________________
७५०
महामहोपाध्यायश्रीविनयविजयगणिविरचिते खोपज्ञहैमलघुएवं यत्रान्त्यस्वरादिलोपस्तत्र स्थानिवद्भावाभावान्न सिद्ध्यतीति वचनम् । यत्र तु स्वरस्यैव लोपस्तत्र लोपस्य स्वरादेशत्वात् 'स्वरस्य परे०' (७।४।११०) इति स्थानिवद्भावेनैव सिद्ध्यति । मालामाख्यदममालत् । मातरमाख्यदममातत् । 'शारण दौर्बल्ये' अस्माददन्ताणिज् । अशशारत् । 'शूरणि विक्रान्तौ' अस्माददन्ताणिज् शूरमाख्यत् अशुशूरत् । अन्यथास्यात्मनेपदित्वादचं विना परस्मैपदं न ५स्यात् । ननु यत्रापि स्वरव्यञ्जनलोपस्तत्राप्यवयवावयविनोरभेदनयेन स्वरादेश एवेति स्थानिवद्भावेनैव सिद्ध्यति किमसमानलोपिवचनेन ? सत्यं स्थानिवद्भावस्या नित्यत्वख्यापनार्थं वचनम् । तेन वास्या परिच्छिन्नवान् पर्यवीवसत् । स्वादुकृतवान् असिस्वददित्यादि सिद्धम् । अत्रेकारोकारयोः 'नामिनोऽकलिहलेः' (४।३।५१) इति वृद्धौ कृतायामन्त्यस्वरादिलोपादसमानलोपित्वम् । ननु च
परत्वात प्रथमं लोपेनैव भवितव्यम् । नैवम् कलिहलिवर्जनात्परमपि लोपं वृद्धिर्बाधते । अत एव १० तत्र कलिहलिवर्जनमर्थवत् । 'शासू' अशशासत् । आशासोपीच्छत्यन्यः आशशासत् । ऋदित्
'ओण अपनयने' मा भवानोणिणत् । 'ओख' मा भवानोचिखत् । 'एजु' मा भवाने जिजत् । 'या' अययाचत् । 'सेक्' असिसेकत् । येषां मते पोपदेशस्तन्मते असिषेकदिति । 'लोक' अलुलोकत् । 'ढौक अडुढौकत्' । शासेरूदित्करणं यङ्लुब्निवृत्त्यर्थम् । अशाशसत् । अन्ये तु
अशाशास दित्यपीच्छन्ति । वदति स्म वीणा तां प्रायुक्त परिवादकः तमप्यन्यः प्रायुत अवीवदत् १५वीणां परिवादकेनेति तु णिजात्याश्रयणात् सिद्धम् ॥ २॥ चुचुरि इति जाते अत्र सूत्रम्
लघोर्दी!ऽखरादेः ॥ ३॥ [सि० ४।१।६४ ] नास्ति समानलोपो यसिंस्तसिन उपरे णौ अस्वरादेर्धातोत्वेि पूर्वस्य लघोलघुनि धात्वक्षरे परे दीर्घः स्यात् ॥ ३॥
'लघो०' व्यक्तम् । लघोरिति किम् ? अचिक्षणत् । अखरादेरिति किम् ? औMनवत् । उरुरि२० वाचरतीति विप्लोपे णौ औरिरवत् । लघुनीत्येव अततक्षत् । णावित्येव अचकमत् । ङ इत्येव रिरमयिषति । असमानलोप इत्येव अचकथत् । अददृषत् । णिजात्याश्रयणादवीवदवीणां परिवादकेनेति ॥ ३ ॥ अत्रोपयोगिसूत्रम्
रनिटि ॥ ४॥ [सि० ४।३।८३ ] अनिट्यशिति प्रत्यये गेलृक् स्यात् । अचूचुरत् अचूचुरताम् अचूचुरन् ५। धातोरनेकस्व२५रादाम् । चोरयामास ६ । चोर्यात् ७ । चोरयिता ८ । चोरयिष्यति ९ । अचोरयिष्यत् १० । "पूजण् पूजायाम्' पूजयति ४ । अपूपुजत् ५। 'चितण् संवेदने' चेतयति ४ । अचिचेतत् ५ । 'चितुण् स्मृत्याम्' उदितः स्वरान्नोऽन्तः चिन्तयति ४ । अचिचिन्तत् ५ । 'कृतण संशब्दने' ॥४॥
'णेर०' प्रकटम् । यथा अततक्षत् अररक्षत् आटिटत् आशिशत् । कारणा कारकः कार्यते ३० प्रकार्य । इय् य गुण वृद्धि दीर्घतागमानां बाधकोऽयम् । अनिटीति विषयसप्तम्यपि तेन चेतन इत्यत्र प्रागेव णेर्लोपे 'इङितो व्यञ्जनाद्यन्तात्' (५।२।४४ ) इत्यनः सिद्धः । अनिटीति किम् ? कारयिता। अशितीत्येव । कारयति । चोरयाञ्चक्रे चोरयांबभूव । चोरयामाहे, हं नेच्छन्त्येके चोरयामासे । कर्मकर्तर्येकधाताविति भिक्यात्मनेपदिषु प्राप्तेषु 'णिस्नु०' (३।४।९२) इति बिचो 'भूषार्थसन्' ३४ (३।४।९३) इति क्यस्य च निषेधादात्मनेपदे चोरयते । अचूचुरत गौः स्वयमेव । इटि चोरयि
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org