________________
प्रक्रियावृत्तिरूपे श्रीमप्रकाशे चुरादयः परस्मैपदिनः
७५१
I
षीष्ट । चोरयिष्यते गौः स्वयमेव । सनि चुचोरयिषति । णिजन्तस्यानेकस्वरत्वाद्यङ् न भवति । चोरयन्तं प्रायुङ्केति णिजन्ताण्णिगि 'णेरनिटि' इति णिचो लुक्यपि णिजात्याश्रयणात् समानलो पित्वाभावादुपान्त्यस्येति इखे लघोर्दीर्घे च अचूचुरत् । चोरयन् । चोरयन्ती । चोर्यमाणम् २ | चोरयिष्यन् । चोरयिष्यन्ती चोरिष्यन्ती । चोरिष्यमाणम् चोरयिष्यमाणम् । चोरया ३ञ्चकृवान् बभूवान् आसिवान् । चोरया ३ञ्चकाणम् बभूवानम् आसानम् । सेक्तयोरिति णेलुकि चोरितः २ ॥५ चत्वा । चोरयितव्यम् । चोरयितुम् । चोरणीयम् । चोर्यम् । अचि चोरः । गौरादित्वात् ङयां चोरी । प्रज्ञाद्यणि चौरः । 'णिवेत्ति ० ' ( ५।३।१११ ) इत्यने चोरणा । णिचोऽनित्यत्वादभावे 'भिदादयः' (५।३।१०८ ) इत्यङि निपातनात् चुराशील मित्यधिकृत्य अस्थाछत्रादेरित्यङि चुराशीलमस्य चौरः । 'अणयेये ० ' (२।४।२० ) इति ङयां चोरी । 'युवर्ण ० ' ( ५ | ३|२८ ) इत्यलि चोरः ।
१०
इह पिण्प्रभृतीनां सनकार निर्देश मकृत्वोदित्करणं चुरादिणिचोऽनित्यत्वज्ञापकम्, न च चिन्त्यते इत्यादौ नलोपाभावार्थम् । ततो णिच्लुकः स्थानित्वेनोपान्त्याभावान्नलुको प्रसङ्गात्, तेन चोरति चिन्ततीत्यादि सिद्धम् । इदमन्यदपि ज्ञापकम् । घुषेरविशब्दे इति प्रतिषेधः । तत्रैकस्वरादित्यधिकारेण चुरादिपठितस्य विशब्दनार्थस्य घुषेर्णिजन्तस्यानेकस्वरत्वादेवेद्प्रतिषेधाभावे सिद्धेऽपि धुपेरविशब्दे प्रतिषेधात् ज्ञाप्यते अनित्यचुरादि णिजिति । तेन 'महीपालवचः श्रुत्वा जुघुषुः १५ पुष्यमाणवाः' । स्वाभिप्रायं नानाशब्दैराविः कृतवन्त इत्यर्थः इत्यपि सिद्धम् | 'चुरादिभ्यो णिच्' ( ३।४।१७ ) इत्यत्र बहुवचनमाकृतिगणार्थम् । तेन संवाहयतीत्यादि सिद्धम् । 'पूणू पूरणे' । परयति । अपीपरत् । पारयाञ्चकार । 'साहिसात' (५/१/५९ ) इति शे पारयः । ऋदन्तोऽयमित्येके । 'घृणू स्रवणे' घारयति । इति ऋदन्तौ द्वौ । 'श्वल्क वल्क भाषणे' । वल्कयति वल्कयति । अचि वल्कः तरुत्वक् । वल्कलमिति तु वलिपुषेः कलक् ( ४९६ ) इति कल कि । २० 'नक्क धक्क नाशने' नक्कयति धक्कयति । 'चक्क चुक्कण् व्यथने' चक्कयति । उणादौ मुरलोरल ० ( ४७४ ) इति निपातनादले चक्कलम् चक्कलकम् । चुक्कयति । अच्यलि वा चुकः । चिकेति कौशिकः । फनसतामरसादय इति निपातनात् चिक्कसं चिक्कणम् । 'यवक्षोदे तु चिक्कसः' इति कोषः । 'टकुणू बन्धने' उदित्त्वाने टङ्कयति 'पुन्नाम्नि ० ' ( ५ | ३ | १३० ) इति घे टङ्कः दृषद्दारकः । अनटि टङ्कनम् । 'णिवेच्या० ' ( ५|३|१११ ) इत्यने टङ्कना । 'अर्कण स्तवने' अर्केयति । २५ अच्यलि वा अर्कः । इत्यष्टौ कान्ताः । 'पिच्चण कुट्टने' पिश्चयति । पिचुरिति तु पचेरिच्चातः ( ७३५ ) इति पचे रूपम् । 'पचुणू विस्तारे' उदित्वान्ने प्रपञ्चयति । ङे प्रापपञ्चत् । अलि प्रपञ्चः । इति चान्तौ द्वौ । ' म्लेच्छणू म्लेच्छने' म्लेच्छनमव्यक्ता वाक् । म्लेच्छयति । इति छान्तः एकः । 'ऊर्जणू बलप्राणनयो:' प्राणनं जीवनम् । ऊर्जयति । 'दिद्युद्ददृद्०' ( ५|२|८३ ) इति faप ऊ । 'रात्सः' (२।१।९०) इति नियमादत्र संयोगान्तलुक् नास्ति । ऊर्जा विन्वलावस-वान्तः ३० ऊर्जस्वी ऊर्जस्वलः । भिदाद्यङि ऊर्जा । क्ते ऊर्जितम् । 'तुजु पिजण हिंसा बलदान निकेतनेषु' निकेतनं गृहम् । उदित्वान्ने तुञ्जयति पिञ्जयति । उणादौ ऋछिचटि० (३९७ ) इत्यरे पिञ्जरः । पिञ्जिमञ्जि० (४८८ ) इत्यूले पिञ्जल : हस्तिबन्धनपाशः । लुजुमध्येके पेठुः लुञ्जयति । लोक तर्केति पाठेऽनयोः पुनः पाठोऽर्थभेदार्थः सकर्मकार्थ आत्मनेपदार्थश्च । तुञ्जयते पिञ्जयते । 'क्षजुणू कृच्छ्रजीवने' उदित्त्वाने क्षञ्जयति । 'क्षजुङ् गतिदानयो:' क्षञ्जते । घटादित्वात् ञिणम्परे णौ वा ३५
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org