मार्जण् शब्दे' गाजयति मार्जयति । 'तिजण् निशाने' तेजयति ‘णिवेत्ति०' (५।३।१११) इत्यने तेजना । 'वज व्रजण मार्गणसंस्कारगत्योः' मार्गणो बाणस्तस्य संस्कारे गतौ, मार्गसंस्कारेऽपीत्यन्ये । वाजयति ब्राजयति । 'रुजण् हिंसायाम्'
रोजयति । इति जान्ता एकादश ११ ॥ 'नटण् अवस्यन्दने' अवस्यन्दनं भ्रंशः । 'जासनाट०' १० (२।२।१४) इति कर्मणो वा कर्मत्वे 'शेषे' (२।२।८१) इति षष्ठ्यां चौरस्योन्नाटयति । 'तट
चुट चुटु छुटण छेदने' तोटयति चोटयति उदित्त्वान्ने चुण्टयति छोटयति आच्छोटयति । 'नाम्नि पुंसि च' (५।३।१२१ ) इति णके छोटिका । अनटि आच्छोटनम् । 'कुण कुत्सने च' चकारात् छेदने, कुट्टयति । वृभिक्षीति टाके कुट्टाकः । इक्षुकुट्टाकः । कुट्टाकी । अलि कुट्टः । रम्यादित्वास्कर्त्तर्यनटि कुट्टनी । उणादौ कुट्टिवेष्टि० (३४९) इतीमे कुट्टिमं संस्कृतभूतलम् । 'पुट्ट चुदृ १५षुदृण अल्पीभावे' पुट्टयति चुट्टयति । 'षः स०' (२।३।९८ ) इति से सुट्टयति । पोपदेशत्वात्
'णिस्तोरेव०' (२।३।३७) इति षत्वे सुषुट्टयिषति । अषोपदेशोऽयमनादरार्थश्चेत्यन्ये । तन्मते षत्वाभावे सुसुट्टयिषति । 'पुट मुटण् संचूर्णने' पोटयति । अचि पोटा चेटी । मोटयति अनटि मोटनम् । 'अह स्मिटण अनादरे' अट्टयति । अलि अट्टः । अचि अट्टा । अट्टां करोति अट्टायते । स्मेटयति । अषोपदेशत्वात् 'णिस्तोरेव०' (२।३।३७) इति षत्वाभावे सिस्मेटयिषति । 'अट्ट २० अल्पीभावे' इत्येके। "लण्टण स्तेये च' चकारादनादरे, लुण्टयति । वृशिक्षि इति टाके
लुण्टाकः । लुण्टाकी । णिजभावे 'क्तेट०' (५।३।१०६) इत्यः लुण्टा । 'लिटण स्नेहने' स्नेहयति । 'घट्टण चलने' घट्टयति । अलि संघट्टः । 'णिवेत्ति०' (५।३।१११) इत्यने घट्टना । 'पुंनाम्निः ' (५।३।१३०) इति करणाधारे घे घट्टः नद्यवतरणस्थानम् । अचि अरघट्टः । 'खट्टण संवरणे' खट्टयति मुखम् । 'षद स्फिटण् हिंसायाम्' 'पः स.' (२।३।९८) इति से २५ सट्टयति । षोपदेशत्वात् ‘णिस्तोरेव०' (२।३।३७) इति षत्वे सिषट्टयिषति । णके सट्टकम् । अयं बलदाननिकेतनेष्वपीत्यन्ये । स्फेटयति णके, स्फेटकः 'पुन्नाग्नि' (५।३।१३०) इति घे स्फेटः संस्फेटश्च युद्धम् । 'स्फिटण अनादरे' इत्यन्ये । 'स्फुटुंण् परिहासे' उदित्त्वाने स्फुण्टयति । 'कीटण वर्णने' बन्ध इत्यन्ये, कीटयति अचि कीटः। वटुण विभाजने' वण्टयति । डान्तोऽ
यमित्येके । वण्डयति अचि वण्डः । 'रुटण रोपे' रोटयति अचि ग्रामरोटः । इति टान्ता. ३० स्त्रयोविंशतिः २३ । 'शठ श्वठ श्वठुण संस्कारगत्योः' शाठयति श्वाठयति श्वण्ठयति । 'शुठण्
आलस्ये' शोठयति । 'शुटुण् शोषणे' शुण्ठयति । अचि गौरादित्वात् ङयां शुण्ठी । 'गुठुण वेष्टने' उदित्त्वान्ने गुण्ठयति । 'णिवेत्ति०' (५।३।१११) इत्यने गुण्ठना । क्ते अवगुण्ठितः । इति ठान्ताः षट् ६ । 'लडण उपसेवायाम्' लाडयति । लत्वे, उपलालयति । "स्फुडण् परिहासे' उदित्त्वान्ने
स्फुण्डयति णके स्फुण्डिका । "ओलडुण उत्क्षेपे' उदित्त्वान्ने ओलण्डयति 'सेट्क्तयोः' (४।३।८४) ३५ इति गेलुंकि ओलण्डितः। ओदिदयमित्येके। 'लण्डयति' । णिजो टोरनित्यत्वात् 'सूयत्यादि।
HINATIONAL
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org