________________
७४९
प्रक्रियावृत्तिरूपे श्रीहैमप्रकाशे चुरादयः परस्मैपदिनः
EXCHAKKADXXXXKER
अथ चुरादयः।
ExcmXXXXCXKamax 'चुरण स्तेये।
अथ स्वार्थिकप्रत्ययान्तप्रक्रमादेव चुरादिधातुगणं वर्णक्रमेण निरूपयति । तत्राप्यादौ संप्रदायात् चुरण इति । णित्त्वं चुरादिज्ञापनार्थम् । सूत्रम् ।
चुरादिभ्यो णिच् ॥१॥ [सि० ३।४।१७] एभ्यः स्वार्थे णिच् स्यात् । वर्तमाना तिव् । 'कर्त्तर्यनमः शव' गुणेऽयादेशे 'लघोरुपान्त्यस्य' इति पूर्वस्य गुणे चोरयति १। चोरयेत् २ । चोरयतु चोरयतात् ३। अचोरयत् ४ । णिश्रीत्यादिना डे ॥१॥ __'चुरा०' स्वार्थिकत्वेनान्तरङ्गत्वाद्विशेषविधानाच्च कादिकारकापेक्षत्वेन बहिरङ्गेभ्यः सामान्य. विहितेभ्यश्च तिवादिभ्यः प्रागेव स्वार्थे णिच् , णिजन्तस्यापि क्रियार्थत्वाद्धातुत्वे 'शेषात्' (३।३।१० १००) इति परस्मैपदे चोरयतीति । णिचो गित्त्वाभावात्कर्तर्यात्मनेपदं नास्ति । चन्द्रस्तु णिच्यप्युभयपदित्वमन्नासीत् , णिद्विकल्पं च । अद्यतन्यां 'णिश्रि०' (३।४।५८) इति डे ॥ १ ॥ सूत्रम्
उपान्त्यस्यासमानलोपिशास्वृदितो ङे ॥२॥ [सि० ४।२।३५] समानलोपिशास्वृदिद्वर्जस्य धातोरुपान्त्य स्स उपरे णौ हवः स्यात् । तत 'आद्योंश एकखर' इति द्वित्वे चुचुरि इति द्वित्वे ॥२॥
१५ 'उपा०' अत्र नित्यमपि द्विवचनं बाधित्वा प्रागेव हस्ख ओणेदित्करणात् ज्ञापकात् । तद्धि माभवानोणिणदित्यत्र ऋदित्वेन हस्वत्वप्रतिषेधार्थ क्रियते । यदि च पूर्वमेव द्वितीयस्य द्वित्वं स्यात्तदानुपान्त्यत्वादेव ह्रस्वत्वाप्राप्त्या किं ऋदित्करणेन ? । एवं मा भवानटिट दित्यादि सिद्धम् । ङपरे णाविति न धातुर्विशिष्यते, किन्तु तदुपान्त्य इति णेः पूर्वस्याधातुत्वेऽपि ह्रस्वो भवति । तेन गोनावमाख्यत् अजूगुनत् । केचिदौतः स्थानिवद्भावेनोपान्त्यत्वाभावात् हवं नेच्छन्ति तेना-२० जुगोनत् । णाविति किम् ? डे उपान्त्यस्येतावत्युच्यमाने अलीलवदित्यादौ अन्तरङ्गावपि वृद्ध्यावादेशावदीदपदित्यादौ प्बागमं (च) बाधित्वा वचनसामर्थ्यात् णेरुपान्त्यस्य लूसम्बन्धिन ऊकारस्य ह्रस्वः प्रसज्यते । लू णिङ् इति स्थिते ङपरे णिः तावदन्त्यः स्वरस्तदा तूपान्त्यस्वर ऊकार एव । वचनसामर्थ्यादित्यस्यायमर्थः । यदि वृद्धावादेशौ स्याताम् तदा णिः तावदन्त्यः स्वर उपान्यस्तु वकारो भवति नतु कोपि स्वर इति ह्रस्वत्वाभावेन डे उपान्त्यस्य ह्रस्वो भवतीति वचनमनर्थकं २५ स्यादित्येतद्वचनसामर्थ्यात् ण्युपान्त्यस्य ऊकारस्य हस्खत्वे अलीलवदितीष्टरूपं न सिद्ध्यति । णिग्रहणानुवृत्तौ तु उपरे णावुपान्त्यस्य ह्रस्व इति अलीलवदपीपचदित्यादौ सर्वत्रापि ह्रस्वः सिद्ध्यति । डे इति किम् ? याचयति । उपान्त्यस्येति किम् ? अचकाङ्क्षत् । वचनादेकवर्णव्यवधाने भवति नत्वनेकवर्णव्यवधाने । असमानलोपि शास्वृदित इति किम् ? राजानमतिकान्तवान् अत्यरराजत् । लोमान्यनुमृष्टवान् अन्वलुलोमत् । स्वामिनमाख्यत् असखामत् । तादृशमाख्यत् अततादृत् ।३०
१ अयमर्थः 'स्वरस्य परे' इति खरादेशः स्थानी, अत्र तु खरव्यञ्जनादेशः ।
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org